Monday, 27 March 2023

ब्राह्मणस्य लक्षणं

★जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।
विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च ।।अत्रिसंहिता १४१।। 
●ग्रहा गावो नरेन्द्राश्च ब्राह्मणश्च विशेषतः ।
पूजिताः पूजयन्त्येते निर्दहन्त्यपमानिताः ।।
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः ।।आदिपर्व२८/४।।
●मनोः सम्मतिः --
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ।।
●भीष्मकथनम् -- 
गोरजो धान्यधूलिश्च पुत्रस्यालिङ्गने रजः ।
विप्रपादरजो राजन् हन्ति दारुण दुष्कृतिम् ।।शान्तिपर्व।।
यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य यथा द्विजाः ।।
क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ।।
(महा०अनुशासनपर्वणि ८/२०-२१)
दुर्ग्राह्यो मुष्टिना वायुः दुःस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी राजन् दुर्जया ब्राह्मणा भुवि ।।
(उक्त ३३/२७)
अविद्वान् ब्राह्मणो देवः पात्रं वै पावनं महत् ।
विद्वान् भूयस्तरो देवः पूर्णसागरसन्निभः ।।
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।।
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।
हविर्यज्ञे च विधिवद् गृह एवातिशोभते ।।
एवं यदप्यनिष्टेषु वर्तते सर्वकर्मसु ।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ।। 
(उक्त १५१/२०-२३)
●शिवपुराणे कैलाससंहितायां -- 
समस्तसम्पत्समवाप्तिहेतवः 
   समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः 
   पुनन्तु मां ब्राह्मणपादरेणवः ।।१२/४४।।
आपद्घ्नध्वान्तसहस्रभानवः 
   समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थाम्बुपवित्रमूर्तयः 
   रक्षन्तु मां ब्राह्मणपादपासवः ।।४५।।
●चाणक्यभणितम् --
निर्गुणो ब्राह्मणो पूज्यः न च शूद्रो जितेन्द्रियः ।
निर्दुग्धापि हि गौ पूज्या न तु दुग्धवती खरी ।।

No comments:

Post a Comment