महाकविश्रीमदम्बिकावत्तव्यासविरचितः
शिवराजविजयः
( ऐतिहासिक उपन्यासः )
प्रथमो बिरामः
"विष्णोर्माया भगवती यया सम्मोहितं जगत् ।" (भागवतम् १०।१।२५)
"हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते ।"
( भागवतम् १०।७।३१)
व्याख्या - विष्णोः - जगद्व्यापकस्य, नारायणस्य, माया = एतन्नामिका
सत्त्वप्रधाना शक्तिः, भगवती अशेषषड्गुणसमन्विता, ऐश्वर्यशालिनी वा, विद्यत इति शेषः । यया = सत्त्वप्रधानभूतया शक्त्या, माययेति शेषः, जगत् निखिलं भुवनं, सम्मोहितम् - चारुतया मोहेन वशीकृतम् ।
हिंस्रः = हिसनशीलः, खलः दुर्जनः, स्वपापेन निजेन पातकेन, विहि-
सितः = घातितः, साधुः सन्मानवः, समत्वेन - रागद्वेषादिविरहितया समत्व-भावनया, भयाद् = भीतेः, विमुच्यते मुक्तिरधिगम्यते । सज्जनः सत्कर्मणा-ऽपगतभयो भवतीति भावः ।
समासः - वेवेष्टि व्याप्नोति चराचरात्मकं प्रपश्वमिति विष्णुः, तस्य विष्णोः । भगोऽस्या अस्तीति भगवती । गच्छतीति जगत् । स्वं पापं स्वपापम्, तेन स्वपापेन । साध्नोति परकार्यमिति साधुः ।
कोषः - 'विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः' इत्यमरः । 'अथो जगती लोको विष्टपं भुवनं जगत्' इत्यमरः । 'दरस्त्रासोभीतिर्भीः साध्वसं भयम्' इत्यमरः ।
व्याकरणम् - भग + मतुप् ङीप् । सम्+ मुह + क्त। वि हिस + क्त । वि + मुच् + कर्मणि लट् ।
२
शिवराजविजयः
शब्दार्थ विष्णोः भगवान् विष्णु की, माया सत्त्वप्रधानात्मिका माया नामिका याक्ति, भगवती निखिल पड्गुणसम्पन्न ऐश्वर्यशालिनी है, यया जिस माया शक्ति के द्वारा जगत् अशेष भुवन, सम्मोहितम् - मोह में डालकर अपने अधीन किया गया है। हिंस्रः हिमनशील, स्वपापेन निज पातक से, विहिसितः = मारा गया, साधुः सत्पुरुष, समत्वेन समत्व बुद्धि के कारण, भयाद भीति से, विमुच्यते मुक्त हो जाता है।
हिन्दी भगवान् विष्णु की सत्त्वप्रधानात्मिका शक्ति माया सर्वगुणसम्पन्ना तथा ऐश्वर्यशालिनी है, जिसके द्वारा अशेष जगत् सम्यग रूप से मोहित किया गया है।
( भागवत १०।१।२५ )
दुष्ट हिंसक जन अपने पातक से ही मारा गया और सत्पुरुप अपने समत्व-बुद्धि के कारण भीति से मुक्त हो गया ।
( भागवत १०।७।३१)
टिप्पणी - ग्रन्थकार ने सर्वप्रथम यहाँ भागवत की दो सूक्तियों को समुद् घृत किया है। प्रथम सूक्ति शुक परीक्षित परिसंवाद के अवसर पर दुर्विनीत अन्यायी राजाओं के भारवाहुल्य से सम्पीडित धरा के दुःखमोचन हेतु ब्रह्मा द्वारा विनिर्दिष्ट उपायभूत है। सम्पूर्ण श्लोक निम्न प्रकार है-
'विष्णोर्माया भगवती यया सम्मोहितं जगत् ।
आदिष्टा प्रभुणांशेन कार्यार्थ सम्भविष्यति' ।।
इसमें भगवान् विष्णु की मायाशक्ति का प्रभाव वर्णित है। प्रारम्भ में विष्णु के नामग्रहण से मङ्गलाचरण का भी सूचक है। भगवती शब्द से सर्व-विध ऐश्वर्यसमन्विता और सकलगुणसम्पन्नता अभिप्रेत है। विद्वानों ने भग-
दत्ता का वर्णन अधोलिखित रूप में किया है-
'ऐश्वर्यस्य समग्रश्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरिणा' ।।
द्वितीय सूक्ति बालकरूप में भगवान् श्रीकृष्ण के द्वारा चक्रवातरूप धारण करने दाले तृणावर्त नामक दैत्य के विनाश के अनन्तर प्रसन्नचित्त नन्द आदि गोप-गोपिकाओं के मुखारविन्द से समुच्चरित है। पूरा श्लोक इस प्रकार है -
'अहो बतात्यद्भुतमेष रक्षसा वालो निवृत्ति गमितोऽभ्यगात् पुनः ।
हिंस्रः स्वतापेन विहिसितः खलः साधुः समत्वेन भयाद् विमुच्यते ।।
यह सूक्ति भविष्य में होने वाले ग्रन्थ-नायक शिवराज के विजय और पवन-शासक के विनाश को भी संसूचित करती है।
काश्चत
प्रथमो निश्वासः
"अरुण एष प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः । एष भगवान् मणिराकाशमण्डलस्य, चक्रवर्ती खेचर-चक्रस्य, कुण्डलमाखण्डलदिशः, दीपको ब्रह्माण्डभाण्डस्य, प्रेयान् पुण्डरीकपटलस्य, शोक-विमोकः कोक-लोकस्य, अवलम्बो रोलम्बकदम्बस्य, सूत्रधारः सर्वव्यवहारस्य, इनश्च दिनस्य । अयमेव अहोरात्रं जनयति, अयमेव वत्सरं द्वादशसु भागेषु विभनक्ति, अयमेव कारणं षण्णामृतूनास, एष एवाङ्गीकरोति उत्तरं दक्षिणं चायनम्, एनेनैव सम्पादिता युगभेदाः, एतेनैव कृताः कल्पभेदाः, एनमेवाऽऽश्रित्य भवति परमेष्ठिनः परार्द्धसङ्ख्या, असावेव चर्कति बर्भति जर्हति च जगत्, वेदा एतस्यैव वन्दिनः, गायत्री अमुमेव गायति, ब्रह्मनिष्ठा ब्राह्मणा अमुमेवाहरहरुपतिष्ठन्ते । धन्य एष कुलमूलं श्रीराम-चन्द्रस्य, प्रणम्य एष विश्वेषामिति उदेष्यन्तं भास्वन्तं प्रणमन् निज-पर्णकुटीरात् निश्चक्राम कश्चित् गुरुसेवनपटुविप्रबदुः ।
व्याख्या- पूर्वस्यों प्राच्यां, भगवतः ऐश्वर्यसम्पन्नस्य, मरीचिमालिनः = भास्करस्य, एषः अवम्, अरुणः लोहितः, प्रकाशः योत, विद्यत इति शेषः । एषः पुरोदृश्यमानः, भगवान् दिवाकरः, आकाशमण्डलस्य = गगन-मण्डलस्य, मणिः रत्नम्। खेचरचक्रस्य तारासमुदायस्य, चक्रवर्ती = सार्व-भौमो नृपः, आखण्डल दिशः पुरन्दरकाष्ठायाः, प्राच्या इति भावः, कुण्डलम् -कर्णवेष्टनम्, ब्रह्माण्डभाण्डस्य ब्रह्माण्डभवनस्य, ब्रह्माण्डपात्रस्य वा, दीपकः= प्रकाशकः, पुण्डरीकपटलस्य = सिताम्भोजसमूहस्य, प्रेयान् नितान्तप्रियः, कोकलोकस्य चक्रवाकनिवहस्य, शोकविमोकः कष्टहरः, रोलम्बकदम्बस्य = द्विरेफव्रातस्य, अवलम्बः आश्रयः, सर्वव्यवहारस्य सांतारिका शेषव्यापारस्य, सूत्रधारः प्रवर्तयिता, दिनस्य वासरस्य, इनः स्वामी, विद्यत इति शेपः । अयमेव - भगवान् भास्कर एव, अहोरात्रं नक्तन्दिवं, जनयति निदधाति, अयमेव सूर्य एव, वत्सरम् अब्दं द्वादशसुद्वादशसङ्ख्यकेषु भागेषु खण्डेषु, मेषादिमासरूपेष्विति भावः, विभनक्ति विभजते, अयमेव रविरेव, पण्णा-मृतूनाम् - वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराख्यानां पसंख्यकानामृतूनाम्, कारणं - हेतुः, एप एव भगवान् विवस्वान् एव, उत्तरम् उदीचीं, दक्षिणम् - अवाचीं च, अपनं स्वीयं मार्गम्, अङ्गीकरोति स्वीकरोति, एनेनैव = भगवता भास्करेणैव, युगभेदाः = सत्ययुगनेताद्वापरकलिरित्येवम्प्रकारकाः युग-
शिवराजविजयः
Y विभागाः, सम्पादिताः विहिताः, एनेनैव सूर्वेणैव, कल्पभेदाः द्विसहस्र-देवयुगात्मकाः कालमेवाः, कृताः व्यवस्थापिताः, एनमेव विवस्वन्तमेव, बाचित्यम्य, परमेष्ठिनः अगत्वष्टुर्वह्मणः परार्द्धसङ्ख्या - चरमा परार्द्धताम्ना प्रणिता सङ्ख्या, भवति सम्पूर्णतामेति, असो- सविता, एव = निश्चयेन जगद् निखिलं भुवनं, चर्केति पुनः पुनः करोति, वर्मति - पुनः पुनः भरति, अर्हति पुनः पुनः हरति च, वेदाः ऋग्यजुःसामायर्वाख्याः, एतस्यैव भगवतो भास्करस्यैव, वन्दिनः स्तुतिवाचकाः, गायत्री = एतन्ना-मिका देवी, अमुमेव भास्करमेव, गायति गानं कुरुते, ब्रह्मनिष्ठाः = वेद-पारगाः, बहह्मणि रताथ, बाह्मणाः विप्राः, अमुमेव आदित्यमेव, अहरहः = प्रतिदिनम्, उपतिष्ठन्ते सपर्या विदधति, उपासते वा । श्रीरामचन्द्रस्य = दशरथात्मकस्य, कूलमूलं वंशाग्रजः, एषः विवस्वान्, धन्यः प्रशंसार्हः, एषः अर्थ सूर्यः, विश्वेषां समेषां जनानां कृते, प्रणम्यः = वन्दनीयः, इति -अस्माद्धेतोः एवंरीत्या विचार्य, उद्देष्यन्तम् उदीयमानं, भास्वन्तम् अर्यमणं, प्रणमन् प्रणामं विदधन्, निजपर्णकुटीरात् स्वपत्रोटजात्, कश्चित् = अज्ञात-नामा, गुरुसेवनपटुः गुरुशुश्रूषानिपुणः, विप्रवदुः = द्विजबालकः, निश्चक्राम -निर्जगाम ।
समासः - मरीचीनां मालाऽस्यास्तीति मरीचिमाली, तस्य मरीचिमालिनः । से नभसि चरन्तीति खेचराः, तेषां चकः खेचरचक्रस्तस्य खेचरचक्रस्य । ब्रह्माण्ड-मेब भाण्डं ब्रह्माण्डभाण्डं, तस्य ब्रह्माण्डभाण्डस्य । पुण्डरीकाणां पटलं पुण्डरीक-पटलं, तस्य पुण्डरीकपटलस्य । रोलम्बानां कदम्बः रोलम्बकदम्बः, तस्य रोलम्ब-कदम्बस्य । बहाव रात्रिश्व अहोरात्रम् । कल्पानां भेदाः कल्पभेदाः । ब्रह्मणि निष्ठा येषां ते ब्रह्मनिष्ठाः । पर्णानां कुटीरः पर्णकुटीरः, निजस्य पर्णकुटीरः निजपर्णकुटीरः, तस्मात् निजपर्णकुटीरात् । गुरुसेवने पटुः गुरुसेवनपटुः । विप्रश्वासौ बटुः विप्रवदुः, अथवा विप्रस्य वटुः विप्रवदुः ।
कोषः 'चक्रः कोके पुमान् क्लीवं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावतेंऽरि' इति मेदिनी । 'स्याद् भाण्डमश्वाभरणे-ऽमत्रे मूलवणिग्धने' इत्यमरः । 'छदिनेंत्ररुजोः क्लीवं समूहे पटलं न ना' इत्य-मरः । 'इनः सूर्ये प्रभी' इत्यमरः । 'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्ण रश्मयः' इति चामरः ।
व्याकरणम् - जनयति - जन् + णिच् + लट् + तिप् ( 'बुधयुधनशजनेङ्
प्रथमो निश्वासः
५
प्रुद्धसुभ्यो णेः' (१।३।८६) इत्यनेन परस्मैपदम् । विभनक्ति-विभन्ज + लट्-तिप् । आश्रित्य आङ् धिम् क्त्वा ह्यप् । चर्कति- 'डुकृञ् करणे + यङ् (लुक् ) + लद् तिप्। बर्भतिभृत् + यह (लुक्) + लट् + तिप् । जर्हति हुन्। यह (लुक् + लट् तिप्। गायतिमै शब्दे + लट् + तिप् । उपतिष्ठन्ते उपस्था लट् झ ('उपाद्देवपूजासङ्गतिकरण-मित्रकरणपथिष्विति वक्तव्यम्' इत्यनेन वातिकेनात्मनेपदम् । प्रणम्यः+ णम् + यत् । प्रणमन् प्रणम् शतृ। फुटीरः 'ह्रस्वा फुटी' इत्यस्मिन्नर्थे 'कुटीशमीशुण्डाभ्यो रः' (पा० ५।३।८८) इत्यनेन र प्रत्ययः । निश्वक्राम-निर् + क्रमु पादविक्षेपे + लिट् ।
शब्दार्थ पूर्वस्यां पूर्व दिशा में, भगवतः ऐश्वर्ययुत, मरीचिमालिनः = भगवान् सूर्य का, एषः = यह, अरुणः कुछ लाल वर्ण का, प्रकाशः = प्रकाश (ज्योति) है। एष भगवान् = यह भगवान्, आकाशमण्डलस्य वियन्मण्डल के, मणिः = रत्न हैं, खेचरचक्रस्य तारासमूह के, चक्रवर्ती सार्वभौम नृपति हैं, आखण्डलदिशः देवाधिराज इन्द्र की दिशा प्राची के, कुण्डलम् कर्णा भूषण हैं। ब्रह्माण्डभाण्डस्य ब्रह्माण्डरूपी भवन, अथवा ब्रह्माण्डरूपी पात्र के, दीपकः = प्रकाशक हैं। पुण्डरीकपटलस्य श्वेतकमलसमूह के, प्रेयान् अतिशय प्रिय हैं। कोकलोकस्य चक्रवाकसमुदाय के शोकविमोकः दुःखहर्ता है, रोलम्बकदम्बेस्य - भ्रमरसमूह के, अवलम्बः आश्रय हैं, सर्वव्यवहारस्य सांसारिक अशेष व्यवहार के, सूत्रधारः प्रवर्तक हैं, च और, दिनस्य = दिवस के, इनः स्वामी हैं। अयमेव यही भगवान्, अहोरात्रं दिन-रात, जनयति = उत्पन्न करते हैं, अयमेव यही, वत्सरं वर्ष को, द्वादशसु भागेषु = बारह भागों में, विभनक्ति विभक्त करते हैं, अयमेव यही, पण्णामृतूनां वसन्तादि षड् ऋतुओं के, कारणं हेतु हैं, एष एव यही भगवान्, उत्तरं दक्षिणं चायनं उत्तरायण और दक्षिणायन रूप अपने मार्ग को, अङ्गीकरोति = स्वीकार करते हैं। एनेनैव इन्हीं भगवान् सूर्य के द्वारा, युगभेदाः सत्ययुग, त्रेता, द्वापर और कलि- इस प्रकार के युगों के भेद, सम्पादिताः किये गये हैं, एनेनैव = इन्हीं भगवान् के द्वारा, कल्पभेदाः कल्पों का विभाजन, कृताः= किया गया है, एनमेवाश्रित्य इन्हीं भगवान् सूर्य का ही आश्रयण कर, परमेष्ठिनः = विधाता की, परार्द्धसङ्ख्या भवति अन्तिमा परार्द्ध नाम्नी संख्या पूरी होती है, असावेव यही भगवान् सूर्य, जगत् सम्पूर्ण संसार को, चर्केति =
६
शिवराजविजयः
पुनः पुनः उत्पन्न करते हैं, बर्धति पुनः पुनः भरण-पोषण करते हैं, जर्हति -पुनः-पुनः संहार करते हैं, वेदाः ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद, एतस्यैष- इन्हीं भगवान् सूर्य के वन्दिनः स्तुतिवाचक हैं, गायत्री गायत्री नाम की देवी, अमुमेव भगवान् सूर्य का ही, गायति गान करती है, ब्रह्म-निष्ठब्राह्मणाः = ब्रह्मनिष्ठ विप्रगण, अमुमेव भगवान् सूर्य की ही, अहरहः प्रतिदिन, उपतिष्ठन्ते = उपासना करते हैं, श्रीरामचन्द्रस्य = भगवान् राम के, फूलमूलं - आदिवंशप्रवर्तक, एषः भगवान् सूर्य, धन्यः = धन्य हैं, एषः = यह भगवान् सूर्य, विश्वेषां सम्पूर्ण जनों के लिए, प्रणम्यः प्रणाम करने योग्य है, इति - इस प्रकार से विचार कर, उदेष्यन्तं भास्वन्तं उदीयमान भगवान् सूर्य को, प्रणमन् = प्रणाम करता हुआ, निजपर्णकुटीरात् = अपने छोटे पर्णकुटी से, कश्चित् - कोई, गुरुसेवनपटुः गुरु की सेवा में निपुण, विप्रवदुः = ब्राह्मण का बालक, निश्वक्राम = निकला ।
प्रभात वन्दना = विप्रवालक
हिन्दी-प्राची में भगवान् सूर्य का यह रक्तिम प्रकाश है। यह भगवान् भास्कर गगनमण्डल के मणि, नक्षत्र-समुदाय के चक्रवर्ती नृपति, पुरन्दर दिशा प्राचीरूपी नायिका के कुण्डल, ब्रह्माण्डरूपी भवन के प्रकाशक, कमल-समूह के अतिशय प्रिय, चक्रवाकव्रात के शोक का अपसारण करने वाले, द्विरेफ-समूह के आधय, निखिल व्यवहार के प्रवर्तक और दिवस के स्वामी हैं। यही भगवान् दिन और रात के जनक हैं। ये ही वर्ष को बारह भागों में विभक्त करते हैं। वसन्तादि षड् ऋतुओं के ये ही कारणभूत हैं। ये ही उत्तरायण और दक्षिणा-यनरूप सूर्यमार्ग का अवलम्बन करते हैं। इन्होंने ही चतुर्युगों (सत्ययुग, त्रेता, द्वाप्रर और कलियुग) का विभेद सम्पादित किया है। इन्होंने ही कल्पों का विभाजन किया है। इन्हीं को बाधारभूत बनाकर विधाता की अन्तिमा परार्द्ध-संख्या पूर्णता को प्राप्त करती है। ये ही भगवान् अशेष संसार 'का पुनः पुनः सृजन, पालन और संहार करते हैं। वेद इन्हीं की स्तुति करते हैं। गायत्री देवी इन्हीं का गान करती हैं। ब्रह्मनिष्ठ ब्राह्मण प्रतिदिन इन्हीं की अर्चना करते हैं। श्रीरामचन्द्र के कुल के मूल ये भगवान् सूर्य धन्य हैं। ये समस्त जनों के लिये बन्दनीय हैं- ऐसा सोचकर उदय होते हुए भगवान् सूर्य को प्रणाम करता हुआ, गुरुसेवा में दक्ष कोई विप्र धालक अपनी पर्णकुटी से बाहर निकला ।
प्रथमो निश्वासः
७
टिप्पणी - ब्रह्मा की दिन-रात मनुष्यों का कल्प अर्थात् स्थिति और प्रलयकाल है। जैसा कि अमरकोषकार ने कहा है-
'मासेन स्यादहोरात्रः पैत्रः वर्षेण दैवतः ।
दैवे युगसहस्र द्वे ब्राह्मः कल्पौ तु तो नृणाम् ।।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ।।
- अ० १।४।२१-२२ ।। १ ।।
2
सन्ध्योपासन-समयोऽयमस्मद्गुरु-"अहो ! चिररात्राय सुप्तोऽहम्, स्वप्नजालपरतन्त्रेणैव महान् पुण्यमयः समयोऽतिवाहितः, चरणानाम्, तत् सपदि अवचिनोमि कुसुमानि" इति चिन्तयन् कदलीदलमेकमाकुञ्च्य, तृणशकलेः सन्धाय, पुटकं विधाय, पुष्पावचयं कर्तुमारेभे ।
व्याख्या - अहो ! विस्मयान्विते विषादे, चिररात्राय चिरकालं यावद्, नहं - विप्रवदुः, सुप्तः = शयितः, स्वप्नजालपरतन्त्रेण निद्राऽऽनाय वशीभूतेन, एव - निश्चयेन, महान् पुण्यमयः अतिसुकृतसमन्वितः, समयः = कालः, अतिवाहितः = व्ययीकृतः, अस्मद्गुरुचरणानां मदीयाचार्यपादानाम्, अयं एषः, सन्ध्योपासनसमयः सन्ध्यासम्पादनकालः, तत् तस्माद्धेतोः, सपदि = सत्वरम्, कुसुमानि - प्रसूनानि, अवचिनोमि सङ्कलयामि, इति एवम्प्रकारेण, चिन्तयन् - मनसि विचारयन्, एकम् - एकसङ्ख्यकम्, कदलीदलम् काष्ठीला-पर्णम्, आकुञ्च्य = आच्छिद्य, तृणशकलैः बालतृणखण्डः, सन्धाय संयोज्य, पुटकम् - कुसुमस्थापनाय पात्रम्, 'दोना' इति मातृभाषायाम्, विधाय कृत्वा, पुष्पावचर्य - कुसुमलवनम्, एकत्रीकरणं वा, कर्तुम् = विधातुम्, आरेभे = समारब्धवान् ।
समासः - स्वप्न एव जालम्, तस्य परतन्त्रेण स्वप्नजालपरतन्त्रेण । कदल्याः दलं कदलीदलम् । तृणानां शकलाः, तृणशकलास्तैः तृणशकलैः । पुष्पा-णाम् अवचयः पुष्पावचयस्तं पुष्पावचयम् ।
कोषः 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' । 'आनायः पुंसि जालं स्यात्' । 'परतन्त्रः पराधीनः परवान्नाथवानपि । अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ' ।
८
शिवराजविजयः
'सम्झटित्यञ्जसाऽलाय द्वाङ् मङ्क्षु सपदि द्रुते' । 'सद्यः सपदि तत्क्षणे' । 'कदळी वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला' । 'पत्रं पलाशं छदनं वलं पर्णं छदः पुमान्' । 'भिज्ञं शकलखण्डे वा पुंस्यर्थोऽर्थं समेंऽशके' इत्यमरः ।
व्याकरणम् - सुप्तः - स्वप् + क्त। पुण्यमयः - पुण्य + मयट् ।
अव-चिनोमि - अव + चित् + लट् + मिप् । चिन्तयन्- चिन्त शतृ । आकुञ्च्य-बा + कुच्चा + क्त्वा = ल्यप् । सन्धाय - सम् + धा + क्त्वा + ल्यप् । आरेभे -बाङ् + रम्म् + लिट् + तिप् ।
शब्दार्थ - अहो ! = आश्चर्ययुक्त खेद है, चिररात्राय बहुत देर तक, अहम् - द्विजबालक मैं, सुप्तः शयन करता रहा, स्वप्नजालपरतन्त्रेणैव = निद्रारूपी जाल के अधीन होने से ही, महान् पुण्यमयः अत्यन्त सुकृतयुक्त, समयः - काल, अतिवाहितः व्यर्थ नष्ट कर दिया, अस्मद्गुरुचरणानाम् = हमारे आचार्यपाद का, अयम् = यह, सन्ध्योपासनसमयः सन्ध्या करने का समय है, तत् = इसलिये, सपदि शीघ्र, कुसुमानि = फूलों को, अवचिनोमि = तोड़कर संकलित करता हूँ, इति इस प्रकार से, चिन्तयन् मन में विचार करता हुआ, एकम् = एक, कदलीदलम् = केले के पत्ते को, आकुञ्च्य = तोड़-कर, तृणशकलैः = बालतृण के खण्डों (टुकड़ों) से, सन्धाय संयोजित कर, पुटकं = पुष्पों को रखने के लिए पात्र अर्थात् दोना, विधाय बनाकर, पुष्पा-
उसनचयं कुचों का चयन, कर्तुम् = करने के लिए, आरेभे = आरम्भ किया। हिन्दी-ओह ! खेद है, मैं चिरकाल तक शयन करता रहा। निद्रारूपी जाल के अधीन होकर मैंने अत्यन्त पुण्यमय काल व्यर्थ व्यतीत कर दिया। हमारे आचार्यपाद का यह सन्ध्या-सम्पादन का समय है। अतः शीघ्र हो फूलों का चयन करता हूँ। इस प्रकार वह विप्रबालक मन में सोचता हुआ एक केले के पत्ते को तोड़कर, बालतृणों के टुकड़ों से उसे जोड़कर, पुष्पों को रखने के लिये दोना बनाकर प्रसूनों का चयन करना आरम्भ कर दिया ।
टिप्पणी - भारतीय संस्कृति में ब्राह्म मुहूर्त में उठने का बड़ा ही महत्त्व है। जैसा कि मनु ने स्वयं कहा है -
'ब्राह्म मुहूर्ते बुध्येत धर्मायौं चानुचिन्तयेदि'ति ।
सन्ध्या-वन्दनादि भी नित्य करणीय हैं। जैसा कि किसी मनीषी ने
कहा है-
प्रथमो निश्वासः
'नोपतिष्ठति यः पूर्वी नोपारते यश्च पश्चिमाम् । स शूद्रवद् बहिष्कार्यः सर्वस्माद द्विजकर्मणः' ।।
९
इन्हीं सब तथ्यों को मन में रखकर विप्रवालक देर से उठने पर यहाँ पाश्चात्ताप कर रहा है ॥ २ ॥
बटूरसौ आकृत्या सुन्दरः, वर्णेन गौरः, जटाभिर्ब्रह्मचारी, वयसा षोडशवर्षदेशीयः, कम्बुकण्ठः, आयतललाटः, सुबाहुविशाललोचन-इचाऽऽसीत् ।
व्याख्या- असो- पूर्ववणितः वटुः ब्रह्मवारी, आकृत्या आकारेण;
'प्रकृत्यादिभ्य उपसंख्यानम्' इत्यनेन तृतीया, सुन्दरः मनोहरः, वर्णत -रङ्गण, गौरः = धवलवर्णः, जटाभिः सटाभिः, ब्रह्मचारी वटुः, वयसा = अवस्थया, षोडशवर्षदेशीयः ईषदसमाप्तषोडशवर्षः, कम्बुकण्ठः शङ्खग्रीवः, बायतललाटः = दीर्घ ललाटफलकः, सुबाहुः शोभनभुजः, विशाललोचनः = दीर्घायतनयनः, च पुनः, बासीत् ।
समासः - कम्बुरिव कण्ठो यस्य सः कम्बुकण्ठः । बायतं ललाटं यस्यासौ आयतललाटः । शोभनौ बाहू यस्य सः सुबाहुः । विशाले लोचने यस्य सः विशाललोचनः ।
कोषः - 'शङ्खः स्यात् कम्बुरस्त्रियाम्' इत्यमरः । 'कण्ठो गतोऽय ग्रीवायां शिरोधिः कन्धरेत्यपि' । 'ललाटमलिकं गोधिः' इत्यमरः । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । 'दीर्घमायतम्' इति चामरः ।
व्याकरणम् - षोडशवर्षदेशीयः षोडशवर्ष देशीयः, ईषदसमाप्तौ कल्प-ब्देश्यदेशीयरः' इत्यनेन देशीयर् प्रत्ययः । जटाभिः जटा भिस्, 'इत्यम्भूत-लक्षणे' इत्यनेन तृतीया ।
शब्दार्य - असो- वह, बटुः ब्रह्मचारी, आकृत्या आकार से, सुन्दरः
रमणीय, वर्णन - रङ्ग से, गौरः = धवलवर्ण, जटाभिः = जटानों के द्वारा, ब्रह्मचारी = विप्र-बालक, वयसा अवस्था से, षोडशवर्षदेशीयः ईषद् असमाप्त सोलहवर्ष वाला, कम्बुकण्ठः शंख के समान ग्रीवावाला, आयतललाटः- चौड़े ललाटवाला, सुबाहुः - सुन्दर भुजाओं वाला, विशाललोचनः दीचे नेत्रों वाला, च = और, बासीत् था ।
१०
शिवराजविजयः
हिन्दी - वह ब्रह्मचारी बालक आकृति से सुन्दर था और वह गौर वर्ण का था। जटाओं से वह ब्रह्मचारी मालूम होता था। उसकी अवस्था अभी सोलह वर्ष पूर्ण नहीं हुई थी। वह शंख के समान सुन्दर कण्ठ बाला, विस्तीर्ण ललाट से युक्त, रमणीय भुजाओं वाला तथा विशाल नयनों वाला था ।
टिप्पणी- इस गद्यखण्ड के 'कम्बुकण्ठः' इस स्थल पर लुप्तोपमालंकार है। इसमें ब्रह्मचारी के सुन्दर अवयवों का स्वाभाविक एवं उदात्त चित्रण किया गया है, अतः उदात्तालंकार का भी दिग्दर्शन होता है ।। ३ ।।
Rप कदलीदलकुञ्जायितस्य एतत्कुटीरस्य समन्तात् पुष्पवाटिका, पूर्वतः परम-पवित्र-पानीयं परस्सहस्र-पुण्डरीक-पटल-परिलसितं पतत्रि-कुल-कूजित-पूजितं पयःपूरितं सर आसीत् । दक्षिणतश्चैको निर्झर-झर्झर-ध्वनि-ध्वनित-दिगन्तरः फल-पटलाऽऽस्वाद-चपलित-चञ्च-पतङ्गकुलाऽऽक्रमणाधिक-विनत-शाख-शाखि-समूह-व्याप्तः कन्दरः पर्वतखण्ड आसीत् । सुन्दर-
व्याख्या-कदलीदलकुञ्जायितस्य रम्भापलाशकुञ्जीभूतस्य, एतत्कुटी-रस्य = एतत्पॉटजस्य, समन्तात् परितः, पुष्पवाटिका कुसुमोद्यानम्, पूर्वतः = प्राच्याम्, परमपवित्रपानीयं नितान्तपूतजलम्, परसहस्रपुण्डरीक-पटलपरिलसितम् = सहस्राधिकश्वेत कमलसमूहोपशोभितम्, पतत्रिकुलकूजित-पूजितम् पक्षिगणशब्दराजितम्, पयः पूरितम् जलभरितम्, सः = कासारः, जला-शयो वा, आसीत् विद्यते स्म । दक्षिणतः दक्षिणस्यां दिशि, च, एकः, निर्झर-झर्झरध्वनिध्वनित दिगन्तरः = वारिप्रवाहझर्झरनादनिनादितदिगन्तरः, फलपटला-स्वादचपलितचञ्चुपतङ्गकुलाक्रमणाधिकविनतशाखशाखिसमूहव्याप्तः = फलसमूह-भक्षणचञ्चल मुखभागपतगनि वहाक्रमणातीवन श्रीभूत शिखावृक्ष समावृतः, सुन्दर-कन्दरः = शोभनदरः, पर्वतखण्डः शिलाभागः, आसीत् वर्तते स्म ।
समासः - कुञ्ज इव आचरतीति कुञ्जायते, कदलीनां दलैः कुञ्जायितः (कुटीरः), तस्य कदलीदलकुञ्जायितस्य । पुष्पाणां वाटिका पुष्पवाटिका । परमं पवित्रं पानीयं ( जलं) यस्य तत् परमपवित्रपानीयम् । परःसहसैः सहस्राधिकैः पुण्डरीकाणां श्वेतकमलानां पटलेन समूहेन परितः लसितं शोभितम् इति परःसहस्रपुण्डरीकपटलपरिलसितम् । पतत्रिणः पक्षिणः, तेषां कुलं समूहः, तस्य कूजितेन शब्देन, कलरनेणेत्याशयः, पूजितम् शोभमानम्, इति पतत्रिकुल-
प्रथमो निश्वासः
१५
कूजितपूजितम् । पयसः जलस्य पूरः ओषः प्राचुर्य, तेन पूरितं पूर्णम् इति पयः पूरपूरितम् । निर्झरस्य वारिप्रवाहस्य अर्झरध्वनिः निनादः, तेन ध्वनि-तानि दिगन्तराणि दिशाभागाः येन सः निर्झरझर्झरध्वनिध्वनितदिगन्तरः । फलानां पटलं गणः, तस्य आस्वादः भक्षणं, तेन चपलिताः चश्चलीकृताः, चश्ववः, येषां ते च पतङ्गाः पक्षिणः, तेषां कुलस्य समूहस्य आक्रमणेन अधिकं विनताः नम्रीभूताः शाखाः, येषां ते च शाखिनः तरवः, तेषां समूहेन व्याप्तः इति फल-पटलास्वादचपलितचञ्चुपतङ्गकुलाक्रमणाधिकविनतशाखशाखिसमूहव्याप्तः सुन्दराः रमणीयाः कन्दराः गुहाः यस्य सः सुन्दरकन्दरः । पर्वतस्य गिरेः खण्डः शकलम् इति पर्वतखण्डः ।
कोषः - 'कदली वारणबुमा रम्भा मोचांशुमत्फला । काष्ठीला' इत्यमरः । 'स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः । 'अम्भोऽर्णस्तोयपानीय-नीरक्षीराम्बुशम्बरम्' इत्यमरः । 'पुण्डरीकं सिताम्भोजम्' इत्यमरः । 'छदिनेंत्र-रुजोः क्लीवं समूहे पटलं न ना' इत्यमरः । 'पतत्त्रिपत्त्रिपतगपतत्पत्ररथाण्डजाः' इत्यमरः । 'बारिप्रवाहो निर्झरो झरः' इत्यमरः । 'चञ्चुस्त्रोटिरुभे स्त्रियो' इत्यमरः । 'पतङ्गो पक्षिसूयों च' इत्यमरः । 'शिखा शाखा शिफालता' इत्य-मरः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः । 'दरी तु कन्दरो वा स्त्री' इत्यमरः ।
व्याकरणम् - कुञ्जायित - कुञ्ज क्यङ् + क्त, 'कर्तुः क्यङ् सलोपश्च' इत्यनेन क्तप्रत्ययः । पूर्वतः पूर्व + तस् 'तसिलादिष्वाकृत्वसुचः' इत्यनेन पुंवत्त्वम् । दक्षिणतः - दक्षिण तस्। चपलित- चपल इतच् । बिनत -वि + नम् + क्त । शाखिनः शाखा इनि ।
शब्दार्थ - कदलीदलकुञ्जायितस्य केला के पत्तों (वृक्षों से घिरे होने के कारण कुञ्ज के समान प्रतीत होने वाली, एतत्कुटीरस्य इस कुटिया के, समन्तात् चारों ओर, पुष्पवाटिका प्रसूनों का उद्यान, पूर्वतः पूर्व की ओर, परमपवित्र पानीयं अत्यन्त पवित्र जलवाला, परस्सहस्रपुण्डरीक-पटलपरिलसितम् = हजारों श्वेतकमलों के समूह से सुशोभित, पतत्रिकुल-कूजितपूजितम् = पक्षियों के समूह के कलरव से अलंकृत, पयः पूरपूरितम् = जल के प्राचुर्य से भरा हुआ, सरः तालाब, आसीत् था। दक्षिणतः = दक्षिण की ओर, निर्झरझर्झ रध्वनिध्वनित दिगन्तरः झरने की झर-झर ध्वनि से दिशाओं को शब्दायमान करने वाला, फलपटलास्वादचपलितचञ्चुपतङ्ग-
१२
शिवराजविजयः
कुलाक्रमणाधिकविनतशाखशाखिसमूहव्याप्तः फलों के समूह के भक्षण से चन्चल चोचों वाले पक्षि-समूह के आक्रमण से झुकी हुई शालाओं वाले पादपों के समूह से व्याप्त, सुन्दरकन्दरः सुन्दर गुफाओं वाला, पर्वतखण्डः पहाड़ का टुकड़ा अर्थात् पहाड़ी, आसीत् = थी ।
हिन्दी केले के वृक्षों से घिरी होने के कारण कुञ्ज के समान प्रतीत होने वाली इस कुटिया के चारों ओर एक पुष्पों का उद्यान था। पूर्व की ओर नितान्त पवित्र जलवाला, हजारों श्वेतकमलों से समलङ्कृत, पक्षि-समुदाय के कलरव से शोभायमान, जलाधिक्य से सम्पूरित, सरोवर ( तालाब) था। दक्षिण की ओर झरने की झर-झर ध्वनि से दिशाओं को गुज्जित करने वाली, फल-समूह के भक्षण से चन्चल चञ्चुवाले पक्षियों के फुदक-फुदक कर बैठने के आक्रमण से अधिक झुकी हुई शाखाओं वाले वृक्षों से समावृत सुन्दर गुफाओं वाली एक पहाड़ी (पर्वत का टुकड़ा) थी।
टिप्पणी - इस गद्यखण्ड में कुटीर को कदलीदल के कुन्ज के समान माना गया है, अतः यहाँ लुप्तोपमा अलंकार है। अनुप्रास की छटा प्रायः प्रत्येक पंक्ति में समधिक चित्ताकर्षक है। प्रकृति की सुरम्य सुषमा का चित्रण करते हुए गद्यकार ने यहाँ शब्द-योजना के अनुसार गौड़ी रीति का प्रयोग y
यावदेषु ब्रह्मचारी बटुरलिपुञ्जमुद्भूय कुसुमकोरकानवचिनोतिः 1 तावत् तस्यैव सतीथ्यर्थोऽपरस्तत्समानवयाः कस्तूरिका-रेणु-रूषित इव श्यामः, चन्दन-चचित-भालः, कर्पू रागुरु-क्षोद-च्छुरित-वक्षो-बाहु-दण्डः, सुगन्ध-पटलैरुन्निद्रयन्निव निद्रा-मन्थराणि कोरक-निकुरम्बकान्तराल-सुप्तानि मिलिन्द-वृन्दानि झटिति समुपसृत्य निवारयन् गौरवटुमेवमवादीत् -
व्याख्या - यावत् = यावत्कालपर्यन्तम्, एषः पूर्वर्वाणतः, ब्रह्मचारी = ब्रह्मव्रती, वदुः = ब्रह्मचारी, अलिपुञ्जम्भ्रमरकुलम्, उद्घष निवार्य, कुसुमकोरकान् = प्रसूनकुड्मलान्, अवचिनोति सङ्कलयति, तावत् तस्मिन्नेव काले, तस्यैव - वटोरेव, सतीर्थ्यः सहाध्यायी, अपरः द्वितीयः, तत्समान-वयाः तत्समवयस्कः, कस्तूरिकारेणुरूषितः मृगताभिरजश्छुरितः, इव-यथा, श्यामः श्यामलवर्णः, चन्दनचचितभालः = गन्धसारलिप्तललाटः, कर्पूरा-
प्रथमो निश्वासः
१३
गुरुक्षोदच्छुरितयोबाहुदण्डः घनसारागुरुपूर्णलितवक्षःस्थलभुजदण्डः, सुगन्ध-पटलैः - सौरभसमूहैः, उनिद्रयन्निव जागरयन्निव, निद्रामन्वराणि तन्द्रा-रूसितानि, कोरकनिकुरम्बकान्तरालसुमानि कलिकासमूहाभ्यन्तरनिद्राधि-गतानि, मिलिन्दवृन्दानि भ्रमरकुलानि, झटिति शीघ्रम्, समुपसृत्य समा-गत्य, निवारयन् वर्जयन्, गौरवटुम् धवलवर्णब्रह्मचारिणम्, एवम् अनेन प्रकारेण, अवादीत् = न्यगादीत् ।
समासः ब्रहा वेदः, तदध्ययनाय वतमपि ब्रह्म, तच्चरति करोतीति ब्रह्म-चारी, ताच्छील्ये णिनि प्रत्ययः । अलीनां भ्रमराणां पुञ्जः समूहः, तम् अलि-पुष्जम् । कुसुमानां कोरकान् कुसुमकोरकान् । समाने तीर्थे गुरौ वसतीति सतीथ्यैः, यत् प्रत्ययः । तेन समानं वयः (अवस्था) यस्य सः तत्समानवयाः । कस्तूरिकायाः रेणुभिः रूषितः कस्तूरिकारेणुरूषितः । चन्दनेन चत्रितं लिप्तं भालं ललाटं यस्य सः चन्दनचचितभालः । कर्पूरेण मिश्रितस्य अगुरोः क्षोदः चूर्ण तेन छुरितं व्याप्तं लिप्तं वक्षोबाहुदण्डम् उरोभुजद्वयं यस्य सः कर्पूरागुरु-क्षोदच्छुरितवक्षोबाहुदण्डः । सुगन्धस्य पटलैः सुगन्धपटलैः । निद्रया मन्यराणि अलसानि निद्रामन्यराणि । कोरकानां कलिकानां निकुरम्बकं समूहः, तस्य अन्तराले अभ्यन्तरे सुप्तानि कोरकनिकुरम्बकान्तरालसुप्तानि । मिलिन्दाः भ्रमराः, तेषां वृन्दानि मिलिन्दवृन्दानि ।
कोषः - 'मधुव्रतो मधुकरो मधुलिण्मधुपालिनः । द्विरेफपुष्पलिश्रृङ्गषट् पदभ्रमरालयः' । इत्यमरः । 'स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः । 'कलिका कोरकः पुमान्' इत्यमरः । 'स्यान्निकायः पुञ्जराशिः' इत्यमरः । 'सतीर्थ्यास्त्वेकगुरवः' इत्यमरः । 'स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्' इत्यमरः ।
व्याकरणम् - उद्धूय - उद् धून् + ल्यप् । अवचिनोति--अव + चिञ् + लट् + तिप् । सतीथ्यः - 'समानतीर्थे वासी'ति यत्प्रत्यये, 'तीर्थे ये' इत्यनेन सादेशः । उन्निद्रयन्- उद्+ निह णिच्शतृ । 'तत्करोति तदाचष्टे' इत्यनेन णिचि । समुपमृत्य- सम् + सृज् + ल्यप् । निवारयन् नि वृणिच् + शतृ । बवादीत् - वद् + लुङ् + तिप् ।
शब्दार्थ - यावत् - जब तक, एषः पूर्वर्वार्णत यह, ब्रह्मचारी बटुः = ब्रह्मचारी बालक, अलिपुञ्जम् भ्रमर-समूह को, उधूय उड़ाकर, कुसुम-कोरकान् - पुष्प-कलियों को, अवचिनोति संकलित करता है, तावत् = तब
۹۷
शिवराजविजयः
तक, तस्यैव = उसी का, सतीष्यैः सहाध्यायी, अपरः दूसरा, बालक, तत्समानवयाः = उसके समान अवस्था वाला, कस्तूरिकारेणुरूपित इव कस्तूरी के चूर्ण से लिए हुए के समान, श्यामः कृष्णवर्ण चन्दनचचित भानः चन्दन के लेप से सुशोभित ललाटवाला, कर्पूरागुरुक्षोदच्छुरितवक्षोबाहुदण्डः कर्पूर मिथित अगरु के चूर्ण से अनुलिप्त वक्षःस्थल एवं भुजाओं वाला, सुगन्धपटले.= सौरभ-समूह से, उन्निद्रयन्निव जगाता हुआ-सा, निद्रामन्यराणि निद्रा से अलसाये हुए, कोरकनिकुरम्बकान्तरालसुप्तानि कलियों के समूह के अन्दर सोये हुए, मिलिन्दवृन्दानि भ्रमर-समूहों को, अटिति - शीघ्र, समुपसृत्य समीप आकर, निवारयन् = पुष्पचयन के लिए मना करता हुआ, गौरबटुम् = शुभ्रवर्ण के बालक से, एवम् इस प्रकार, अवादीत् = बोला ।
हिन्दी-ज्यों ही यह ब्रह्मचारी बालक भ्रमर-समूह को उड़ाकर पुष्पों की कलियों को चुनता है, त्यों ही उसी का सहपाठी, समान अवस्था वाला दूसरा ब्रह्मचारी, कस्तूरिका के चूर्ण के लेप से सना हुआ-सा श्यामवर्ण वाला, ललाट पर चन्दन लगाये हुए, कर्पूर-मिश्रित अगरु के चूर्ण से सुशोभित वक्षःस्थल एवं भुजाओं वाला, (वह) निद्रा से अलसाये हुए, कलियों के समूह के भीतर सोये हुए भ्रमर-समूह को जगाता हुआ-सा शीघ्रता से समीप आकर उस गौर ब्रह्मचारी बालक से पुष्प-चयन के लिए मना करता हुआ इस प्रकार बोला ।
टिप्पणी - इस गद्यखण्ड में गद्यकार ने 'कस्तूरिकारेणुरूषित इव श्यामः' 'सुगन्धपटलै रुन्निद्रयन्निव' इत्यादि स्थलों पर उत्प्रेक्षालंकार का प्रयोग किया है। यहाँ 'इव' उत्प्रेक्षावाचक शब्द है। अनुप्रास की सुषमा भी यहाँ पर प्रशंसनीय है। श्यामवदु के शरीर में लगे हुए चन्दन, कर्पूर, अगरु और कस्तूरी की सुगन्ध को सूँघकर भ्रमर-समूह प्रसूनों से उड़कर उसके शरीर की
ओर दौड़ने लगे, यह वर्णन नितान्त स्वाभाविक है ।। ५ ।।
"अलं भो अलम् ! मयैव पूर्वमवचितानि कुसुमानि, त्वं तु चिरं रात्रावजागरीरिति क्षिप्रं नोत्थापितः, गुरुचरणा अत्र तडागतटे सन्ध्यामुपासते, संस्थापिता मया निखिला सामग्री तेषां समीपे । यां च सप्तवर्षकल्पाम्, यावनत्रासेन निःशब्दं रुदतीय, परम-सुन्दरीम्, कलित-मानव-देहामिव सरस्वतीं सान्त्वयन् मररंद-मधुरा अपः पाययन्, कन्दखण्डानि भोजयन्, त्वं त्रियामाया याम-
प्रथमो निवासः
१५
त्रयमनैषीः; सेयमधुना स्वपिति, उद्बुद्धध च पुनस्तथैव रोदिष्यति. तत् प्रिमागंणीयाम्येतस्याः वितरी गृहं च-"
इति संश्रुत्य उष्णं निःश्वस्य यावत् सोऽपि किश्चिद् वक्तुमियेष तावदकस्मात् पर्वतशिखरे निपपात उभयोर्दृष्टिः ।
व्याख्या अतं भो असम्भो मुद्दयावचवेतालम्, मर्वेक व्यामबटुनैव, पूर्वम् आदौ कुसुमानि प्रसूनानि अवचितानि सङ्कलितानि, त्वं तु गौरब्टुस्तु, चिरम् बहुकालम् रात्री रजम्याम् अजागरीः-जागरणं विहितवानसि इति बस्माद्धेतोः क्षिप्रं शीघ्रम् न नहि, उत्या-पितः - जागरितः, गुरुचरणाः पूज्याः गुरवः अत्र इह, तडागतदे सरोवरतटे, सन्ध्याम् - प्रातःकालिकं पूजनम्, उपासते समाचरन्ति, संस्था-पिता - समुपकल्पिता, मया श्यामबटुना, निखिला- समस्ताः, सामग्री -पूजावश्यकवस्तुनिश्चयः, तेषां गुरुचरणानां, समीपे निकटे। मां पूर्वदृष्टां श्रुता सेवितां, च पुनः, सप्तवर्षकल्पाम् सप्तवर्षदेशीयाम्, यावनत्रासेन यवनभयेन, निःशब्दं शब्दरहितम्, रुदतीम् विलपन्तीम्, परमसुन्दरीम् = नितान्तरूपराशिसमन्वितां, कलितमानबदेहाम्- घृतनरविग्रहाम्, इव यथा, सरस्वती - शारदां, सान्त्वयन् समाश्वासयन्, मरन्दमधुराः पुष्परससरसाः, अपः जलानि, पाययन् गलबिलं प्रावेशयन्, कन्दखण्डानि मुनीनां खाद्य-विशेषाणां भागान्, भोजयन् भक्षयन्, त्वं भवान् गौरवटुः, त्रियामायाः = निशायाः, यामत्रयम् प्रहरत्रयम्, अनैषीः यापितवानसि सेयम् = सा बालिका, अधुना इदानीम्, स्वपिति शेते, उद्बुद्धध च- उन्निद्रय पुनः, पुनः भूयः, तथैव - तेनैव प्रकारेण, रोदिष्यति विलपिष्यति, तत् तस्मात् कारणात्, परिमार्गणीयानि अन्वेष्टव्यानि, एतस्याः यवनत्रस्तबालिकायाः, पितरौ माता पिता च गृहं च गेहूं च । इति एवम् संधुत्य समाकण्र्ण्य, उष्णं निःश्वस्य अशीतमुच्छ्वस्य, यावत् यावत्कालपर्यन्तम्, सोऽपि गौरवटुरपि, किश्चिद्, वक्तुं कथयितुम्, इयेष - इच्छति स्म, तावत् = तावत्कालपर्यन्तं, तदैव वा अकस्मात् सहसा, पर्वतशिखरे पर्वतङ्गे उभयोः = गौरवटुश्यामवट्वोः, दृष्टिः वीक्षणं, निपपात अपतत् ।
समासः - तडागस्य तटे तडागतटे । यवनेभ्य भगत यावनः यावनवासो श्रासः यावनत्रासः, तेन यावनत्रासेन । परमा चासो सुन्दरी च, तो परमसुन्द
१६
शिवराजविजयः
रीम् । कलितः धृतः मानवो देहः वारीरं यया सा तां कलितमानवदेहाम् । मरन्देन पुष्परसेन मकरन्देन मधुराः मिष्टाः मरन्दमधुराः । कन्दानां खण्डानि कन्दखण्डानि । त्रयो यामा यस्यां सा त्रियामा, तस्याः त्रियामायाः । त्रयः अवयवाः अस्येति त्रयम्, यामानां प्रहराणां त्रयं यामत्रयम् । पर्वतस्य शिखरं पर्वतशिखरं, तस्मिन् पर्वतशिखरे ।
कोषः- शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्। सत्वरं चपलं तूर्णमविलम्बित-मायु च' ।। इत्यमरः । 'कूलं रोषश्व तीरच्च प्रतीरच तटं त्रिषु' इत्यमरः । 'पद्मा-करस्तडागोऽस्त्री' इत्यमरः । 'शर्वरी। निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा । विभावरी-तमस्विन्यौ रजनी यामिनी तमी' ।। इत्यमरः । 'अथ समं सर्वम् । विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् । समग्रं सकलं पूर्णमखण्डं स्यादनूनके' ।। इत्यमरः । 'शालूकं कन्दमोत्पलम्' 'कन्दमस्त्री मूल-सस्यम्' इति वैजयन्ती ।
व्याकरणम् - अवचितानि अव चिन् + क्त। अजागरीः- जागृ + लुङ् + सिप् ( म० पु० ए० व० ) । उत्थापितः उत्+ स्था + पुक् + निच् + क्त । उपासते - उप + आस् + लट् (त) आत्मनेपद । संस्थापिता- सम् + स्था + णिच् + पुक् + क्त (स्त्रीलि० ) । सप्तवर्ष कल्पाम्- 'ईषद् असमाप्ति' मर्थ में 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इस सूत्र से कल्पप् प्रत्यय । पाययन् -पा + णिच् + शतृ । रुदतीम् - रुद् शतृ ङीप् । ( स्त्री० द्वि० ए० व० ) । भोजयन् - भुज् + णिच् + शतृ । अनैषीः नी + लुङ् + सिप् (म० पु० ए० व०)। उद्बुद्धय - उद्+ बुध + क्त्वा + ल्यप् । परिमागंणीयानि - परि + मृज्+ बनीयर् (ब०व०) । संश्रुत्य सम्+श्रु + ल्यप् । निःश्वस्य -निः + श्वस् + ल्यप् । वक्तुम् वच् + तुमुन् । इयेष - इष् + लिट् + तिप् । दृष्टिः - दृश् + क्तिन् । निपपात नि + पत्+ लिट् + तिप् ।
शब्दार्थः - अलं भो अलम् पर्याप्त हो गया है, अब बस करो। मयैव = मेरे द्वारा ही, पूर्वम् = पहले, कुसुमानि - फूल, अवचितानि - चुन लिये गये हैं, त्वं तु - तुम तो, चिरम् देर तक, रात्री रात में, अजागरीः- जागते रहे, इति - इसलिये, क्षिप्रं शीघ्र अर्थात् प्रातः, नोत्थापितः = नहीं उठाये गये । गुरुचरणाः पूज्यपाद गुरुजी, अत्र इस, तडागतटे कमलों से भरे हुए सरोवर के तट पर, सन्ध्याम् = प्रातःकालीन पूजा, उपासते - सम्पादित कर रहे हैं. मग = मेरे द्वारा, निखिला = सम्पूर्ण, सामग्री = पूजनसामग्री, तेषां
प्रयमो निश्वासः
१७
शमीचे उनके निकट, संस्थापिता रखी गई है। गोजित वालिका को, समर्थकल्पाम् - लगभग सात वर्ष की अवस्था वाली, यावनवासेन शवन (मुगल) के भय से निरहित अर्वाद आवाज को बाहर निकाले विना रुदतीम् - विकिय भरकर रोरी हुई परमसुन्दरीम् अतियय सौन्दर्य को धारण करने वाली कलितमानाम् मानव शरीर को धारण किये हुए, सरस्वती सरस्वती जैसी को सान्त्वन्धर्व बँचाते हुए, मरन्द-मधुराः पुष्यों के रस से विचित होने के कारण मीठा, अपः = जल को, पाययम् - विलाते हुए, कन्दण्डानिकन्द केसों को, कन्द मुनियों का एक विशेष प्रकार का भोजन है, भोजयन् खिलाते हुएवं तुम, त्रिया-माया. रात्रि के, याम तीन प्रहर को अनैवीविता दिये, सेयम् = यह यह, स्वपिति सो रही है, उद्बुद्धध च जागकर, पुनः फिर, तथैव उसी प्रकार, रोदिव्यतिरोदेगी, तद् इसलिये, परिमार्गगीयानि खोजे जाने चाहिए, एतस्याः इसके पितरी माता-पिता को ग्रहत्व और घर को, इति ऐसा, संयतुनकर उष्णं गरम, निःश्वस्य निःश्वास सेकर, यावत् जब तक सोऽपि वह भी, किश्चित् कुछ वक्तुं कहने के लिए, इयेष इच्छा किया, तावत् तब तक, अकस्मात् सहसा, पर्वत-शिखरे पर्वत के चोटी पर, उभयोः उन दोनों की दृष्टिः आँले, निप-पात पड़ी।
हिन्दी 'बस भाई बस। मैंने पहले ही पुष्पों का चयन कर लिया है।
तुम रात्रि में देर तक जागते रहे थे. अतः मैंने तुम्हें इनसे पहले प्रातःकाल नहीं जगाया। गुरुदेव यहाँ तालाब के किनारे संयोपासन कर रहे हैं। मैं पूजन की सारी सामग्री उनके पास रख दी है। और जिस लगभग सात वर्ष बाली, यवनों के भय से शब्दरहित सिसक-सिसक कर रोती हुई, अत्यन्त सुन्दरी, मानव-शरीर धारण किये हुये सरस्वती जैनी, पुष्परस-मिश्रित मोठा जल पिलाते हुए, कन्दों के टुकड़ों को खिलाते हुए तुमने रात्रि के तीन प्रहर बिता दिये थे, वह इस समय सो रही है, जागकर फिर उसी प्रकार रोवेगी । अतः उसके माता-पिता और घर का पता लगाना चाहिये। यह सुनकर गरम साँस लेकर जैते ही उसने (गौरबटु ने भी कुछ कहना चाहा, तब तक त्यों ही अकस्मात् उन दोनों की दृष्टि पर्वत की चोटी पर पड़ी ।
टिप्पणी - इस गद्यखण्ड में वृत्तक नामक गद्य का प्रयोग किया गया है।
२ शि०
१८
शिवराजविजयः
यथा- 'अकठोराक्षरं स्वल्पसमासं वृत्त मतम् । एतदेव पूर्णकमुच्यते यथा च वामनसूत्रे- 'अनाविद्धपदं पूर्णम्' इति ।। ६ ॥
तस्मिन् पर्वते आसीदेको महान् कन्दरः । तस्मिन्नेव महामुनि-रेकः समाधौ तिष्ठति स्म । कदा स समाधिमङ्गीकृतवानिति कोऽपि न वेत्ति । ग्रामणी-ग्रामीण-ग्रामाः समागत्य मध्ये मध्ये तं पूज-यन्ति प्रणमन्ति स्तुवन्ति च । तं केचित् कपिल इति, अपरे लोमश इति, इतरे जैगीषव्य इति, अन्ये च मार्कण्डेय इति विश्वसन्ति स्म । स एवायमधुना शिखरादवतरन् ब्रह्मचारि-बटुभ्यामदशि ।
व्याख्या - तस्मिन् = पूर्वकथिते, पर्वते शैलशिखरे, आसीत् समभूत्, एकः = एकसङ्ख्याकः, महान् विशालः, कन्दरः गुहा, तस्मिन्नेव- गुहाया-मेव, एकः = एकसङ्ख्याकः, महामुनिः = मर्षिः, समाधौ चित्तवृत्तिनिरोधात्म के योगे, तिष्ठतिस्म = संस्थित आसीत् । कदा कस्मिन् काले, सः पूर्वोक्तः ऋषिः, समाधि = योगम्, अङ्गीकृतवान् = स्वीकृतवान्, इति इर्मा वार्ता, कोऽपि = कश्चिदपि, न नहि, वेत्ति जानाति, ग्रामणीग्रामीणग्रामाः = ग्रामा-धिपग्रामवासिनां निवहाः, समागत्य = समुपेत्य, मध्ये मध्ये अन्तराले अन्तराले, तं = समाधिनिरतं मुनिम्, पूजयन्ति सपयाँ कुर्वन्ति, प्रणमन्ति नमन्ति, स्तुवन्ति = स्तुति सम्पादयन्ति, च पुनः, तं समाधिनिरतं योगिराजम्, केचित् = केचन जनाः, कपिलः एतन्नामा मुनिः, इति इत्येवम्प्रकारेण, अपरे = अन्ये जनाः, लोमशः एतन्नामा, इति इत्येवम्प्रकारेण, इतरे = अपरे, जैगीषव्यः = एतन्नामा, इति, अन्ये इतरे जनाः, मार्कण्डेयः एतन्नामा, इति = इत्यादीनि विविधनामानि योगिराजस्य, विश्वसन्ति स्म विश्वासं कुर्वन्ति स्म । स एव = तादृशो महामुनिरेव, अयम् एषः, अधुना साम्प्रतम्, शिख-रात्= अचलशृङ्गात्, अवतरन् नीचैरागच्छन्, ब्रह्म वारिबटुभ्याम् = गौरबटु श्यामबटुभ्याम्, अदशि = दृष्टः ।
समासः - महाँश्वासौ मुनिः महामुनिः । ग्रामण्यः ग्रामाधिपाः, ग्रामीणाः ग्रामवासिनस्तेषां ग्रामाः समूहा इति ग्रामणीग्रामीणग्रामाः ।
कोषः 'दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरम्' इत्यमरः । 'कूटोऽस्त्री शिखरं शृङ्गम' इत्यमरः । 'शब्दादिपूर्वे वृन्देऽपि ग्रामः' इत्यमरः । 'समौ संवसथग्रामो' इति चामरः । 'एहि सम्प्रतीदानीमधुना साम्प्रतं तथा'
प्रथमो निश्वासः
१९
इत्यमरः । 'महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः। अद्रिगोत्रगिरिग्रावाचलौल-शिलोच्चयाः' ।। इत्यमरः ।
व्याकरणम् - वेत्ति - विद् + लट् + तिप् । ग्रामणी - ग्राम + नी + विवत् । ग्रामीणः - ग्रामे भव इति ग्रामीणः, ग्राम खन्, 'ग्रामाद्यखनौ' इत्यनेन सूत्रेण । बर्दाश - दृश् + कर्मवाच्य में लुङ, प्रथमपु० एकवचन ।
शब्दार्थ तस्मिन् उस, पर्वते पर्वत पर, एकः - एक, महान् = विशाल, कन्दरः = गुफा, आसीत् थी, तस्मिन्नेव उस गुफा में ही, एकः = एक महामुनिः = महर्षि, समाधौ चित्तवृत्तिनिरोधात्मक योग में, तिष्ठति स्म = बैठे थे, सः = वह महषि, कदा किस समय, समाधिम् समाधि को, अङ्गीकृतवान् = स्वीकार किया, इति यह, कोऽपि = कोई भी, न नहीं, वेत्ति - जानता है। ग्रामणी-ग्रामीणग्रामाः ग्राम के प्रधान तथा ग्रामवासियों का समूह, मध्ये मध्ये = बीच-बीच में, समागत्य आकर, तम् उस समाधि-निरत योगिराज को, पूजयन्ति = पूजा करते हैं, प्रणमन्ति = प्रणाम करते हैं, च = और, स्तुवन्ति = स्तुति करते हैं, तं उन्हें, केचित् कुछ लोग, कपिल इति = कपिल मुनि हैं ऐसा, अन्ये अन्य जन, लोमश इति लोमश ऋषि हैं ऐसा, इतरे - इतर लोग, जैगीषव्य इति जैगीषव्य मुनि हैं ऐसा, अन्ये च = और अपर लोग, मार्कण्डेय इति मार्कण्डेय मुनि हैं ऐसा, विश्वसन्ति स्म = बिश्वास करते थे। स एव वहीं, अयम् = यह मुनि, अधुना इस समय, शिखरात् = पवंत-चोटी से, अवतरन् उतरते हुए, ब्रह्मचारिवटुभ्याम् = गौर-बटु और श्यामबटु के द्वारा, अर्दाश देखे गये ।
हिन्दी - उस पर्वत पर एक विशाल गुफा थी। उसी गुफा में एक महा-मुनि समाधि लगाये हुए बैठे थे। उन्होंने कब समाधि अङ्गीकार की, यह कोई नहीं जानता था। गाँव के मुखिया तथा अन्य निवासीजन बीच-बीच में कभी-कभी आकर उनकी पूजा, प्रणाम तथा स्तुति कर आते थे। कोई उन्हें कपिल, कोई लोमश, कोई जैगीषव्य तथा अन्य जन उन्हें मार्कण्डेय मानते थे। वहीं महामुनि इस समय पर्वतशिखर से उतरते हुए ब्रह्मचारी बालक गौरबटु और श्यामबटु के द्वारा देखे गये ।
टिप्पणी - यहाँ से प्रथम निश्वास की समाप्ति तक कुछ विशेष स्थलों को छोड़कर प्रायः 'चूर्णक' नामक गद्य है। यथा- 'आनाविद्धपदं चूर्णम्' (वामन-सूत्र)। अन्यत्र - 'तुयंम् ( चूर्णकं) अल्पसमासकम्' । कपिल, लोमश, जैगीष-
२०
शिवराजविजयः
व्य और मार्कण्डेय आदि विरंजीवी महवियों के नाम का उल्लेख है। अंतः 'बहुभिर्बहुधोल्लेखादेकस्योल्लेख इव्यते' इस नियम के अनुसार यहाँ उल्लेखालंकार है ।।७।।
"अहो ! प्रबुद्धो मुनिः । प्रबुद्धो मुनिः । इत एवाऽऽगच्छति, इत एवाऽऽगच्छति, सत्कार्योऽयम् सत्कार्योऽयम्" इति तौ सम्भ्रान्तौ बभूवतुः ।
अथ समाधित-सन्ध्यावन्दनादिक्रिये समायाते गुरौ, तदाज्ञया नित्यनियम-सम्पादनाय प्रयाते गौरवटौ, छात्रगण-सहकारेण प्रस्तु-तासु च स्वागत-सामग्रीषु, "इत आगम्यतां सनाध्यतामेष आश्रमः" इति सप्रणाममभिगम्य वदत्सु निखिलेषु, योगिराज आगत्य तन्निदिष्ट-काष्ठ-पीठं भास्वानिवोदयगिरिमारुरोह, उपाविशच्च ।
व्याख्या - अहो - इति साश्चर्यखेदे, प्रबुद्धः जागृतः, मुनिः ऋषिः, प्रबुद्धः = जागृतः, मुनिः ऋषिः, इत एव आथमाभिमुखमेव, आगच्छति = आयाति, इत एव - आश्रमाभिमुखमेव, आगच्छति आयाति, सत्कार्योऽयम् = सत्कारयोग्योऽयं, सत्कार्योऽयम् = सत्कारार्थोऽयं मपिः, इति एवम्, तो = ब्रह्मचारिणी, सम्भ्रान्तौ क्षुभितौ, बभूवतुः = जातौ ।
अथ - तदनन्तरम्, समापितसन्ध्यावन्दनादिक्रिये विहितसन्ध्यावन्दनादि-क्रियाकलापे, समायाते = समागते, गुरौ मुनौ, तदाज्ञया मुनेराज्ञया, नित्यनियम-सम्पादनाय = आह्निकसन्ध्यावन्दनादिविधातुम्, प्रयाते गते, गौरबटी = श्वेत-ब्रह्मचारिणि, छात्रगणसहकारेण शिष्यसमुदायसाहाय्येन, प्रस्तुतासु च = समुप-कल्पितासु च, स्वागतसामग्रीषु उपचारद्रव्येषु, 'इतः अत्र, आगम्यताम् = आयातु, सनाथ्यताम् = समलङ्क्रियताम्, एषः अयम्, आथमः तपस्विनां स्थानम्' इति एवम्प्रकारेण, सप्रणामम् = प्रणामपुरस्सरम्, अभिगम्य समागत्य, बदत्सु - कथयत्सु, निखिलेषु - समुपस्थितेषु सर्वेषु, योगिराजः महामुन्निः, आगत्य = समागम्य, तन्निदिष्टकाष्ठपीठम् = निसङ्केतितदारुनिर्मितचतुष्पादिकाम्, भास्वात् - भास्करः, इव यथा, उदयगिरिम् उदयाचलम्, आरुरोह अधिशिश्रिये, उपाविशत् च = आसितवांश्च ।
समासः - समापिताः सन्ध्यावन्दनादिक्रिया येन सः तथाभूते समापित-
प्रथमो निश्वासः
२१
सन्ध्यावन्दनादिक्रिये । नित्या ये नियमाः, तेषां सम्पादनाय नित्यनियमसम्पा-दनाय । छात्राणां गणः, तस्य सहकारेण छात्रगणसहकारेण । स्वागताय सामग्री स्वागतसामग्री, तासु स्वागतसामश्रीषु । तैः निदिष्टं काष्ठपीठं तन्निदिष्ट-काष्ठपीठम् ।
कोषः 'अथ समं सर्वम् । विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् । समग्रं सकलं पूर्णमखण्डं स्यादनूनके' ।। इत्यमरः । 'सूग्-सूर्याऽयमा-ऽऽदित्यद्वादशात्म दिवाकराः । भास्कराऽहस्करब्रध्नप्रभाकरविभाकराः ।। भास्वद्-विवस्वत्सप्ताश्व हरिदश्वोष्णरश्मयः । विकर्तनाऽर्कमार्तण्डमिहिराऽरुण-पूषणः' ।। इत्यमरः ।
व्याकरणम् - समापिता सम् + आप्+ णिच् + क्त + टाप् । समायाते -सम् + आ + या + क्त; 'यस्य च भावेन भावलक्षणम्' इत्यनेन सप्तमी । प्रस्तु-तासु प्र + स्तु + क्त + टाप् + सुप् । अभिगम्य - अभि + गम् + क्त्वा + ल्यप् । वदत्सु - वद् + शतृ (सप्तमी बहुवचन)। आगत्य आ + गम् + क्त्वा + ल्यप् ।
शब्दार्थ - अहो = आश्चर्य और प्रसन्नता का सूचक है, प्रबुद्धो मुनिः जग गये मषि, प्रबुद्धो मुनिः जग गयें महर्षि, इत एव आगति = इधर को ही आ रहे हैं, इत एव आगच्छति इधर को ही आ रहे हैं, सत्कार्योऽयम् - यह सत्कार के योग्य हैं, सत्कार्योऽयम् यह सत्कार के योग्य हैं, इति = इस प्रकार से, तो वे दोनों, सम्भ्रान्तौ हर्ष से व्याकुल, वभूवतुः हो गये ।
अथ तदनन्तर, समापितसन्ध्यावन्दनादिक्रिये सन्ध्या वन्दनादि क्रिया को समाप्त कर चुके हुए, गुरौ गुरुजी के, समायाते आने पर, तदाज्ञया = उनकी आज्ञा से, नित्यनियमसम्पादनाय नित्य नियम सन्ध्या-वन्दनादि करने के लिए, गौरवटी गौरवटु के, प्रयाते चले जाने पर, छात्रगणसह-कारेण शिष्य-समुदाय की सहायता से, स्वागतसामग्रीषु स्वागत योग्य सामग्रियों के, प्रस्तुतासु सम्पस्थित हो जाने पर, इत आगम्यताम् = इधर आइये, सनाथ्यताम् एप आश्रमः इस आश्रम को समलंकृत कीजिए, इति = इस प्रकार से, सप्रणामम् = प्रणामपूर्वक, अभिगम्य पास आकर, निखिलेषु = सबों के, ददत्सु कहने पर, योगिराजः श्रेष्ठ तन्निदिष्टकाष्ठपीठम् - मुनि के संकेतित चौकी पर, मषि, आगत्य आकर, भास्वान् इव सूर्य के
२२
शिवराजविजयः
समान, उदयगिरिम् उदयाचल पर, जिस प्रकार प्रातःकाल सूर्य उदित होते है, आरुरोह चढ़ गये, उपाविशत् च और बैठ गये ।
हिन्दी - अहो ! मुनि जग गये, मुनि जग गये। इधर ही आ रहे हैं, इवर ही आ रहे हैं। इनका सत्कार करना चाहिए, इनका सत्कार करना चाहिए। इस प्रकार कहते हुए वे दोनों बटु हर्ष से व्याकुल हो गये ।
तदनन्तर सन्ध्योपासनादि कृत्य समाप्त करके गुरुजी के आ जाने पर तथा उनकी आज्ञा से गौरबटु के नित्यकर्म-सम्पादन के लिए चले जाने पर, शिष्य-समुदाय की सहायता से स्वागत-सामग्री के प्रस्तुत हो जाने पर, योगि-राज के समीप जाकर समुपस्थित समस्त जनों के द्वारा 'इधर आइये, इस आश्रम को सनाथ कीजिए' इस प्रकार कहे जाने पर योगिराज आकर मुनि के द्वारा निदिष्ट काष्ठ-विनिर्मित चौकी पर उदयाचल पर सूर्यदेव की भाँति चढ़कर बैठ गये ।
टिप्पणी- योगिराज शब्द की व्युत्पत्ति निम्न प्रकार से होती है- 'योग बस्ति अस्मिन् इति योगी, तेषां राजा इति योगिराजः'। 'राजाहः सखिभ्य-ण्टच्' इस सूत्र से 'टच्' प्रत्यय होता है। इस गद्यखण्ड में बहुत काल के अनन्तर समाधि के बाद योगिराज के उठने पर आश्रमवासियों में प्रसन्नता की लहर छा गई है, इसका दिग्दर्शन कराया गया है। चौकी पर बैठने वाले मुनि की उपमा उदयाचल पर समुदित होनेवाले सूर्यदेव से दी गई है, अतः यहाँ उपमालंकार है ।। ८ ।।
तस्मिन् पूज्यमाने, "योगिराडुत्थित" इति "आयात" इति च आकर्ण्य कर्णपरम्परया बहवो जनाः परितः स्थिताः । सुघटितं शरीरम्, सान्द्रां जटाम्, विशालान्यङ्गानि, अङ्गारप्रतिमे नयने, मधुरां गम्भीरां
च वाचं वर्णयन्तश्चकिता इव सञ्जाताः ।
समर्थ्यमाने, योगिराडुत्थित सम्प्राप्त इति, च = पुनः, व्याख्या- तस्मिन् = योगिराजे, पूज्यमाने इति - महामुनिः समुत्थित इति, आयात इति आकष्य = निशम्य, कर्णपरम्परया = श्रुतिसरण्या, बहवो जनाः = अनेके मानवाः, परितः = सर्वतः, स्थिताः सम्प्राप्ताः, सुघटितं - शोभनाङ्गसंस्थानम्, शरीरं = वपुः, सान्द्रां घनाम्, जटाम् = सटाम्, विशालान्यङ्गानि = दीर्घायतावयवान्, अङ्गारप्रतिमे = अङ्गारसदृशे, नयने लोचने, मधुराम् = मनोहराम्, गम्भी-
प्रथमो निश्वासः
२३
राम् = गभीराम्, च, वाचम् वाणीम् वर्णयन्तः प्रर्शसयन्तः, चकिताः = आश्वर्यान्विताः इव, सञ्जाताः = बभूवुः ।
समासः - योगिनां राजा इति योगिराद् । कर्णयोः परम्परया कर्ण-परम्परया । अङ्गारः प्रतिमा उपमानं ययोस्ते (नयने) अङ्गारप्रतिमे ।
कोषः 'कर्णशब्दग्रहौ धोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी च' इत्यमरः । 'अङ्ग प्रतीकोऽवयवो-ऽपघनोऽथ' इत्यमरः । 'अथ कलेवरम्। गात्रं वपुः संहननं शरीरं वष्र्मं विग्रहः । कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनूस्तनूः' इत्यमरः ।
व्याकरणम् - योगिराट् - योगिन् + राज विवप् । पूज्यमाने - पूज् +
य + शानच् । उत्थितः उत्+ स्था+ क्त। आयातः आ या क्त । वर्णं-यन्तः - त्रणे + णिच् + शतृ । सञ्जाताः- सम्+ जन् + (जनी प्रादुर्भावे) + क्त।
शब्दार्थ - तस्मिन् पूज्यमाने जब उनकी पूजा हो रही थी, योगिराड्
= महामुनि, उत्थितः उठ गये हैं, इति ऐसा, आयातः आये हुए हैं, इति = ऐसा, कर्णपरम्परया एक कान से दूसरे कान तक, अर्थात् कानों कान, आकर्ण्य = सुनकर, बहवो जनाः = बहुत-से मनुष्य, परितः चारों ओर, स्थिताः= एकत्र हो गये। सुघटितं सुगठित, शरीरम् - देह को, सान्द्रां घनी, जटाम् = जटा को, विशालान्यङ्गानि विशाल अङ्गों को, अङ्गारप्रतिमे = अङ्गार (स्फुलिङ्ग) सदृश, नयने = नेत्रों, मधुरां मीठी, च और, गम्भीरां गम्भीर, वाचं = वाणी की वर्णयन्तः प्रशंसा करते हुए, चकिता इव = आश्वर्यान्वित-से, सञ्जाताः = हो गये ।
हिन्दी - उस योगिराज के पूजन के समय ही 'महामुनि उठ गये हैं और यहाँ आये हुए हैं' यह वृत्तान्त क्रमशः एक-दूसरे के कर्णपरम्परा से सुनकर वहाँ चारों ओर बहुत-से लोग एकत्रित हो गये। उन महामुनि के सुगठित शरीर, घनी जटा, विशाल अङ्गों, अङ्गार-सदृश दोनों नेत्रों तथा मधुर और गम्भीर वाणी की प्रशंसा करते हुए लोग आश्चर्यचकित से हो गये ।
टिप्पणी- 'अङ्गार-सदृश नेत्र थे' इस वाक्य में प्रतिम शब्द के उपमा-वाचक होने से उपमालंकार है। 'चकिता इव' यहाँ पर 'इव' के उत्प्रेक्षा-वाचक होने से उत्प्रेक्षालंकार है ।। ९ ।।
अथ योगिराजं सम्पूज्य यावदीहितं किमपि आलपितुम्, तावत् कुटीराद् अश्रूवत तस्या एव बालिकायाः सकरुण-रोदनम् ।
२४
शिवराजविजयः
ततः "किमिति ? कुत इति ? केयमिति ? कथमिति ?" पृच्छा-परवशे योगिराजे ब्रह्मचारिगुरुणा बालिकां सान्त्वयितुं श्यामबटुमादिश्य कथितम् -
व्याख्या - अथ = तदनन्तरम्, योगिराजम् = योगिबरं, सम्पूज्य = समच्य, किमपि = किञ्चिदपि, आलपितुम् कथयितुम्, यावत् = यावत्कालपर्यन्तम्, ईहितम् = चेष्टितम्, तावत् तस्मिन्नेव समये, कुटीरात् = उटजात्, तस्या एव = पूर्ववणितायाः कन्याया एव, सकरुणरोदतम् = सशोकविलापम्, अश्रूषत= श्रवणविषयतामापतत् ।
ततः = कन्यकारोदनश्रवणानन्तरम्, किमिति किमर्थं क्रन्दनमिति, कुत इति = कस्मात् प्रदेशात् क्रन्दनध्वनिरिति, केयमिति क्रन्दनकारिणी नारी बाला का ? कथमिति = क्रन्दकस्य कि कारणमिति, पृच्छापरवशे प्रश्नपर-तन्त्रे, योगिराजे = योगिबरे, ब्रह्मचारिगुरुणा = गौरश्यामबटुशिक्षकेत मुनिना, बालिकां = विलापकारिणी कन्यकाम्, सान्त्वयितुम् - समाश्वासयितुं, श्याम-बटुं = श्यामलवर्णब्रह्मचारिणम्, आदिश्य आज्ञाप्य, कथितम् अग्रे वक्ष्यमाणं वाक्यमुक्तम् ।
समासः- करुणया सहितम् इति सकरुणम्, सकरुणं च तद् रोदनमिति सकरुणरोदनम् । पृच्छा जिज्ञासा, तस्याः परवशः अधीनः, तस्मिन् पृच्छापर-वशे । ब्रह्मचारिणां गुरुरिति ब्रह्मचारीगुरुः, तेन ब्रह्मचारिगुरुणा ।
कोषः - 'वासः कुटी द्वयोः शाला सभा सजवतं त्विदम् । चतुःशार्ड मुनीनां तु पर्णशालोटजोऽस्त्रियाम्' ।। इत्यमरः । 'चायु नेत्राम्बु रोदनं चालमनु च' 'कुन्दनं योधसंरावः' इति चामरः ।
व्याकरणम् - सम्पूज्य सम् + पूज् + क्त्वा + ल्यप् । ईहितम् इह नेष्टा-याम् + क्त । अश्रूयत श्रु कर्मणि यक् + लड्, २० पु० ए० ० । रोदनम् -रुदिर् अश्रुविमोचने + भावे ल्युट् । सान्त्वयितुम् सान्त्य णिच् + तुमुन् । आदिश्य - आ + दिश् + क्त्वा + ल्यप् ।
शब्दार्थ - अय = अनन्तर, योगिराजम् = योगिराज का, गत-सत्कार करके, बावत् ज्यों हो, ईहितम् चेष्टा किया, भी, आलपितुम् = कहने के लिए, तावत् त्यों हो, कुटीरात् यत = सुनाई पड़ा, तस्या एव उस पूर्ववणित, बालिकायाः सकरुणरोदनम् - सशोक विलाप । सम्पूज्य स्वा-किमपि कुछ कुटी से. अबू-कन्या का हो,
प्रथमो निश्वासः
२५
ततः किमिति = तदनन्तर यह क्या है ? कुत इति कहाँ से वा रहा है? केयमिति = कौन है यह ? कयमिति यह क्यों रो रही है? इति - इस प्रकार से, पृच्छापरवशे जिज्ञासा के अधीन होने पर, योगिराजे योगिराज के, ब्रह्मचारिगुरुणा - ब्रह्मचारी गुरु के द्वारा, बालिका कन्या को, सान्त्वविर्तु शान्त करने के लिए, श्यामबटुम् श्याम वर्णवाले ब्रह्मवारी को, आदिव आदेश देकर, कथितम् वध्यमाण रीति से कहा।
हिन्दी - तदनन्तर योगिराज का विधिवत् स्वागत-सत्कार करके ब्रह्म-चारियों के गुरु ने जैसे ही योगिराज से कुछ बात करने की इच्छा की, वैसे ही कुटिया से उसी पूर्ववणित बालिका का करुण-विलाप सुनाई पड़ा ।
तब योगिराज के 'यह क्या है? यह कहाँ से आई है? यह कौन है? यह कैसे आई है ?' यह पूछने पर ब्रह्मचारियों के गुरु ने कन्या को शान्त करने के लिए श्याम वटु को आदेश देकर यह कहना प्रारम्भ किया ।
टिप्पणी- इन स्थलों में सर्वत्र चूर्णक नामक गद्य है। यया-'अकठोराक्षरं स्वत्पसमासं चूर्णकं मतम्' इति ।। १० ।।
"भगवन् ! श्रूयतां यदि कुतूहलम् । ह्यः सम्पादित-सायन्तन-कृत्ये, अत्रैव कुशाऽऽस्तरणमधिष्ठिते मयि, परितः समासीनेषु छात्रवर्गेषु, धीर-सनीर-स्पर्शेन मन्दमन्दमान्दोल्यमानासु व्रततिषु, समुदिते यामिनी-कामिनी-चन्दनबिन्दो इव इन्दौ, कौमुदी-कपटेन सुधाधारामिव वर्षति गगने, अस्मन्नीतिवार्ता शुश्रूषुषु इव मौनमाकलयत्सु पतग-कुलेषु, कैरव-विकाश-हर्ष-प्रकाश-मुखरेषु चञ्श्वरीकेषु, अस्पष्टाक्षरम्, कम्पमान-निःश्वासम्, श्लयत्कण्ठम्र, घर्धरितस्वनम्, चीत्कारमात्रम्, दीनतामयम्, अत्यवधान श्रव्यत्वादनुमितदविष्ठतं क्रन्दनमश्रौषम् ।
व्याख्या - भगवन् ! - ऐश्वर्यसम्पन्न महर्षे ! यदि चेत्, कुतूहलम्
वृत्तान्तज्ञानकौतुकं, (तहि) श्रूयताम् समाकर्ण्यताम्, ह्यः गतवासरे, सम्पादितसायन्तनकृत्ये - विहितसान्ध्यकायें, अत्रैव अस्मिन्नेव स्थाने, कुशा-स्तरणमधिष्ठिते- दर्भासनसंस्थिते, मयि गौरश्यामबटुशिक्षके मुनौ, परितः = समन्तात्, समासीनेषु - समुपविष्टेषु, छात्रवर्गेषु शिष्यसमुदायेषु, धीरसमीर-स्पर्शन = मन्दपवन सम्पर्केण, मन्दमन्दम् शनैः शनैः, आन्दोल्यमानानु = सन्चाल्यमानासु, व्रततिषु = लतासु, समुदिते उदयमधिगते, यामिनीकामिनी-
२६
शिवराजविजयः
चन्दन बिन्दौ = रजनीकान्ताललाटतिलके, इव यथा, इन्द्री चन्द्रमसि, कौमुदी-कपटेन = ज्योत्स्नाव्याजेन, सुधाधारामिव पीयूषप्रवाहमिव वर्षति = दृष्टि विदधति, गगने आकाशे, अस्मन्नी तिवार्ताम् ब्रह्मचारिगुरुनयकथनम्, शुश्रू-षुषु = श्रोतुमिच्छ्षु, इव यथा, मौनमाकलयत्सु - मूकतां धारयत्यु, पतग-कुलेषु पक्षिनिवहेषु, कैरव विकाशहर्ष प्रकाश मुखरेषु - कुमुदप्रफुल्लनमोदा-विर्भावशब्दायमानेषु, चश्वरीकेषु भ्रमरेषु, अस्पष्टाक्षरम् - अस्फुटवर्णम्, कम्पमाननिःश्वासम् = वेपमाननिःश्वासम्, श्लथत्कण्ठम् = स्तम्भितगलम, घर्घरितस्वनम् = घर्घरध्वनिमिश्रितनादम्, चीत्कारमात्रम् चीत्कारमयम्, दीन-तामयम् = कातरतासमन्वितम्, अत्यवधानश्रव्यत्वादनुमितदविष्ठतम् - विशेषा-वधानश्रवणार्हत्वादनुमितदूरत्वम्, क्रन्दनम् = रोदनम्, अश्रौषम् अश्रृण्वम् ।
समासः - सम्पादितानि सायन्तनानि कृत्यानि येन, तस्मिन् सम्पादित-सायन्तनकृत्ये । कुशानाम् आस्तरणं कुशास्तरणम् । छात्राणां वर्गेषु छात्रवर्गेषु । धीरः समीरः धीरसमीरः, तस्य स्पर्शेन धीरसमीरस्परोंन । यामिनी एव कामिनी, तस्याः चन्दनबिन्दौ यामिनीकामिनीचन्दनबिन्दौ । कौमुद्याः कपटेन कौमुदी-कपटेन । अस्माकं नीतेः वार्ता अस्मन्नीतिबार्ता, तां श्रोतुमिच्छुः अस्मन्नीति-वार्ताशुश्रूषुः, तेषु अस्मन्नीतिवार्ताशुश्रूषुषु । पतगानां कुलेषु पतगकुलेषु । कैरवाणां विकाशः, तेन हर्षप्रकाशः, तेन मुखरेषु कैरवविकाशहर्षप्रकाशमुखरेषु । अस्पष्टानि अक्षराणि यत्र तत् अस्पष्टाक्षरम् । कम्पमाना निःश्वासा यस्मिन् तत् कम्पमाननिःश्वासम् । अत्यवधानेन श्रव्यम्, तस्य भावस्तत्त्वम्, तस्मात् अत्यवधानश्रव्यत्वात् । अतिशयेन दूरं दविष्ठता, अनुमिता दविष्ठता यस्य तत् अनुमितदविष्ठतम् ।
कोषः - 'कौतूहलं कौतुकश्व कुतुकश्व कुतूहलम्' इत्यमरः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । 'श्वसनः स्पर्शनी वायुर्मातरिश्वा सदा-गतिः । पृषदश्वो गन्धवही गन्धवाहाऽनिलाशुगाः ।। समीरमारुत्मरुज्जगत्प्राण-समीरणाः । नभस्वद्वातपवनपवमानप्रभञ्जनाः ।। इत्यमरः । 'बल्ली तु व्रतति-適ता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि' ।। इत्यमरः । 'विभावरीतम-स्विन्यौ रजनी यामिनी तमी' इत्यमरः । 'विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना' इत्यमरः । 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः' इत्यमरः । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । 'इन्दिन्दिरो मधुकरश्चश्वरीको मधुव्रतः इति वैजयन्ती ।
प्रथमो निश्वासः
२७
व्याकरणम् - श्रूयताम् श्रु कर्मवाच्य, लोट् लकार, प्र० ५० ए० व० । सम्पादितम् - सम् + पद्+ णिच् + क्त। सायन्तनम् - सायं भवमिति सायन्त-नम्; सायम् । ट्युल् अथवा ट्यु, युद् का आगम, 'सायंचिरंप्राल प्रगेऽव्ययेभ्य-ष्ट्युट्युलौ तुद् च' इत्यनेन सूत्रेण । कुशास्तरणम् - इत्यत्र 'अधिशीङ्ख्यासाँ कर्म' इत्यनेन सूत्रेण कर्म। अधिष्ठिते- अधिस्था + क्त। समासीनेषु -सम् + आस् उपवेशने + शानच्। अत्र 'यस्य च भावेन भावलक्षणम्' इत्यनेन सप्तमी । शुश्रूषुः श्रु + सन् 'सनाशंसभिक्ष उः' इत्यनेन उ । आकलयत्सु -भा + कल + णिच् + शतृ । क्रन्दनम् क्रदि भावे ल्युट् । अश्रौषम् - श्रु + लुङ्, उत्तमपुरुष एकवचन ।
शब्दार्थ - भगवन् । ऐश्वर्यसम्पन्न | यदि कुतूहलम् - यदि उत्कण्ठा है तो, श्रूयताम् = सुने, ह्यः कल, सम्पादितसायन्तनकृत्ये सार्यकालिक क्रियाओं को समाप्त कर चुकने पर, अत्रैव यहीं, कुशास्तरणमधिष्ठिते मयि = मेरे कुशासन पर बैठने पर, परितः चारों ओर, समासीनेषु छात्रवर्गेषु - छात्रवृन्द के बैठे हुए होने पर, धीरसमीरस्पर्शेन मन्द वायु के स्पर्श से, मन्दमन्दमान्दो-ल्यमानासु व्रततिषु = धीरे-धीरे लताओं के कम्पित होने पर, समुदिते यामिनी-कामिनीचन्दनबिन्दौ इव इन्दौ रात्रिरूपी नायिका के चन्दन-बिन्दु के समान चन्द्रमा के समुदित होने पर, कौमुदीकपटेन सुधाधारामिव वर्षति गगने= चन्द्र-ज्योत्स्ना के बहाने आकाश द्वारा मानो अमृत की वर्षा करने पर, अस्मन्नी-तिवार्ता शुश्रूषुषु इव मौनमाकलयत्सु पतगकुलेषु = हमारी नीतिसम्बन्धी चर्चा को सुनने की इच्छा से मानो पक्षियों के समूह को मौन धारण करने पर, कैरव विकाशहर्ष प्रकाश मुखरेषु चञ्श्वरीकेषु - कुमुदों के खिलने की अभि-व्यक्ति के कारण भ्रमरों के मुखरित होने पर, अस्पष्टाक्षरम् = अव्यक्त अक्षरों-वाला, कम्पमाननिःश्वासम् = काँपती हुई श्वासवाला, श्लथत्कण्ठम् = सँधे हुए गले वाला, घर्घरितस्वनम् = 'घर-घर' शब्द से समन्वित, चीत्कारमात्रम् = चिल्लाना मात्र था जिसमें, दीनतामयम् - दीनता से युक्त, अत्यवधानश्रव्य-त्वात्- विशेष ध्यान से सुनाई पड़ने के कारण, अनुमितदविष्ठतम् = बहुत दूर होने का अनुमान किया जानेवाला, क्रन्दनम् - विलाप या रोदन को, अश्रौषम् = सुना ।
हिन्दी-भगवन् ! यदि जानने की ही उत्कण्ठा है तो सुनों। कल मैं सायंकालीन क्रियाओं को समाप्त करके यहीं कुशासन पर बैठा हुआ था, मेरे
२८
शिवराजविजयः
चारों ओर शिष्य-समुदाय समासीन थे, मन्द मन्द वायु के संस्पर्श से लताएँ धीरे-धीरे हिल रही थीं, निशा रूपी नायिका के मस्तक पर चन्दन के तिलक के समान चन्द्रमा जब समुदित हो चुका था, आकाश चाँदनी के व्याज से अमृत की वर्षा-सी कर रहा था, हमारी नीति-सम्बन्धी चर्चा को सुनने की इच्छा से पक्षि-संमुदाय ने मानो मौन धारण कर लिया था, कुमुदिनी के प्रसूनों के खिल जाने से समुत्पन्न हर्ष को प्रकट करते हुए भ्रमर-वृन्द गुनगुनाने लगे थे, उसी समय मैंने अस्पष्ट अक्षरों वाला, काँपती हुई साँसों से युक्त, रुँघे हुए गलेवाला, घरघराते हुए शब्द से समन्वित, केवल चीत्कार मात्र, दीनतापूर्ण, विशेष ध्यान से सुनने के कारण जिसके अत्यन्त दूर होने का अनुमान होता था, ऐसे विलाप या रोदेन को सुना ।
टिप्पणी - इस गद्यखण्ड में 'समुदिते' से प्रारम्भ कर 'पंतगकुलेषु' पर्यन्त आये हुए 'इव' शब्द उत्प्रेक्षावाचक है। चन्द्रमा में चन्दनबिन्दु की, आकाश से अमृतधारा बरसने की और पक्षियों में नीतिवार्ता सुनने की सम्भावना की गई है। अतः इन स्थलों पर उत्प्रेक्षालंकार है। 'यामिनी-कामिनी' में रात्रि के ऊपर कामिनी का आरोप किया गया है, अतः यहाँ 'रूपकालंकार' है । पूर्व की पंक्तियों में प्रसाद गुण तथा शान्त रस है। अन्त में करुण रस भी विद्यमान है। यहाँ 'चूर्णक' नामक गद्य तथा वैदर्भी रीति का प्रयोग किया गया है ।। ११ ।।
तत्क्षणमेव च "कुत इदम् ? किमिदमिति दृश्यतां ज्ञायताम्" इत्यादिश्य छात्रेषु विसृष्टेषु, क्षणानन्तरं छात्रेणैकेन भयभीता सवेग-मत्युष्णं दीर्घ निःश्वसती, मृगीव व्याघ्राऽऽघ्राता, अश्रुप्रवाहैः स्नाता, सवेपथुः कन्यकैका अङ्क निधाय समानीता। चिरान्वेषणेनापि च तस्याः सहचरी सहचरो वा न प्राप्तः । तां च चन्द्रकलयेव निर्मिताम्, नवनीते-नेव रचिताम, मृणाल गौरीम, कुन्दकोरकाग्रदतीं सक्षोभं रुदतीमव-लोक्याऽस्माभिरपि न पारितं निरोढुं नयनबाष्पाणि ।
व्याख्या- तत्क्षण मेव = सद्य एव च पुनः कुतः = कस्मात् स्थानात्, इदम् - रोदनम्, किमिदम् = कि कारणं चास्य ध्वनेः, इति एवम्प्रकारेण, दृश्यताम् = अवलोक्यताम्, ज्ञायताम् आज्ञाप्य, छात्रेषु - शिष्येषु, विसृष्टेषु अवगम्यताम्, इति इत्थम्, आदिश्य = प्रेषितेषु, क्षणानन्तरम् = पलादूर्ध्वम्,
प्रथमो निवासः
२९
छात्रेणैकेन = शिष्येणैकेन, भयभीत। भयाक्रान्ता, सवेगम्= तीव्रम्, अत्युष्णम् =
बहुसन्तप्तम्, दीर्घम् - पृथुलम्, निःश्वसती इव सग्रहणं कुर्वती, मृगीव-हरि-णीव, व्याघ्राऽऽघ्राता = सिहाऽऽक्रान्ता, अधुप्रवाहैः नयनवाष्पैः, स्नाता-विहितस्ताना, सवेपथुः सकम्पा, कम्यकैका एका बाला, अड्के क्रोडे, निध्धाय संस्थाप्य, समानीता आनीता, चिरान्वेषणेनापि बहुगवेषणयाऽवि, च= पुनः, तस्याः अधिगतवालिकायाः, सहचरी सली, सहचरो वासला वा, न प्राप्तः = न समवाप्तः, ताम् रोदनक्लिन्नबालिकाम् च, चन्द्रकलयेव हिमांशु-लेखयेव, निमिताम् रचिताम्, नवनीतेनेव हैयङ्गवीनेनेव, रचिताम् कृताम्, मृणालगौरीम् = कमलदण्डधवलाम्, कुन्दकोरकाग्रदतीम् माध्यकलिकाग्रदश-नाम्, सक्षोभं ससाध्वसम्, रुदती विलपन्तीम्, अवलोक्य - दृष्ट्वा, अस्माभिरपि = आश्रमवासिभिरपि, मादृशैरित्याशयः, न नहि, पारितम् = शक्तम्, निरोधुं - अवरोधुँ, नयनबाष्पाणि लोचनाश्रूणि ।
समासः - वेगेन सहितं सवेगम्। व्याघ्रण आधाता व्याघ्राऽऽनाता। अश्रूणां प्रवाहैः अनुप्रवाहैः। चन्द्रस्य कला चन्द्रकला, तया चन्द्रकलया। मृणालस्य इव गौरीं मृणालगौरीम्। कुन्दस्य कोरकाणाम् अग्राणि इव दन्ताः यस्याः सा, तां कुन्दकोरकाग्रदतीम् । क्षोभेन सहितं सक्षोभम् । नयनस्य बाष्पाणि नयनबाष्पाणि ।
कोषः - 'दरस्त्रासो भीतिर्भीः साध्वसं भयम्' इत्यमरः । 'सिंहो मृगेन्द्रः पन्चास्यो हर्यक्षः केसरी हरिः । कण्ठीरवो मृगरिपुर्मू गदृष्टिर्मू गाशनः ।। शार्दूल-द्वीपिनी व्याघ्र तरक्षुस्तु मृगादनः । इत्यमरः । 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । 'नवनीतं नवोद्धृतम् । तत्त् हैयङ्गवीनं यद्धघोगोदोहोद्भवं घृतम्' ।। इत्यमरः । 'चालू नेत्राम्बु रोदनं चात्रमधु च' इत्यमरः । 'बाष्पमुष्माक्षु' इत्यमरः ।
व्याकरणम् - दृश्यताम् दृश् कर्मणि यक्, लोट् प्र० पु० ए० व० । ज्ञायताम् - ज्ञा अवबोधने कर्मणि यक्, लोट् प्र० पु० ए० व० । विसृष्टेषु -वि+सृज् + क्त। भीता भी क्त टाप् । निःश्वसती निस् श्वस् + शतृ + ङीप् । सर्वेपथुः स वेपृ कम्पने भावे अथुच् प्रत्ययः । स्नाता-स्ना + क्त टाप् । निधाय निघाल्यप् । समानीता सम् + आ + नी + क्त टाप् । अन्वेषण अनु इष् ल्युट् । सहचरी सह चरतीति-सह + चर - अच् + स्त्रियां ङीष् । प्रातः प्रअप क्त। रुदतीम्रुद्+ शतृ + ङीप् । निरोद्धम् - नि + रुध् + तुमुन् ।
३०
शिवराजविजय
शब्दार्थ - तत्क्षणमेव उसी समय, च और, कुत इदम् = यह रोदन 'कहाँ से है, किमिदम् = किस कारण है, दृश्यताम् देखिये. ज्ञायताम् = जानिये, इत्यादिश्य = इस प्रकार आदेश देकर, छात्रेषु, विसृष्टेषु छात्रों के भेजे जाने पर, क्षणानन्तरं एक क्षण बाद, छात्रेणैकेन एक छात्र के द्वारा, भयभीता = भय से डरी हुई, सवेगम् = जल्दी-जल्दी अथवा शीघ्रतापूर्वक, अत्युष्णं = अत्यन्त गरम, दीर्घम् = लम्बी, निःश्वसती = श्वास लेती हुई, मृगीव हरिणी की तरह, व्याघ्राऽऽघ्राता = सिंह के द्वारा सैंधी गई, अश्रुप्रवाहैः आँसुओं के प्रवाह से, स्नाता = नहाई हुई, सवेपथुः काँपती हुई, कन्यकैका एक बालिका, अङ्के = गोद में, निधाय रखकर, समानीता लाई गई। चिरान्वे-षणेनापि = चिरकाल तक अन्वेषण करने पर भी, तस्याः उसकी, सहचरी = सखी, सहष्वरो वा = अथवा साथी, न प्राप्तः नहीं प्राप्त हुआ। ताम् = उस बालिका को, चन्द्रकलयेव चन्द्रमा की कला की तरह, निर्मिताम् = बनी हुई, नवनीतेनेव = मक्खन के समान, रचिताम् = रची गई, मृणालगौरी म् = कमलनाल के समान गोरी, कुन्दकोरकाग्रदतीम् - कुन्द पुष्प के कली के अग्र-भाग के समान दाँतो वाली, सक्षोभं = व्याकुलतापूर्ण, रुदतीम् रोती हुई, अवलोक्य = देखकर, अस्माभिरपि हम लोगों के द्वारा भी, न पारितं = पार नहीं पाया गया, निरोढुं रोकने के लिए, नयनबाष्पाणि = आँसुओं को ।
हिन्दी - उसी क्षण 'यह रोने का शब्द कहाँ से आ रहा है ? किस कारण से है ?' देखो, पता लगाओ - इस प्रकार आदेश देकर मेरे द्वारा छात्र-वृन्द को संप्रेषित कर दिये जाने पर, क्षण भर बाद ही एक छात्र के द्वारा डरी हुई, शीघ्रतापूर्वक लम्बी-लम्बी अत्यन्त गर्म साँसे लेती हुई, सिह से सूँघी गई हरिणी के समान, अनुप्रवाह से स्नान की हुई, काँपती हुई एक बालिका गोद में उठाकर लाई गई। चिरकाल तक अन्वेषण करने पर भी उसकी कोई सखी या साथी प्राप्त नहीं हुआ। चन्द्रमा की कलाओं से रची हुई-सी, मक्खन से निर्मित-सी, कमलनाल के समान गोरे रंगवाली, कुन्द पुष्प की कलियों के अग्रभाग के समान नुकीले और श्वेत दाँतो वाली, व्याकुलता के साथ रोती हुई उस कन्या को देखकर हमलोग भी अपने आँसुओं को न रोक सके ।
टिप्पणी- 'चन्द्रकलयेव निर्मिताम्, नवनीतेनेव रचिताम् - इन दो स्थलों पर चन्द्रकला अथवा मक्खन से बनी हुई होने की सम्भावना की गई है। अतः
प्रथमो निश्वासः
३१
यहाँ उत्प्रेक्षालंकार है। घृणाल के समान गोरी तथा कुन्दकलिका के अग्रभाग के समान श्वेत दाँतोवाली में लुप्तोपमालंकार है ।।
अथ "कन्यके ! मा भैषीः, पुत्रि ! त्वां मातुः समीपे प्रापयिष्यामः, दुहितः ! खेदं मा वह, भगवति । भुङ्क्ष्व किञ्चित्, पिव पयः, एते तव भ्रातरः, यत् कथयिष्यसि तदेव करिष्यामः, मा स्म रोदनैः प्राणान् संशयपदवीमारोपयः, मा स्म कोमलमिदं शरीरं शोकज्वालावलीढं कार्षीः" इति सहस्रधा बोधनेन कथमपि सम्बुद्धा किञ्चिद् दुग्धं पीतवती । ततश्च मया क्रोडे उपवेश्य, "बालिके ! कथय क्व ते पितरौ ? कथमेतस्मिन्नाश्रमप्रान्ते समायाता ? कि ते कष्टम् ? कथमरोदीः ? किं वाञ्छसि ? कि कुर्मः ?" इति पृष्टा मुग्धतया अपरिकलित-वाक्पाटवा, भयेन विशिथिलवचनविन्यासा, लज्जया अतिमन्दस्वरा, शोकेन रुद्ध-कण्ठा, चकितचकितेव कथं कथमपि अबोधयदस्मान् यद् -
"एषा अस्मिन्नेदीयस्येव ग्रामे वसतः कस्यापि ब्राह्मणस्य तनया-ऽस्ति ।
व्याख्या - अथ बालिकाविलोकनानन्तरम्, कन्यके = बाले ! मा भैषीः = भयं मा कुरु, पुत्रि = तनये! त्वाम् भवतीम्, मातुः जनन्याः, समीपे = अन्तिके, प्रापयिष्यामः प्रेषयिष्यामः, दुहितः पुत्रि! खेदं कष्टम्, मा. वह - न सन्धारय, भगवति ! ऐश्वर्यशालिनि ! भुङ्क्ष्व भक्षय, किश्चित् = ईषत्, पिब- पानं कुरु, पयः दुग्धम्, एते पुरो दृश्यमानाः, तव = भवत्याः, भ्रातरः = बान्धवाः, यत् यत्किमपि, कथयिष्यसि वक्ष्यसि, तदेव करिष्यामः = वयं तदेव सम्पादयिष्यामः, मा स्म, रोदनैः विलपनैः, प्राणान् = असून्, संशयपदवीम् = सन्देहावस्थाम्, आरोपयः = समारोपयः, कोमलम् = सुकुमारम्, इदम् = एतत्, शरीरम् - देहम्, शोकज्वालावलीढं = दुःखाग्निपरि-व्याप्तम्, मा स्म कार्षीः मा कुरु, इति एवम्प्रकारेण, सहस्रधा= बहुधा, बोध-नेन = सान्त्वनाप्रदानेन, कथमपि केनापि प्रकारेण, सम्बुद्धा बोधिता सती, किश्विद् ईषद्, दुग्धं पयः, पीतवती स्वीचकार, अपिबदित्याशयः, ततश्च = पयः पानानन्तरम्, मया ब्रह्मचारिशिक्षकेण, क्रोडे अङ्के, उपवेश्य = = संस्थाप्य, बालिके कन्यके, कथय ब्रूहि, क्व कुत्र, ते तव, पितरो - माता च पिता च, कथम् केन प्रकारेण, अस्मिन् - एतस्मिन्, आश्रमप्रान्ते
शिवराजविजयः
३२
=कुटीरसमीपे तपोवने वा, समायाता समागता, किम् किम्प्रकारकं ते तब, कष्टम् दुःसम्, कथम् केन कारणेन (त्वम्) अरोधीः रोदनमकरोः, किम्, वाञ्छसि इच्छसि किम्, कुर्मः किं कुर्यामः इति एवम्प्रकारेण, पृष्टा = पृष्टे सति, मुग्धतया सरलतया, अपरिकलितवाक्राटवा बज्ञात-भाषणचातुर्या, भयेन भोत्या, विशिथिलवचन विन्यासा अस्तव्यस्तभाषणा, सञ्जया = बोडया, अतिमन्दस्वरा बहुकोमलस्वरा, शोकेन कष्टेन, रुद्ध-= स्तम्भितगलबिला, चकित चकितेव अतिभीतेव, कथं कथमपि = येन केनापि प्रकारेण, अबोधयद् अज्ञापयत्, अस्मान् आश्रमवासितः, यत्, एषा = इयं वालिका, अस्मिन् एतस्मिन्, नेदीयस्येव अतिसमीप एव, ग्रामे संवसचे, बसतः निवसतः, कस्यापि कस्यचिदपि, ब्राह्मणस्य विप्रस्य, तनया = पुत्री, बसि = बर्तते ।
समासः-संशयस्य पदवी संशयपदवीम् । शोकस्य ज्वालया अवलीढं शोक-ज्वालावलीडम् । आश्रमस्य प्रान्ते आश्रमप्रान्ते। पटोर्भावः पाटवं, कौशलमित्या-शयः, वाचि पाटवं वाक्याटवम्, न परिकलितं विज्ञातं वाक्पाटवं भाषणचातुर्य यया सा बपरिकलितवाक्पाटबा । विशेषेण शिथिलः वचनानां शब्दानां विन्यासः उच्चारणं यस्याः सा विशिथिलवचनविन्यासा । अतिमन्दः स्वरो यस्याः सा बतिमन्दस्वरा। रुद्धः कण्ठो यस्याः सा रुद्धकण्ठा ।
कोषः - 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । 'गात्रं वपुः संहननं शरीरं बष्म विग्रहः । कायो देहः क्लीबपुंसोः स्त्रियां मूतिस्तनुस्तनूः ।। इत्यमरः । 'दुग्धं क्षीरं पयः समम्' इत्यमरः । 'न ताक्रोडं भुजान्ताम्' इत्यमरः । 'पुंसि भूम्न्यसवः आगान्' इत्यमरः । 'मन्दाक्ष होस्त्रया व्रीडा लज्जा' इत्यमरः ।
व्याकरणम् - भैषीः- भी लुङ्, मध्यमपुरुष एकवचन, 'मा' के योग में अडानमाभाव । प्रापविध्यासः प्र + बापू णिच् + वद्, उ० पु० ब० व० । भुङ्क्य - भुज् आत्मनेपद, लोट्, म० पु० ए० व० । आरोपमः 'मा स्म' के योग में लङ्, मध्यमपुरुष एकवचन, 'स्मोत्तरे लङ् च' । अवलीढम् - अव + लिहू+क्त । मा कार्षीः कृ+ लुङ्, म० पु० ए० व०, 'मा' के योग में अडा-गमाभाव । पीतवती-पापाने + क्तवतु ङीप् । उपवेश्य उप+ विश् + गिच् + ल्यप् । बरोदीः रुद् + लुङ् + सिप, म० पु० ए० व० । नेदीयसि -अन्तिक (समीप) + ईयमुन् । वसतः वस् + शतृ, षष्ठी ए० व० ।
शब्दार्य-जय = अनन्तर, कन्यके पुत्रि! मा भैषीः मत डरो, पुत्रि
प्रथमो निश्वासः
३३
- बालिके ! त्वाम् - तुमको, मातुः समीपे माता के पास में, प्रावयिष्यामः - हम पहुंचा देंगें, दुहितः पुत्रि । सेर्द मा वह सेद मत करो, भगवति -ऐश्वर्यशालिनि थाले । भुङ्क्ष्य किचित्-थोड़ा खाओ, पिव पंयः - दूध पीओ, एते ये सब, तब भ्रातरः- तुम्हारे भाई हैं, यत् कथयिष्यसि जो कहोगी, तदेव करिष्यामः यहीं करेंगें, रोदनैः विलाप करने से, प्राणान् प्राणों को, संशयपदवीम् संदेह के मार्ग में, मा स्म आरोपय मत डालो, कोमलमिदं दारीरम् इस कोमल देह को शोकज्वालावलीई दुःखाग्नि से व्याप्त, मा स्म कार्षीः मत करो, इति इस प्रकार, सहस्रधाबोधनेन अनेक प्रकार सम-झाने से, कथमपि - किसी प्रकार, सम्बुद्धा आश्वस्त होकर, किञ्चिद् दुग्धं पीतवती - थोड़ा दूध पीई, ततश्च इसके बाद, मया ब्रह्मचारि-गुरु के द्वारा, कोडे गोद में, उपवेश्य बैठाकर, बालिके पुत्रि । कथय कहो, क्व ते पितरौ - तुम्हारे माता-पिता कहाँ हैं, कथम् = किस प्रकार, एतस्मिन् आश्रम-प्रान्ते - इस आश्रम के निकट अर्थात् तपोवन में, समायाता आई, कि ते कष्टम् तुम्हें क्या कष्ट है, कधमरोदीः क्यों रोई ? कि वाञ्छसि = क्या चाहती हो, कि कुर्मः हम सब क्या करें, इति इस प्रकार, पृष्टा पूछने पर, मुग्धतया सरलता के कारण, अपरिकलित वाक्पाट वा = भाषण-चातुरी से अनभिज्ञ, भयेन डर से, विशिथिलवचनविन्यासा = लड़खड़ाते हुए शब्दों में बोलनेवाली, लज्जया लज्जा के कारण, अतिमन्दस्वरा अत्यन्त धीमे स्वरों-चकितचकितेव -अबोधयत् = बत-बाली, शोकेन = शोक से, रुद्धकण्ठा रँधे हुए कण्ठवाली, किसी-किसी प्रकार, अत्यन्त चकित हुई-सी, कथं कथमपि लाई, अस्मान् = हम सब आश्रमवासियों को, यत् = कि, एषा = यह, अस्मिन् नेदीयस्येव ग्रामे = इस अत्यन्त समीप के ग्राम में, वसतः निवास करनेवाले, कस्यापि ब्राह्मणस्य = किसी ब्राह्मण की, तनया पुत्री, अस्ति = है ।
हिन्दी - तदनन्तर पुत्रि ! डरो मत। वेटी ! हम सब तुम्हें माँ के पास पहुँचा देंगें, वत्से ! दुःखी मत होओ। देवि ! कुछ खाओ, दूध पीओ। ये सब तुम्हारे भाई हैं। जो कहोगी, वहीं करेंगें। विलाप करने से अपने प्राणों को संशय में मत डालो । इस कोमल शरीर को दुःखाग्नि से संतप्त मत करो । इस तरह अनेक प्रकार से समझाने पर किसी प्रकार आश्वस्त होकर उसने कुछ दूध पिया । तत्पश्चात् मेरे द्वारा गोद में बैठाकर 'वत्से ! बतलाओ, तुम्हारे माता-पिता कहाँ हैं ? इस आश्रम के पास कैसे आई ? तुम्हें क्या दुःख है ?' तुम क्यों
३ शि०
३४
शिवराजविजयः
रो रही थी ? तुम क्या चाहती हो ? हम तुम्हारे लिए क्या करें ? इस प्रकार पूछने पर अबोध बालिका होने के कारण भाषण चातुरी से अनभिज्ञ, भय के कारण लड़खड़ाते हुए शब्दोंवाली, लज्जा के कारण अत्यन्त मन्द स्वरों में, शोक के कारण रुधे गले से, डरी हुई सी उसने किसी प्रकार हम आश्रमवामियों को बतलाया कि वह अत्यन्त समीप के ही ग्राम में निवास करनेवाले किसी ब्राह्मण की पुत्री है।
टिप्पणी - शोकज्वालावलीढम् शोकरूपी ज्वाला से व्याप्त । यहाँ रूप-कालङ्कार है। इस गद्यखण्ड में भयाकुल बालिका का सुन्दर चित्रण किया गया है।
एनां च सुदरीमाकलय्य कोऽपि यवन तनयो नदीतटान्मातुर्हस्ता-दाच्छिद्य क्रन्दन्तीं नीत्वाऽपससार । ततः कञ्चिदध्वानमतिक्रम्य यावद-सिधेनुकां सन्दर्थ्य बिभीषिकयाऽस्याः क्रन्दन-कोलाहलं शमयितुमियेष; तावदकस्मात् कोऽपि काल-कम्बल इव भल्लूको वनान्तादुपाजगाम । दृष्ट्वैव यवन-तनयोऽसौ तत्रैव त्यक्त्वा कन्यकामिमां शाल्मलितरुमेक-मारुरोह। विप्रतनया चेयं पलाश-पलाशि-श्रेण्यां प्रविश्य घुणाक्षरन्यायेन इत एव समायाता यावद् भयेन पुना रोदितुमारब्धवती, तावदस्मच्छा-त्रेणैवाऽऽनी ते "ति ।
व्याख्या - एनां – पूर्ववणितामिमा बालिकाम्, सुन्दरीम् = शोभनाङ्गीम्, आकलय्य = अवधार्य, कोऽपि कश्चिदज्ञातकुलशीलः, यवनैर्तेनेयः = यवनसुतः, नदीतटात् = सरित्कूलात्, मातुः जनन्याः, हस्तात् = करात्, आच्छिद्य = बलादपहृत्य, क्रन्दन्तीम् विलपन्तीम्, नीत्वा आदाय, अपससार पलायित-वान्, ततः = पलायनानन्तरं, कञ्चिदध्वानम् = ईषत्पन्थानम्, अतिक्रम्य = गत्वा, यावत् = यावत्कालपर्यन्तम्, असिधेनुकां छूरिकाम्, सन्दर्य दर्शयित्वा, विभीषिकया = भीत्या, अस्याः कुटीरस्थबालिकायाः, क्रन्दनकोलाहलं = रोदन-ध्वनिम्, शमयितुम् = शान्तं विधातुम्, इयेष वाञ्छति स्म, तावत् तावत्काल -पर्यन्तम्, अकस्मात् = झटिति, कोऽपि, कालकम्बलः = यमकम्बलः, इव = यथा, भल्लूकः = ऋक्षः, वनान्तात् = काननप्रान्तात्, उपाजगाम समीपमागतवान्, दृष्ट्वव = विलोक्यैव, असौ सः, यवनतनयः यवनपुत्रः, तत्रैत्र तस्मिन्नेव स्थाने, कन्यकामिमाम् = बालिकामेनाम्, त्यक्त्वा = परित्यज्य, शाल्मलित रुम् =
प्रथमो निश्वासः
३५
शाल्मलीवृक्षम्, एकम्, आरुरोह - आरोहितवान् । विप्रतनया = ब्राह्मण-पुत्री, च, इयम् = एषा, पलाशपलाशिश्रेष्यां = किंशुकविटपपङ्क्ती, प्रविश्य = प्रवेशं विधाय, घुणाक्षरन्यायेन = काष्ठवेधककृमिन्यायेन, संयोगवशेनेति भावः, इत एव - आश्रमाभिमुखमेव, समायाता = समागता, यावद्, भयेन भीत्या, पुनारोदितुम् = भूयः क्रन्दितुम्, आरब्धवती समारेभे, तावत् एव, अस्मच्छा-श्रेण = मुनिशिष्येण, आनीता = समानीता, इति बालिकासम्प्राप्तिवृत्तान्तम् ।
समासः - यवनस्य तनयः यवनतनयः । नद्याः तटं नदीतट, तस्मात् नदी-तटात् । क्रन्दनस्य कोलाहलं क्रन्दनकोलाहलम् । कालश्चासौ कम्बलश्च काल-कम्बलः अथवा कालस्य कम्बलः कालकम्बलः । पलाशाः किंशुकाः, ते पला-शिनः वृक्षाः, तेषां श्रेणी, तस्यां पलाशपलाशिश्रेण्याम् । अस्माकं छात्रेण अस्मच्छात्रेण ।
कोषः - 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी।' इत्यमरः । 'कूलं रोधश्च तीरच्च प्रतीरच्च तटं त्रिषु' इत्यमरः । 'अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । 'छुरिका चासिधेनुका' इत्यमरः । 'पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्' इत्यमरः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुमागमाः ।। इत्यमरः । 'पलाशे किंशुकः पर्णो वातपोथः' इत्यमरः ।
व्याकरणम् - आकलय्य- आ कल + ल्यप् । आच्छिद्य-आ छिद् +
-ल्यप् । क्रन्दन्तीम् - क्रन्द शतृ (द्वि० एकवचन)। नीत्वानी + क्त्वा । अपससार अप सृ+ लिट् + तिप् । अतिक्रम्य - अति + क्रम् + ल्यप् । सन्दर्थ्य - सम् + दृश् + णि + ल्यप् । शमयितुम् - शम् + णि+ तुमुन् । इयेष + इष् इच्छायां + लिट् + तिप्। उपाजगाम - उप + आ + गम् + लिट् + तिप् । त्यक्त्वा - त्यज् + क्त्वा । आरुरोह - आ + रुह + लिट् + तिप् । प्रविश्य -प्र + विश् + ल्यप् । समायाता - सम् + आ + या + क्त + टाप् । पुनारोदितुम्-'रो रि' इति लोपे, 'ठूलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घ । रोदितुम् - रुद् + इ + तुमुन् । आरब्धवती - आ + रभक्तवतु ङीप् । आनीता आनी + क्त + टाप् ।
शब्दार्थ - एनाम् = उस पूर्वणित कन्या को, सुन्दरीम् = शोभन अङ्गों वाली, आकलय्य समझकर, कोऽपि कोई, यवनतनयः = यवनपुत्र, नदी-तटात् = नदी के तट से, मातुर्हस्तात् माता के हाथ से, आच्छिद्य छिनकर,
३६
शिवराजविजयः
क्रन्दन्तीं रोती हुई को, जीत्वा लेकर, अपससार भागा। ततः = तद-नन्तर, किश्चिद कुछ, अध्वानम् मार्ग की, अतिक्रम्य पारकर, यावद् -जब तक, अकस्मात् = अचानक, असिधेनुकां छुरी को, सन्दर्य दिखाकर, विभीषिकया = डर से, अस्याः इस बालिका को, क्रन्दन कोलाहलं रोदन-ध्वनि को, शमयितुम् - शान्त करने की, इयेष इच्छा की, तावत् तव तक, अकस्मात् = अचानक, कोऽपि कोई, कालकम्बल इव काले कम्बल के समान अथवा यमराज के कम्बल के समान, भल्लूकः भालू, वनान्तात् = वनप्रान्त से, उपाजगाम = पास आया। दृष्ट्वैव देखकर ही, असी वह, यवन-तनयः = यवनात्मज, कन्यकामिमां इस कन्या को, तत्रैव वहीं पर, त्यक्त्वा छोड़कर, शाल्मलितरुमेकं - एक शाल्मली वृक्ष पर, आरुरोह चढ़ गया । विप्रतनया चेयं = और यह ब्राह्मणपुत्री, पलाशपलाशिश्रेण्याम् = पलाश वृक्षों के समूह में, प्रविश्य = प्रवेशकर, घुणाक्षरन्यायेन संयोगवश, इत एव इधर ही, समायाता = आ गई, यावत् जब तक, भयेन भय से, पुना रोदितुम् = फिर रोने के लिए, आरब्धवती आरम्भ किया, तावत् तब तक, अस्मच्छा-श्रेणैव- हमारे छात्र के द्वारा ही, आनीता = लाई गई। इति ।
हिन्दी- इस कन्या की सुन्दर समझकर कोई मुसलमान लड़का नदी के तट से माता के हाथ से छीनकर रोती हुई बालिका को लेकर भागा। फिर कुछ दूर जाकर ज्यों ही उसने छुरा दिखलाकर भयभीत करके उसके रोने के शब्द को शान्त करना चाहा, त्यों ही बचानक कानन-प्रान्त से एक काले कम्बल जंसा भालू (रीछ) निकला। उसे देखते ही वह मुसलमान लड़का उस बालिका को वहीं छोड़कर सेमर के एक पेड़ पर चढ़ गया और यह ब्राह्मण-पुत्री पलाश वृक्षों की पंक्ति में घुसकर संयोगवश इधर आ गई। फिर ज्यों ही इसने भय के कारण रोना आरम्भ किया, त्यों ही हमारा छात्र इसे यहाँ से आया।
टिप्पणी- इस गद्याखण्ड के 'पलाशपलाशिश्रेण्याम्' स्थल पर यमकालंकार है। घुणाक्षरन्यायेन-जिस प्रकार घुन (काष्ठभेदक कीड़ा) जब कभी लकड़ी का भेदन करता है, तो कभी-कभी उसकी पंक्तियाँ अक्षर (क-ख) के रूप में जाती हैं, उसी प्रकार बिना सोचे हुए काम को अकस्मात् हो जाने को घुणा-क्षर न्याय कहते हैं।
प्रथमो निश्वासः
३७
तदाकर्ण्य कोपज्वालाज्वलित इव योगी प्रोवाच - "विक्रमराज्येऽपि कथमेष पातकमयो दुराचाराणामुपद्रवः ?"
ततः स उवाच -
"महात्मन् ! क्त्राधुना विक्रमराज्यम् ? वीरविक्रमस्य तु भारतभुवं विरय्य गतस्य वर्षाणां सप्तदश-शतकानि व्यतीतानि । क्वाधुना मन्दिरे मन्दिरे जयजयध्वनिः ? क्व सम्प्रति तीर्थे तीर्थे घण्टानादः ? क्वाद्यापि मठे मठे वेदघोषः ? अद्य हि वेदा विच्छिद्य वीथीषु विक्षिप्यन्ते, धर्म-शास्त्राण्युद्ध्य धूमध्वजेषु ४मायन्ते, पुराणानि पिष्ट्वा पानीयेषु पात्यन्ते, भाष्याणि भ्रंशयित्वा भ्राष्ट्रेषु भयेते; "क्वचिन्मन्दिराणि भिद्यन्ते, क्वचित् तुलसीवनानि छिद्यन्ते, क्वचिद् दारा अपह्रियन्ते, क्वचिद् धनानि लुण्ठ्यन्ते, क्वचिदार्त्तनादाः, क्वचिद् रुधिरधाराः, क्वचिदग्नि-दाहः, क्वचिद् गृहनिपातः" इत्येव श्रूयतेऽवलोक्यते च परितः ।
व्याख्या - तत् = ब्रह्मचारिगुरुवचनम्, आकर्ण्य निशम्य, कोपज्वाला-ज्वलितः = क्रोधाग्निप्रदीप्तः, इव यथा, योगी = योगसाधको महात्मा, प्रोवाच = निगदितवान्, विक्रम राज्येऽपि विक्रमादित्यशासनेऽपि, कथमेषः किमी-दृग्विधः, पातकमयः = पापसङ्कुलः, दुराचाराणाम् कुत्सिताचाराणाम्, उपद्रवः = विघ्नः । ततः = एतच्छुत्रणानन्तरम्, सः ब्रह्मचारिगुरुः, उवाच जगाद -महात्मन् ! = योगिन् ! क्व कुत्र, अधुना सम्प्रति, विक्रमराज्यम् = विक्रमा-दित्यभूपतेः शासनकालः ? वीरविक्रमस्य तु = बलीविक्रमादित्यस्य तु, भारत-भुवं = भारतभूमिम्, विरहय्य परित्यज्य, गतस्य = स्वर्गं प्रस्थितस्य, वर्षा-णाम् = शरदाम्, सप्तदशशतकानि सप्तदशशतवर्षाणि, व्यतीतानि = अति-क्रान्तानि, क्व = कुत्र, अधुना इदानीम्, मन्दिरे मन्दिरे = प्रतिमन्दिरम्, जय-जयध्वनिः = जयजयनादः, क्व कुत्र, सम्प्रति अधुना, तीर्थे तीर्थे = प्रति-तीर्थ५, घण्टानादः = वाद्यमानघण्टाध्वनिः, क्व कुत्र, अद्यापि = अस्मिन् दिवसेऽपि, साम्प्रतमपीति भावः, मठे मठे प्रतिमठम्, वेदघोषः = श्रुतिपाठ-नादः, अद्य अधुना, हि-निश्चयेन, वेदाः श्रुतयः, विच्छिद्य विपाट्य, वीथीसु =वत्र्मंसु, विक्षिप्यन्ते = विकीर्यन्ते, धर्मशास्त्राणि मन्वादिप्रणीतस्मृतिवाङ्मयानि, उधूय = उत्तोल्य, धूमध्वजेषु वह्निपु, ध्मायन्ते अग्निसाद् विधीयन्ते, पुरा-णानि = वेदव्यासविरचितानि श्रीमद्भागवतादीनि, पिष्ट्वा - चूर्णीकृत्य, पानी-
३८
शिवराजविजयः
येषु - जलेषु, पात्यन्ते प्रक्षिप्यन्ते, भाष्याणि सूत्रव्याख्यानानि महाभाष्या-दीनि, भ्रंशयित्वा चूर्णयित्वा, भ्राष्ट्रेषु भर्जनपात्रेषु, भज्यन्ते वह्निना दह्यन्ते, क्वचित् कुत्रचित्, मन्दिराणि देवभवनानि, मिद्यन्ते धूलियात् विधीयन्ते, क्वचित्कुत्रचित्, तुलसीवनानि तुलसीतरुकाननानि, छिद्यन्ते - कत्र्त्यन्ते, क्वचित् - कुत्रचिद्, दाराः भार्याः, अपहृियन्ते चोर्यन्ते, क्वचिद् = कुत्रचिद्, धनानि = द्रव्याणि सम्पदो वा, सुष्ठधन्ते - लुण्ठर्कर्सङ्गृह्यन्ते, क्व-चिद् - कुत्रचिद्, आर्तनादाः करुणक्रन्दनानि, क्वचिद् कुत्रचिद्, रुधिर-धाराः शोणितप्रवाहाः, क्वचित् कुत्रचिद्, अग्निदाहः वह्निकाण्डम्, क्व-चित् - कुत्रचिद्, गृहनिपातः सद्यविनाशः, इत्येव एवम्प्रकारक एब, श्रूयते = समाकर्ण्यते, अवलोक्यते दृश्यते, च पुनः, परितः सर्वतञ्चतुदिक्षु वा ।
समासः- महान् आत्मा यस्य सः, तत्सम्बुद्धौ महात्मन् ! विक्रमस्य राज्यं विक्रमराज्यम् । भारतस्य भूः भारतभूः, तां भारतभुवम् । घण्टायाः नादः घण्टानादः । कोपस्य ज्वालया ज्वलितः कोपज्वालाज्वलितः । घूम एव ध्वजो येषां, तेषु धूमध्वजेषु । तुलस्याः वनानि तुलसीत्रनानि । आर्तानां नादाः आर्त-नादाः । रुधिरस्य धाराः रुधिरधाराः । अग्निना दाहः अग्निदाहः । गृहाणां गृहस्य वा निपातः गृहनिपातः ।
कोषः - 'एर्ताह सम्प्रतीदानीमधुना साम्प्रतं तथा' । 'शब्दे निनाद-निनद-ध्वनि-ध्वान-रवः-स्वनाः। स्वाननिर्घोषनिदिनादनिस्वाननिस्वनाः ।। आरवा-ऽऽरावसंरावविरावाः' इत्यमरः । 'मठरछात्रादिनिलयः' इत्यमरः। 'नापः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ।। कबन्धमुदकं पायः पुष्करं सर्वतोमुखम् । अम्भोर्णस्तोयपानीयनीरक्षीराम्बुशम्ब-रम् ।।' इत्यमरः । 'क्लीवेऽम्बरीषं भाष्ट्रो ना' इत्यमरः । 'गृहं गेहोद्वसितं वेश्म सद्य निकेतनम्' इत्यमरः ।
व्याकरणम् - पातकमयः पातक मयट् । विरहग्य-वि + रह+ ल्यप् । गतस्य - गम् + क्त (षष्ठी) । व्यतीतानि वि अत+ क्त (नपुं० ) । विच्छिद्य - वि + छिद् + ल्यप् । उद्धूय उद् धून् + ल्यप् । पिष्ट्वा -पिष् + क्त्वा । इमायन्ते - ध्मा शब्दाग्निसंयोगयोः से भावकर्म लट् । भर्ण्यन्ते - भृजी भर्जने + यक्, भावकर्म, लट् । भिद्यन्ते + भिद् + यक् + लट् । दाराः- दू विदारणे + णि वन् । दारयति हृदयम् इति दाराः । स्त्रीवाचक
प्रथमो निश्वासः
३९
इस शब्द का प्रयोग 'दाराक्षतलाजासूनी बहुत्वं च' इस सूत्र से नित्य बहुवचन पुल्लिङ्ग में होता है।
= शब्दार्थ - तदाकर्ण्य = उसे सुनकर, कोपज्वालाज्वलित इव = क्रोधाग्नि की लपटों से जलते हुए के समान, योगी योगसाधक मुनि, प्रोवाच बोले । विक्रम राज्येऽपि विक्रमादित्य के शासन में भी, कथमेष पातकमयः क्यों इस पापमय, दुराचाराणामुपद्रवः - दुराचारियों का विघ्न है, ततः = तदनन्तर, सः - वह ब्रह्मचारीगुरु ने, उवाच कहा। महात्मन् != हे श्रेष्ठ आत्मावाले ! क्व = कहाँ, अधुना = इस समय, विक्रमराज्यम् - विक्रमादित्य का शासन है; बीरविक्रमस्य तु = महाबलशाली विक्रमादित्य के तो, भारतभुवं भारतभूमि को, विरहस्य = छोड़कर, गतस्य गये हुए, वर्षाणां सप्तदशशतकानि सत्रह सौ बर्षे, व्यतीतानि - व्यतीत हो गये। क्व कहाँ, अधुना इस समय, मन्दिरे मन्दिरे प्रत्येक मन्दिर में, जय-जयध्वनिः जय-जयकार की ध्वनि हो रही प्रत्येक तीर्थं में, घण्टानादः = मठे मठे प्रत्येक आज, हि -गलियों में, है, क्व = कहाँ, सम्प्रति = अब, तीर्थे तीर्थे घण्टा का शब्द हो रहा है, क्व कहाँ, अद्यापि आज भी, छात्रगृहों में वेदघोषः वेदों का समुच्चारण हो रहा है, अद्य निश्चय ही, वेदाः = श्रुतियाँ, विच्छिद्य फाड़कर, वीथीषु विक्षिप्यन्ते = फेंके जाते हैं, धर्मशास्त्राणि मन्वादि प्रणीत स्मृतियाँ, उद्घय -उछालकर या उड़ाकर, धूमध्वजेषु अग्नि में, ध्मायन्ते झोंके जाते हैं, पुराणानि = श्रीमद्भागवतादि पुराणग्रन्थ, पिष्ट्वा = पीसकर, पानीयेषु जल में, पात्यन्ते डाले जाते हैं, भाष्याणि सूत्रव्याख्यानात्मक भाष्यग्रन्थ, भ्रंश-यित्वा = नष्टकर, भ्राष्ट्रेषु भाड़ों में, भज्यन्ते जलाये जाते हैं, क्वचित् = कहीं, मन्दिराणि = देवताओं के निवासस्थान, भिद्यन्ते तोड़े जाते हैं, क्वचित् = कहीं, तुलसीवनानि तुलसी वृक्षसमूह, छिद्यन्ते काटे जाते हैं, क्वचित् = कहीं, दाराः = स्त्रियाँ, अपह्रियन्ते अपहरण की जाती हैं, क्वचित् = कहीं, धनानि = घन, लुण्ठचन्ते लुटे जाते हैं, क्वचित् कहीं, आर्तनादाः करुण-क्रन्दन, क्वचित् = कहीं, रुधिरधाराः खून की धारा, क्वचित् = कहीं, बग्निदाहः वह्निकाण्ड, क्वचिद् कहीं, गृहनिपातः घरों का विनाश, इत्येव = यही, श्रूयते = सुनाई पड़ता है, अवलोक्यते च और दिखलाई पड़ता है, परितः चारों ओर ।
हिन्दी- यह सुनकर क्रोधाग्नि की लपटों से जलते हुए के समान संतप्त
Yo
शिवराजविजयः
योगिराज बोले - विक्रमादित्य के राज्य में भी दुराचारियों का यह पातकपूर्ण उपद्रव कैसे हैं? तब ब्रह्मचारीगुरु ने कहा- महात्मन् ! अब विक्रमादित्य का शासन कहाँ है ? वीर विक्रमादित्य को भारतभूमि को छोड़कर गये हुए सत्रह सौ वर्ष व्यतीत हो चुके हैं। अब प्रत्येक मन्दिर में जय-जय का शब्द कहाँ ? बाज तीयों में घण्टा-ध्वनि कहाँ सुनाई पड़ती है ? इस समय मठों (विद्यालयों) में वेदमन्त्रों की ध्वनि कहाँ ? आज तो वेदग्रन्य फाड़कर गलियों में बिखेरे जाते हैं। धर्मशास्त्र उछालकर अग्नि में झोंके जाते हैं। श्रीमद्भागवतादि पुराण ग्रन्य पीसकर पानी में फेंके जाते हैं। भाष्य ग्रन्य नष्ट कर भाड़ों में जला दिये जाते हैं। कहीं मन्दिर तोड़े जाते हैं। कहीं तुलसी के वृक्ष काटे जा रहे हैं। कहीं स्त्रियों का अपहरण किया जाता है। कहीं धन-सम्पत्ति लूटी जाती है। कहीं करुण क्रन्दन है तो कहीं शोणित की धारा । कहीं अग्निकाण्ड हैं तो कहीं घरों का विध्वंस। इस समय यही चारों ओर सुनाई पड़ता है और दिखलाई पड़ता है।
टिप्पणी- इस गद्यखण्ड में 'कोपज्वालाज्वलित इव' इस स्थल पर उत्प्रेक्षालंकार है। यहाँ प्रसाद गुण और वैदर्भी रीति का प्रयोग किया गया है।
तदाकर्ण्य दुःखितश्चकितश्च योगिराडुवाच "कथमेतत् ? ह्य एव पर्वतीयाञ्छकान् विनिर्जित्य महता जयघोषेण स्वराजधानीमायातः श्रीमानादित्य-पदलाञ्छनो वीरविक्रमः । अद्यापि तद्विजयपताका मम चक्षुषोरग्रत इव समुद्भूयन्ते, अधुनापि तेषां पटहगोमुखादीनां निनादः कर्णशष्कुलीं पुरयतोव, तत् कथमद्य वर्षाणां सप्तदश-शतकानि व्यती-तानि" इति ?
व्याख्या - तत् = ब्रह्मचारिगुरुकयनम्, आकर्ण्य श्रुत्वा,
दुःखितः = जगाद, कथमे-गतदिवस एव, पीडितः, चकितश्च = साञ्चयंश्च, योगिराङ् महात्मा, उवाच तत् - एतत् तव वचनं कथं सङ्गच्छत इति भावः, ह्य एवं पर्वतीयान् = सैलसंस्थितान्, शकान् एतज्जातिशासकान्, विनिजित्य = जित्वा, महता - तारस्वरोत्थेन, जयघोषेण जयजयेति शब्देन, स्वराजधानीम् निज-प्रशासन केन्द्रमुज्जयिनीम्, बायातः = समागतः, श्रीमान् - शोभासम्पन्नः, बादित्य पदलाञ्छतः - आदित्यपदविभूषितः, वीरविक्रमः शूरः विक्रमादित्यः । अद्यापि इदानीमपि, तद्विजयपताका - विक्रमविजय वैजयन्ती, मम योगि-
प्रथमो निश्वासः
४१
राजस्य, चक्षुषोः = नयनयोः, अग्रत इव पुरतः इव, समुद्भूयन्ते == रामुच्छि यन्ते, अधुनापि साम्प्रतमपि, तेषाम् विक्रमसम्बन्धिनाम्, पटहगोमुखादीनाम् = आनका दिवाद्यविशेषाणाम्, निनादः ध्वनिः, कर्णशष्कुलीं = श्रोत्रगह्वरम्, पूरयतीव - बिभर्तीव, तत् कथम् तेन हेतुना केन प्रकारेण, अद्य इदानीम्, वर्षाणां शरदाम्, सप्तदशशतकानि एतत्सङ्ख्यापरिमितानि, व्यतीतानि = जातानि, इति इत्येवंरूपेण पृष्टवान् ।
समासः- जयस्य घोषेण जयघोषेण । आदित्यं पदलाञ्छनं यस्य स आदित्यपदलाञ्छनः । तस्य विजयस्थ पताका तद्विजयपताका । पटश्च गोमुखश्व आदिर्येषों, तेषां पटहगोमुखादीनाम् । कर्णस्य शष्कुलीं कर्णशष्कुलीम् ।
कोषः - 'कलङ्काङ्को लाञ्छनं च चिह्न लक्ष्म च लक्षणम्' इत्यमरः । 'आनकः पटहोऽस्त्री' इत्यमरः ।
व्याकरणम् - आकर्ण्य - आ + कर्ण + ल्यप् ।
पर्वतीयान् - पर्यंत + विनिर्जित्य - वि + निर् + जी + ल्यप् ।
छप्रत्यय + ईय, द्वि० बहु० ।
समुद्भूयन्ते - सम् + उद् + धून् + लट् (आत्म०)।
शब्दार्थ - तदाकर्ण्य - यह सुनकर, दुःखितः पीड़ित, चकितश्च और कथमेतत् = यह कैसे पर्वतीयान् पर्वत पर आश्चर्यचकित, योगिराङ् महात्मा, उवाच बोले, सम्भव है ? ह्य एव गत दिवस ही, अर्थात् कल ही, रहने वाले, शकान् = शकों को, विनिर्जित्य जीतकर, महता जयघोषेण = अत्युन्नत जयघोष के साथ, स्त्रराजधानीम् अपनी राजधानी उज्जयिनी, आयातः = आये, श्रीमान् शोभासम्पन्न, आदित्यपदलाञ्छनः आदित्यपद से विभूषित, वीरविक्रमः = महाबलशाली विक्रमादित्य । अद्यापि - आज भी, तद्विजयपताका = उसकी विजयध्वज की पताका, मम मेरे, चक्षुषोः = आखों के, अग्रत इव = सम्मुख की तरह, समुद्भूयन्ते उड़ रही है, अधुनाऽपि = इस समय भी, तेषां उन सबके, पटहगोमुखादीनां नगाड़ा और तुरही आदि की, निनादः आवाज, कर्णशष्कुलीं श्रोत्रविवर को, पूरयतीव= पूर्ण-सी कर रही है, तत्कथम् तो कैसे, अद्य आज, वर्षाणां सप्तदशशतकानि सत्रह सौ वर्ष, व्यतीतानि = बीत गये, इति ।
हिन्दी - इस बात को सुनकर दुःखी और विस्मित होकर योगिराज बोले- यह कैसे ? कल ही तो आदित्य पद से विभूषित वीर विक्रम पर्वतीय शकों को जीतकर महान् जयघोष के साथ अपनी राजधानी आये थे। आज
४२
शिवराजविजयः
भी मानों उनकी विजयपताकाएँ मेरी आँखों के सामने फहरा रही हैं। आज भी उनके नगाड़े, तुरही आदि के शब्द मानों मेरे कर्णविवरों को भर रहा है। तब फिर आज सत्रह सौ वर्ष कैसे बीत चुके ?
टिप्पणी- इस गद्यखण्ड में 'अद्यापि' से 'पूरयतीव' पर्यन्त उत्प्रेक्षा-लंकार है।
ततः सर्वेषु स्तब्धेषु चकितेषु च ब्रह्मचारिगुरुणा प्रणम्य कथितम् -"भगवन् ! बद्ध-सिद्धासनैनिरुद्ध-निश्वासैः प्रबोधितकुण्डलिनीकै-विजितदशेन्द्रियैरनाहत-नाद-तन्तुमवलम्ब्याऽऽज्ञाचक्रं संस्पृश्य, चन्द्र-मण्डलं भित्त्वा, तेजःपुञ्जमविगणय्य, सहस्रदलकमलस्यान्तः प्रविश्य, परमात्मानं साक्षात्कृत्य, तत्रैव रममाणैर्मुत्युञ्जयैरानन्दमात्रस्वरूपैर्ध्या-नावस्थितैर्भवादृशैर्न ज्ञायते कालवेगः । तस्मिन् समये भवता ये पुरुषा अवलोकिताः तेषां पञ्चाशत्तमोऽपि पुरुषो नावलोक्यते । अद्य न तानि स्रोतांसि नदीनाम् न सा संस्था नगराणाम्, न सा आकृतिगिरीणाम्, न सा सान्द्रता विपिनानाम् । किमधिकं कथयामी भारतवर्षमधुना अन्यादृशमेव सम्पन्नमस्ति" ।
व्याख्या- ततः = तदनन्तरं, सर्वेषु निखिलेषु जनेषु, स्तब्धेषु शान्तेषु, चकितेषु च = आश्चर्यभूतेषु च, ब्रह्मचारिगुरुणा आश्रमस्थमहपिणा, प्रणम्य = नमस्कृत्य, कथितम् = उक्तम् ।
भगवन् ! = महात्मन् ! बद्ध सिद्धासनैः = गृहीतासनविशेषः, निरुद्ध-
निःश्वासैः = प्राणायामेनावरुद्धश्वसन क्रियाकलापैः, प्रबोधितकुण्डलिनीकैः -समुद्योतितकुण्डलिनीकैः, विजितदशेन्द्रियैः वशीकृतदशेन्द्रियैः, अनाहतनाद-तन्तुम् = सुपुषुम्णामध्यस्थतुरीयपद्मोत्थशब्दम्, अवलम्ब्य समाश्रित्य, आज्ञा-चक्रम् = भ्रूमध्यस्थ द्विदलात्मकचक्रम्, संस्पृश्य सम्यक् स्पृष्ट्वा, चन्द्रमण्डलम् = शशिविम्बम्, भित्त्वा द्विदलात्मकचक्रपरवतिपोडशदलात्मकचक्रं विभिद्य, तेजः-पुञ्जम् - सोमचक्रर्वांत महाप्रकाशम्, अविगणय्य अवमर्त्य, सहस्रदलकमल-स्यान्तः - ब्रह्मरन्ध्रतिसहस्रारचक्रस्याभ्यन्तरम्, प्रविश्य प्रवेशं विधाय, परमात्मानम् = परं ब्रह्म, साक्षात्कृत्य दृष्ट्वा तत्रैव परब्रह्मणि, रममाणैः = विहरणशीलैः, मृत्युञ्जयैः कालत्रयैः, आनन्दमात्रस्वरूपैः चिन्मयस्वरूपै-रर्थाद् ब्रह्मरूपः, ध्यानावस्थितैः आवद्धध्यानैः, भवादृशैः योगिवर्यसदृशैः,
प्रथमो निश्वासः
४३
न - नहि, ज्ञायते = अवबुद्धघते, कालवेगः समयचक्रः, तस्मिन् समये = तत्काले, भवता - श्रीमता योगिराजेन, ये पुरुषाः ये जनाः, अवलोकिताः = दृष्टाः, तेषाम् अवलोकितानां जनानाम्, पश्चाशत्तमोऽपि पश्वाशत्सङ्ख्या-पूरकोऽपि, पुरुषः मनुष्यः, मानवो वा, नावलोक्यते नहि दृश्यते, अद्य = इदानीम्, न - नहि, तानि भवता दृष्टानि, स्रोतांसि धाराः, नदीनाम् = सरिताम्, न नहि, सा पुरार्वार्तनी, संस्था स्थितिः, नगराणाम् जनपदा-नाम्, न नहि, सा पुरावर्ती, आकृतिः स्वरूपः, गिरीणाम् अचलानाम्, न = नहि, सा = पुरावलोकिता, सान्द्रता = गहनता, विपिनानाम् वनानाम्, किमधिकं = कथमधिकम्, कथयामः वर्णयामः, भारतवर्षम् भारताख्यो देशः, अधुना = सम्प्रति, अन्यादृशमेव पूर्वभिन्नमेव, सम्पन्नमस्ति जातं विद्यते ।
समासः - बद्धं सिद्धासनं यैस्तैः बद्धसिद्धासनैः। निरुद्धा निःश्वासा यैस्तैः निरुद्धनिःश्वासैः । प्रबोधिता कुण्डलिनी यैस्तैः प्रबोधितकुण्डलिनीकैः । विजि तानि दशेन्द्रियाणि यैस्तैः विजितदशेन्द्रियैः। अनाहतश्चासौ नादश्च अनाहत-नादः, तस्य तन्तुम् अनाहतनादतन्तुम् । सहस्रदलं पत् कमलं, तस्य सहस्रदल-कमलस्य । आनन्दमात्रमेव स्वरूपं येषां, तैः आनन्दमात्रस्वरूपैः। ध्याने अवस्थिताः ध्यानावस्थिताः, तैः ध्यानावस्थितैः । भवान् इव दृश्यन्ते इति भवादृशाः, तैः भवादृशैः । अन्यदिव दृश्यते इति अन्यादृशम् ।
कोषः 'अथ समं सर्वम् । विश्वमशेषं कृत्स्नं समस्तनिखिलानि निःशेषम् । समग्रं सकलं पूर्णमखण्डं स्यादनूनके' ।। इत्यमरः । 'कालो दिष्टो-ऽप्यनेहापि समयः' इत्यमरः । 'नदी सरित् । तरङ्गिणी शैवलिनी तटिनी ह्रादिनी घुनी। स्रोतस्वती द्वोपवती स्रवन्ती निम्नगाऽऽपगा ।।' इत्यमरः । 'अद्विगोत्रगिरिग्रावावलशैलशिलोच्चयाः' इत्यमरः । अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । 'एर्ताह सम्प्रतीदानीमधुना साम्प्रतं तथा' इत्यमरः ।
व्याकरणम् - निरुद्ध-नि रुं क्त। संस्पृश्य सम् स्पृश् + क्त्वा + ल्यप् । भित्त्वा - भिदिर् विदारणे क्त्वा । अविगणय्य-अ (न) + वि + गण् + णिच् + ल्यप्। प्रविश्य प्र विश् + क्त्वा ल्यप्। रममाणैः-रम + शानच् । मृत्युं जितवन्त इति मृत्युञ्जयाः, तैः मृत्युन्जयैः - मृत्यु + जि + खच् + मुमा गमः । संस्था सम्+ स्था + अ + टाप् । सान्द्रता -सान्द्र + भावे तल् + टाप् । सम्पन्नम् सम्+ पद गती + क्त 'रदाभ्यां निष्ठा तो नः पूर्वस्य च दः' ।
YY
शिवराजविजयः
शब्दार्थ ततः तवतन्तर, सर्वेषु सभी जनों के स्तब्धेषु स्तन्त्र, चकितेषु च = और चकित हो जाने पर, ब्रह्मचारिगुरुणा = ब्रह्मचारी गुरु ने, प्रणम्य = प्रणामकर, कवितम् कहा। भगवन् महात्मन् ! बद्धसिद्धासनैः = सिद्धासन बाँधने वाले, निरुद्धनिःश्वासैः श्वास-प्रक्रिया को रोकने वाले, प्रबोधितकुण्डलिनीकैः = कुण्डलिनी को जगाने वाले, विजितदशेन्द्रियैः दशों इन्द्रियों को जीतने वाले, अनाहतनादतन्तुम् अनाहतनाद के तन्तु का, अव-लम्ब्य = अवलम्बन कर, आज्ञाचक्रम् आज्ञाचक्र को, संस्पृश्य संस्पर्श कर, चन्द्रमण्डलं चन्द्रमण्डल को, भित्त्वा भेदन करके, तेजःपुञ्जम् चन्द्र-मण्डल से सम्बन्धित महाप्रकाश को, अविगणय्य तिरस्कार कर, सहस्रदल-कमलस्यान्तः = सहस्रदल कमल के भीतर, प्रविश्य प्रवेश कर, परमात्मानं = ब्रह्म का, साक्षात्कृत्य - साक्षात्कार करके, तत्रैव ब्रह्म में ही, रममाणैः = रमण करने वाले, मृत्युञ्जयैः मृत्यु को जीतने वाले, आनन्दमात्रस्वरूपैः = केवल आनन्दस्वरूप, ध्यानावस्थितैः ४ अर्थात् समाधि में स्थित होने वाले, भवादृशैः = आप जैसों के द्वारा, न ज्ञायते नहीं जाना जाता है, काल-वेगः = समय की गति, तस्मिन् समये उस काल में, भवता- आपके द्वारा, ये पुरुषाः = जो पुरुष, अवलोकिताः देखे गये हैं, तेषां उन सबमें, पश्चा-शत्तमोऽपि = पचासर्वां भी, पुरुषः मनुष्य, अर्थात् आपके द्वारा देखे गये पचासवीं पीढ़ी का भी मानव, नावलोक्यते नहीं दिखलाई पड़ता । अद्य = आज, न तानि पूर्वदृष्ट वे नहीं, स्रोतांसि धाराएँ हैं, न = नही, सा संस्था = वह स्थिति, नगराणान् नगरों की है, न नहीं, साऽऽकृतिः = वैसी वह, सान्द्रता = घनता, अधिक क्या कहे, भारत-अन्य प्रकार का ही, बकृति, गिरीणाम् = पर्वतों की है, न नहीं, सा विपिनानाम् - जंगलों की है, किमधिकं कथयामः वर्षम् - भारत देश, अधुना इस समय, अन्यादृशमेव सम्पन्नमस्ति हो गया है।
हिन्दी - योगिराज के वचन सुनने के अनन्तर सबके स्तब्ध एवं आश्चर्य-चकित हो जाने पर ब्रह्मचारियों के गुरु ने प्रणाम कर कहा- 'भगवन् ! सिद्धासन लगाकर, साँस रोककर, कुण्डलिनी को जगाकर, दसों इन्द्रियों ( पाँच ज्ञानेन्द्रिय और पाँच कर्मेन्द्रिय) को वश में करके, अनाहतनाद के तन्तु का अवलम्बन करके, आज्ञाचक्र को स्पर्श कर अर्थात् ध्यान का लक्ष्य बनाकर, चन्द्रमण्डल का भेदन करके, सोमचक्र में संस्थित महाप्रकाश को तिरस्कृत करके,
प्रथमो निश्वासः
४५
सहसार-चक्र के भीतर प्रवेश करके, परब्रह्म का साक्षाद् दर्शन करके उसी में रमण करने वाले, मृत्यु को जीतने वाले, आत्मा के आनन्दमय स्वरूप को प्राप्त हुए, ध्यानमग्न आप जैसे योगियों को समय की गति का पता नहीं चलता। उस समय जिन लोगों को आपने देखा था, उनकी पचासवीं पीढ़ी का पुरुष भी आज नहीं दिखलाई पड़ता। आज नदियों की वे धाराएँ नहीं हैं। नगरों की वह स्थिति नहीं, पर्वतों का वह आकार नहीं और न काननों की वह सघनता है। अधिक क्या कहें, इस समय भारत देश अन्य प्रकार का ही हो गया है' ।
टिप्पणी- इस गद्यखण्ड में लेखक ने गौड़ी रीति का प्रयोग किया है। शब्दयोजना और भावात्मकता- दोनों की दृष्टि से गद्य में विशेष प्रवाह है। इस गद्यांश में योगशास्त्रीय अनेक शब्दों का प्रयोग हुआ है। ये शब्द पोगिराज की महत्ता को सुस्पष्ट करने के लिए प्रयुक्त हुए हैं। यथा- सिद्धासन, कुण्ड-लिनी, अनाहतनाद, आज्ञाचक्र, चन्द्रमण्डल और सहस्रदलकमल । छात्रों के ज्ञान के लिए इन सबका संक्षिप्त परिचय निम्न है -
सिद्धासन- ध्यान अर्थात् समाधि के सम्यक् स्थित होने के लिए साधक-जन पद्मासन, सिद्धासन आदि आसनविशेष लगाकर बैठते हैं ।
कुण्डलिनी - मूलाधार चक्र का सम्बन्ध गुदा से है। यहीं कुण्डलिनी शक्ति (जिसे सर्पिणी भी कहते हैं) का निवास है। योगीजन इसी शक्ति को जगाकर मस्तिष्क तक ले जाते हैं।
अनाहतनाद - हृदय में संस्थित द्वादश दल कमल से समाधि की अवस्था में अनुभूत होनेवाला शब्द या ध्वनि ।
आज्ञाचक्र इसकी स्थिति दोनों भौंहों के बीच मानी जाती है। यही सुषुम्ना का अन्त तथा मन, बुद्धि और अहंकार का निवास है।
चन्द्रमण्डल - आज्ञाचक्र में दृष्टि को निश्चल कर देने के पश्चात् योगी की चन्द्रमण्डल एवं सूर्यचन्द्र रूपी प्रकाशपुञ्ज में स्थिति होती है।
सहस्रारचक्र अथवा सहस्रदलकमल- इसकी स्थिति मस्तिष्क (शिर) में
मानी गई है। यही परमात्मा का निवास माना जाता है। समाधि पूर्ण हो जाने पर योगी यही परमात्मा का साक्षात्कार करता हुआ आनन्दस्वरूप हो जाता है। यही ब्रह्मानन्द की प्राप्ति होती है ।। १७ ॥
इदमाकर्ण्य किञ्चित् स्मित्वेव परितोऽवलोक्य च योगी जगाद -"सत्यं न लक्षितो मया समय-वेगः । यौधिष्ठरे समये कलितसमाधि-
४६
शिवराजविजयः
रहं वैक्रम-समये उदस्थाम् । पुनश्च वैक्रम-समये समाधिमाकलय्य अस्मिन दुराचारमये समयेऽहमुत्थितोऽस्मि । अहं पुनर्गत्वा समाधिमेव कलयिष्यामि, किन्तु तावत् सङ्क्षिप्य कथ्यतां का दशा भारतवर्ष-स्येति" -
व्याख्या - इदम् - ब्रह्मचारिगुरुवचनम्, आकण्यं निशम्य, किञ्चित् = ईषत्, स्मित्वेव = विहस्य इव, परितः सर्वतः, अवलोक्य निर्वण्यं, च पुनः, योगी = योगसाधको महात्मा जगाद उवाच, सत्यम् अवितथम्, न -नहि, लक्षितः = परिज्ञातः, मया समाधिस्थेन योगिना, समयवेगः = काल-प्रवाहः, यौधिष्ठिरे - युधिष्ठिरसम्बद्धे, समये काले, कलितसमाधिः = घारित-समाधिः, अहं = योगसाधको महामुनिः, वैक्रमसमये विक्रमादित्यकाले, उद-स्थाम् = समाधिविरतोऽभूवम्, पुनश्च भूयश्व, वैक्रमसमये विक्रमादित्य-शासनकाले, समाधिम् = ध्यानम्, आकलय्य समालम्ब्य, अस्मिन् एतस्मिन्, दुराचारमये = अत्याचारयुते, समये काले, अहम् योगी, उत्थितः - जागृतः अस्मि, अहम् = योगिराङ्, पुनः भूयः, गत्वा = यात्वा, समाधिमेव = ध्यान-मेव, कलयिष्यामि सन्धारयिष्यामि, किन्तु परश्व, तावत् = तावत्काल-पर्यन्तं यावदहमत्र संस्थितोऽस्मि, सङ्क्षिप्य समासेन, अनतिविस्तरेणेति भावः, कथ्यताम् = उच्यताम्, का दशा कीदृशी अवस्था, भारतवर्षस्य = अस्माकं भारतदेशस्य, इति = एतत् ।
समासः यधिष्ठिरस्यायम् इति यौधिष्ठिरः, तस्मिन् यौधिष्ठिरे । कलितः समाधिः येन सः कलितसमाधिः । विक्रमस्यायमिति वैक्रमः, तस्मिन् समये वैक्रमसमये । दुष्टः आचारः दुराचारः, सः प्रचुरं यस्मिन् तादृशे दुराचारमये । कोषः - 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । 'कालो दिष्टो ऽप्यनेहापि समयः' इत्यमरः । 'सत्यं तथ्यमृतं सम्यग् अमूनि त्रिषु तद्वति' इत्यमरः । 'वितथं त्वनृतं वचः' इत्यमरः ।
व्याकरणम् - आकर्ण्य-आ कर्ण+ क्त्वा + ल्यप् । स्मित्वा ब्मिङ् + वत्वा । अवलोक्य अव लोक + क्त्वा + ल्यप् । जगाद गद व्यक्त। यां वाचि + लिट् + तिप् । यौधिष्ठिरे - युधिष्ठिरस्य अयं यौधिष्ठिरः (युधिष्ठिर + अण्), तस्मिन् यौधिष्ठिरे। वैक्रमसमये - विक्रमस्य अयम् इति (विक्रम + अण्) वैक्रमः, स चासो समयः, तस्मिन् वैक्रमसमये । आकलय्य आ कल ल्यप् । दुराचारमये - दुराचार + मयट् । उत्थितः - उद् + स्था + इट् + क्त । उद-
प्रथमो निश्वासः
४७
स्थाम् - उत् + स्था + लुङ, उ० पु० ए० व० । गत्वा गम् + क्त्वा । कलयि-
व्यामि - कल + लट् + मिप् । संक्षिप्य सम् + क्षिप् + ल्यप् ।
शब्दार्थ इदम् ब्रह्मचारीगुरु के कथन को, आकर्ण्य = सुनकर, किञ्चित् = थोडा-मा, स्मित्वेव मानो मुस्कुरा कर, परितः चारो ओर, अवलोक्य = देखकर, योगी योगसाधक महामुनि जगाद बोले, सत्यं = तथ्य है, मया मैंने, समयवेगः काल की गति को, न लक्षितः नहीं समझा, यौधिष्ठिरे समये युधिष्ठिर से सम्बद्ध काल में, कलितसमाधिः समाश्रि धारण करने वाले, अहं मैं, वैक्रमसमये विक्रमादित्य के शासनकाल में, उदस्थाम् = उठा, पुनश्च और फिर, वैक्रमसमये = विक्रमादित्य के राज्य-काल में, समाधिमाकलय्य ध्यान लगाकर, अस्मिन् इस, दुराचारमये समये - दुराचारसमन्वित काल में, अहम् मैं उत्थितोऽस्मि उठा हूँ, अहं = मैं, पुनः = फिर, गत्वा = जाकर, समाधिमेव = समाधि को ही, कलयिष्यामि = धारण करूँगा, किन्तु परन्तु, तावत्= तब तक, संक्षिप्य संक्षेप करके, कथ्य-ताम् = कहिये, का दशा क्या अवस्था है, भारतवर्षस्य भारत देश की, इति = ऐसा ।
हिन्दी - यह सुनकर कुछ मुस्कुराते हुए-से चारो ओर देखकर योगिराज बोले - सचमुच मुझे समय के वेग की प्रतीति नहीं हुई। युधिष्ठिर के समय में समाधि लगाकर मैं विक्रमादित्य के समय में उठा था और विक्रमादित्य के समय में पुनः समाधि लगाकर इस दुराचारपूर्ण समय में जागा हूँ। मैं फिर जाकर समाधि ही लगाउँगा । किन्तु तब तक संक्षेप में बतलाइये कि भारतवर्ष की क्या दशा है ? ।। १८ ।।
तत् संश्रुत्य भारतवर्षीय-दशा-संस्मरण-सञ्जात-शोको हृदयस्थ-प्रसादसम्भारोदृगिरण-श्रमेणेवातिमन्थरेण स्वरेण "मा स्म धर्मध्वंसन-घोषणैर्योगिराजस्य धैर्यमवधीरय" इति कण्ठं रुन्धतो बाष्पानविगणय्य, नेत्रे प्रमृज्य, उष्णं निःश्वस्य, कातराभ्यामिव नयनाभ्यां परितोऽवलोक्य ब्रह्मचारिगुरुः प्रवक्तुमारभत -
"भगवन् ! दम्भोलिघटितेयं रसना, या दारुण-दानवोदन्तोदीरणैर्न दीर्य्यते, लोहसारमयं हृदयम्, यत् संस्मृत्य यावनान् परस्सहस्रान् दुरा-
४८
शिवराजविजयः
चारात् शतधा न भिद्यते, भस्मसाच्च न भवति । विगस्मान्, येऽद्यापि जीवामः, श्वसिमः, विचरामः, आत्मन आर्य्यवंश्यांश्चाऽभिमन्यामहे" ।
व्याख्या - तत् = योगिराजवचनम्, संश्रुत्य निशम्य, भारतवर्षीयदशा
संस्मरणसञ्जातशोकः भारतदेशीयावस्था संस्मरणमात्रसमुत्पन्नकरुणाः, हृदय-स्थप्रसादसम्भारोद्गिरणश्रमेण मानसप्रसन्नतासम्भारवमनपरिश्रमेण, इव - यथा, अतिमन्थरेण नितान्तमन्देन, स्वरेण ध्वनिना वाचा वा, मा स्म धर्मध्वंसनघोषणैः = मा स्म श्रुतिप्रतिपाद्यधर्मोन्मूलनकथनैः, योगिराजस्य = महामुनेः, धैर्यम् - धीरत्वम्, अवधीरय अवनमय, इति एवम्प्रकारेण, कण्ठं = गलविवरम्, रुन्धतः - अवरुन्धतः, बाष्पान् अश्रुतिवहान्, अविगणय्य = समुपेक्ष्य, नेत्रे लोचने, प्रमृज्य स्वच्छे विधाय, उष्णं निदाघयुतम्, निःश्वस्य निःश्वासं समादाय, कातराभ्यामिव सकरुणाभ्यामिव, नयनाभ्यां = लोचनाभ्यां, परितः समन्ततः, अवलोक्य वीक्ष्य, ब्रह्मचारिगुरुः = गौरश्यामवदुशिक्षकः, प्रवक्तुम् कथयितुम्, आरभत - प्रारभत -
शतधा शत-भगवन् - श्रीमन् महर्षे । दम्भोलिघटिता = वज्रनिर्मिता, इयम् = एषा, रसना = जिह्वा, या = रसना, दारुणदानवोदन्तोदी रणैः भीतिप्रदनिशाचर-कथाकथनैः, न नहि, दीर्य्यते विभिद्यते, लोहसारमयं कृष्णायसरचितम्, हृदयम् = मानसम्, यत् चेतः, संस्मृत्य स्मृत्वा, यावनान् यवन विहितान्, परस्सहस्रान् - दशशताधिकान्, दुराचारान् अत्याचारान्, खण्डेषु, न = नहि, भिद्यते विदीर्य्यते, भस्मसाच्च अग्निसाच्च, न= नहि, भवति = सञ्जायते, धिगस्मान् धिक्कारं विद्यते मादृशान्, ये वयम्, अद्यापि - इदानीमपि, जीवामः जीवनं सन्धारयामः, श्वसिमः श्वासं गृह्णामः, विचरामः चलामः, आत्मनः अस्मान्, आर्य्यवंश्यांश्च अर्यवंशोद्भवांश्च, अभिमन्यामहे - अङ्गीकुर्मः ।
समासः भारतवर्षस्येति भारतवर्षीया, सा चासौ दशा, तस्याः संस्मरणेन सञ्जातः शोकः यस्य सः भारतवर्षीयदशासंस्मरणसञ्जातशोकः । हृदये तिष्ठतीति हृदयस्थः, हृदयस्थो यः प्रसादस्य सम्भारः, तस्य उद्भिरणे यः श्रमः, तेन हृदयस्थप्रसादसम्भारोङ्गिरणश्रमेण । धर्मस्य ध्वंसनम्, तस्य घोषणैः धर्मध्वंसन-घोषणैः । दम्भोलिना घटिता दम्भोलिघटिता । दारुणानां दानवानाम् उदन्तस्य उदीरणैः दारुणदानवोदन्तोदीरणः । लोहसारस्य विकारः लोहसारमयम् । सह
प्रथमो निश्वासः
४९
सात् परा इति परस्सहस्राः, तान् परस्सहस्रान् । यवनानामिमे इति यावनाः, तान् यावनाम् ।
कोषः 'पुरोगमः पुरोगामी मन्दगामी तु मन्थरः' इत्यमरः । 'लोचनं नयनं नेत्रमोक्षणं चक्षक्षिणी । दृग्दृष्टी च' इत्यमरः । 'ह्रादिनी वज्रमस्त्री स्यात्कुलियां निदुरं पविः । शतकोटिः स्वरुः शम्बोः रम्भोलिरशनिर्द्वयोः' ।। इत्यमरः । 'रसशा रसना जिल्ह्वा' इत्यमरः । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । 'चित्तन्तु चेतो हृदयं स्वान्तं हुन्मानसं मनः' इत्यमरः ।
व्याकरणम् - संश्रुत्य - सम् + + क्त्या + ल्यप् । उद्भिरण - उद् + + ल्युट् । अवधीरय-अवधू लोट्। अविगणय्य अवि गण+ त्यप् । प्रमृज्य - प्र + मृज् + क्त्वा + ल्यप् । निःश्वस्य निर् श्वस् + कत्या + ल्यप् । प्रवक्तुम् प्रवच्+ तुमुन्। आरभत-आ + रम् + लङ् + तिष् । उदीरण - उद् + इर् + ल्युट् + अन्। दीर्य्यते - दृ +- भावकर्म यक् + लट् + तिष् । यावनान् - यवन अण (द्वि० ब० व०)। संस्मृत्य - सम् + स्मृ + क्त्या + ल्यप् । भस्मसात् भस्मनः तुल्यम्, भस्म + सात्, 'विभाषा साति कात्स्न्यें' इति सूत्रेण। धिगस्मान् धिक् के योग में द्वितीया 'उभसर्वतसोः कार्या धिगुषर्षादिषु त्रिषु' ।
शब्दार्थ - तत्संश्रुत्य - यह सुनकर, भारतवर्षीयदशासंस्मरणसञ्जातशोकः - भारतवर्ष की दशा के स्मरण से समुत्पन्न शोकवाले, हृदयस्थप्रसादसम्भा-रोङ्गिरणबमेणेव मानस-संस्थित प्रसन्नता के समूह को उगलने के परिश्रम से मानो, अतिमन्यरेण स्वरेण अत्यन्त धीमी वाणी से, मा स्म निषेधवाचक अब्यय, (मा के योग में अट् अथवा आट् का आगम नहीं होता है तथा 'स्म' के प्रयोग होने पर 'स्मोत्तरे लङ् च' इस सूत्र से लुङ् अथवा लङ् लकार का प्रयोग होता है।) धर्मध्वंसनघोपणैः धर्म के विनाश के प्रकाशन से, योगि-राजस्य योगॅसाधक महामुनि के, धैर्यम् धीरता को अबधीरय = विच-लित करो, इति - इस प्रकार से, कण्ठ रुन्धतः गलविबर को अवरुद्ध करने-बाले, वाष्पान विगणय्य = आँसूयों की परवाह न कर, नेत्रे प्रमृज्य आँखों को पोटकर, उष्णं निःश्वस्य गर्म साँस लेकर, कातराभ्यामिव नयनाभ्यां = मानो दीनतापूर्ण आँखों से, परितः चारो ओर, अवलोक्य देखकर, ब्रह्म-चारिगुरुः गौर-श्यामवटु के शिक्षक मुनि, प्रवक्तुम् कहने के लिए, आरभत = बारम्भ किया-
४ शि०
५०
शिवराजविजयः
भगवन् ! = महर्षे ! दम्भोलिघटिता वा से बनी हुई. इथं रसना = यह जिह्वा है, यः = जो, दारुणदानवोदन्तोदी रणैः भयङ्कर दानवों के वृत्तान्त के कथन से, न दीर्य्यते = फट नहीं जाती, लोहसारमयं हृदयं लोहे का बना हुआ यह हृदय है, यत् जो, संस्मृत्य स्मरण कर, यावनान् यावनों के द्वारा किये हुए, परःसहस्रान् हजारों से अधिक, दुराचारान् अत्याचारों को, शतधा = सैकड़ों खण्ड, न भिद्यते भिन्न-भिन्न नहीं हो जाता, भस्म-साच्च और जलकर राख, न भवति नहीं होता। धिगस्मान् = हमलोगों को धिक्कार है, योऽद्यापि जो आज भी, जीवामः जीवन धारण किये हुए हैं, श्व सिमः साँस लेते हैं, विचरामः विचरण करते हैं, आत्मनः अपने को, आर्य्यवंश्यांश्च = आयें वंश में समुत्पन्न होनेवाले, अभिमन्यामहे मानते हैं।
हिन्दी - इसे सुनकर भारतवर्ष की दशा के स्मरण से समुत्पन्न शोकवाले ब्रह्मचारी गुरु ने, मानो हृदय में संस्थित प्रसन्नता को व्यक्त करने श्रम से नितान्त मन्द स्वर से 'धर्मविध्वंस की कथाओं से योगिराज के धैर्य को विच लित मत करो' इस प्रकार कहते हुए, गले को सँधनेवाले आँसुओं की परवाह न करके, आँखों को पोंछकर, गरम साँस लेकर, कातरपूर्ण नयनों से चारों ओर देखकर कहना प्रारम्भ किया -
महर्षे ! यह मेरी जिह्वा वज्त्र से विनिर्मित है, जो भीषण दानवों के वृत्तान्त-वर्णन से विदीर्ण नहीं हो जाती। फौलाद (लोहा) से बना हुआ यह हृदय है, जो यवनों के द्वारा किये गये हजारों से अधिक दुराचारों को संस्मरण कर खण्ड-खण्ड नहीं हो जाता और जलकर राख नहीं बन जाता। हम सबको धिक्कार है, जो आज भी जीवन धारण कर रहे हैं, साँस ले रहे हैं, भ्रमण कर रहे हैं और अपने को आर्यवंश में समुत्पन्न होनेवाले मानते हैं।
टिप्पणी- इस गद्यखण्ड के 'हृदयस्थप्रस। दसम्भारोङ्गिरणश्रमेणेव' इस स्थल पर उत्प्रेक्षालंकार है। 'कातराभ्यामिव' में उपमालंकार है। 'ये अद्यापि' से लेकर 'अभिमन्यामहे' पर्यन्त दीपकालंकार है। 'जीवामः' के पश्चात् 'श्व-सिमः' कहने का आशय यह है कि वस्तुतः हम आर्यों का इस प्रकार का गहित जीवन बिताना जीना नहीं है, अपितु लोहार की धौंकनी के समान केवल साँस लेना मात्र है। कायरों की भाँति अधम जीवन है। यहाँ 'निर्वेद' नामक व्यभिचारीभाव समुद्वेलित होकर 'भाव' बन गया है ।॥ १९ ॥
प्रथमो निश्वासः
५१
उपक्रमममुमाकण्र्ण्य अवलोक्य च' मुनेविमनायमानं हरिद्राद्रवक्षालि-तमिव वदनम्, निपतद्वारिबिन्दुनी नयने, अञ्चित-रोमकञ्चुकं शरीरम्, कम्पमानमधरम्, भज्यमानं च स्वरम्, अवागच्छत् "सकलानर्थमयः, सकल-वञ्चनामयः, सकलपापमयः, सकलोपद्रवमयश्वायं वृत्तान्तः"-इति, "अत एव तत्स्मरणमात्रेणापि खिद्यत एष हृदये, तन्नाहमेनं निरर्थं जिग्लापयिषामि, न वा चिखेदयिषामि" इति च विचिन्त्य -
"मुने । विलक्षणोऽयं भगवान् सकल-कला-कलाप-कलनः सकल-कालनः करालः कालः । स एव कदाचित् पयः-पूर-पूरितान्यकूपार-तलानि मरूकरोति । सिंह-व्याघ्र-भल्लूक-गण्डक-फेरु-शश-सहस्र-व्याप्ता-न्यरण्यानि जनपदीकरोति, मन्दिर-प्रासाद-हर्म्य-शृङ्गाटक-चत्वरोद्यान-तडाग-गोष्ठमयानि नगराणि च काननीकरोति । निरीक्ष्यतां कदाचिद-स्मिन्नेव भारते वर्षे यायजूकै राजसूयादियज्ञा व्ययाजिषत, कदाचिदि-हैव वर्ष-वाताऽऽतप-हिम-सहानि तपांसि अतापिषत । सम्प्रति तु म्लेच्छे-र्गावो हन्यन्ते, वेदा विदोर्यन्ते, स्मृतयः समृद्यन्ते, मन्दिराणि मन्दुरी-क्रियन्ते, सत्यः पात्यन्ते, सन्तश्च सन्ताप्यन्ते । सर्वमेतन्माहात्म्यं तस्यैव महाकालस्येति कथं धीरधौरेयोऽपि धैर्यं विधुरयसि ? शान्तिमाकलय्या-तिसङ्क्षेपेण कथय यवनराज्य-वृत्तान्तम् । न जाने किमित्यनावश्यकमपि शुश्रूषते मे हृदयम्"- इति कथयित्वा तूष्णीमवतस्थे ।
व्याख्या- उपक्रमम् = उपोद्घातम्, अमुम् = पूर्वणितम्, आकर्ण्य = निशम्य, अवलोक्य = वीक्ष्य, च, मुनेः ब्रह्मचारिगुरोः, विमनायमानम् -उन्मनायमानम्, हरिद्राद्रवक्षालितमिव - महारजन र संधौतमिव, वदनम् = आन-नम्, निपतद्वारिबिन्दुनी = प्रच्यवदश्रुकणे, नथने लोचने, अञ्चितरोमकञ्चु कम् - सरोमाञ्श्वम्, शरीरं = वपुः, कम्पमानम् = वेपमानम्, अधरम् = ओष्ठः, भज्यमानं = वृट्यमानम्, च, स्वरम् शब्दम्, अवागच्छत्- अजानात्, सकला-नर्धमयः = निखिलपापमयः, सकलवश्वनामयः = अशेषवश्वनान्विताः, सकल-पापमयः - समस्तवृजिनयुतः, सकलोपद्रवमयश्च सम्पूर्णोपसर्गबहुलश्व, अयम् - एषः, वृत्तान्तः = कथानक इति, अत एव अस्मात् कारणात्, तत्स्मरण-मात्रेणापि - तत्पातकस्मृतिविषयत्वेनापि, खिद्यते = कष्टमनुभवति, एषः = ब्रह्म-
५२
शिवराजविजयः
चारिगुरुः, हृदये - चेतसि, तत् तस्मात्, अहं योगिराट्, एर्न = मुनिम्, निरर्थं = निष्प्रयोजनम्, न = नहि, जिग्लापयिष्यामि ग्लापयितुमभिलषामि, न वा, चिखेदविषामि खेदयितुं वाञ्छामि, इति च इत्येवम्प्रकारेण च, विचिन्त्य = विचार्य- ('योगिराङ् उवाच' इत्यग्रे योजयिष्यते ) -
= मुने ! = ब्रह्मचारिगुरो ! विलक्षणः विवेचनाक्षमः, अयम् = एषः, भगवान् निखिलेश्वयंयुतः, सकलकलाकलापकलनः अशेषकला सन्दोह निर्माता, सकलकालनः = समस्तजरयिता, करालः भयङ्करः, कालः महाकालः, स एव = तादृशो महाकाल एव, कदाचित् कस्मिश्चित् काले, पयःपूरपूरितानि = वारिप्रवाहभरितानि, अकूपारतलानि सागरतलानि, मरूकरोति = मरु-स्थलं विदधाति, सिंहव्याघ्रभल्लूकगण्डक फेरुशशसहस्रव्याप्तानि केसरी मृगपति-ऋक्षखड्गी जम्बूकहरिण सहस्रसमावृतानि, अरण्यानि विपिनानि, जनपदी-करोति नगरीकरोति, मन्दिरप्रासादहम्यंशृङ्गाटकचत्वरोद्यान तडागगोष्ठमयानि - देवालय राजसदन धनिकावासचतुष्पथाङ्गणगोस्थानकप्रचुराणि, नगराणि -पुराणि, च, कानतोकरोति = विपिनीकरोति, निरीक्ष्यताम् अवलोक्यताम्, कदाचित् = कस्मिश्चित् तमये, अस्मिन्नेव एतस्मिन्नेव, भारततर्षे भारताख्ये देशे, याबजूकैः = मखशीलैः, राजसूयादियज्ञाः राजसूयप्रभृतिविविधयागाः, व्ययाजिपत == विहिताः, कदाचित् कस्मिञ्चित् काले, इहैव अस्मिन्तेव भारतवर्षे, दर्पवातातपहिम सहानि प्रावृपवनग्रीष्मशीतसहानि, तपांसि = कृच्छ्रादिकर्माणि च. अतापिषत तप्तानि, सम्प्रति तु अस्मिन् काले तु, इंलैच्छेः = यवनैः, गावः धेनवः, हन्यन्ते प्रार्णीत्रयुज्यन्ते, वेदाः श्रुतयः, त्रिदीर्यन्ते = विच्छिद्यन्ते, स्मृतयः = मन्त्रादिप्रणीतानि धर्मशास्त्राणि, समृद्यन्ते = मदितानि विधीयन्ते, मन्दिगणि देवायतनानि, मन्दुरीक्रियन्ते = वाजि-शालीक्रियन्ते, सत्यः पतिव्रताः नार्यः, पात्यन्ते पातिव्रत्यात् व्यभिचार्यन्ते, सन्तश्व = सज्जनाञ्च, सन्ताप्यन्ते सम्पीड्यन्ते, सर्वमेतत् निखिलमिदम्, माहात्म्यम् = महत्त्वम्, तस्यैव पूर्ववणितस्थ, महाकालस्य कालनाम्ना सम्प्रथितस्य, इति इत्यस्मात् कारणात्, कथं केन कारणेन, धीरधौरेयोऽपि = धीरधुरन्धरोऽपि, धैर्य = धीरत्वम् विधुरयसि परित्यजसि, शान्तिमाकलय्य शान्ति समाश्रित्य, अतिसङ्क्षेपेण यतीवसमासेन, कथय वद, यवनराज्य-वृत्तान्तम् = यवनशासनकथानकम्, न नहि, जाने जानामि, किमिति = कथम्, अनावश्यकमपि निष्प्रयोजनमधि, शुश्रूपते = श्रोतुमभिलषति, मे =
प्रथमो निश्वासः
५३
मम, हृदयम् = चित्तम्, इति एवम्प्रकारेण, कथयित्वा उक्त्वा, तूष्णीम् = मौनम्, अवतस्थे बभूव ।
समास - हरिद्रायाः द्रवः रसः, तेन क्षालितं धौतम् इति हरिद्राद्रवक्षालि-तम् । निपतन्तः वारिणाम् अभ्रूणां बिन्दवः, याभ्यां ते निपतद्वारिबिन्दुनी । रोमकञ्चुकाः रोमाञ्चाः, अश्विताः रोमकञ्चुकाः यस्मिन्, तत् अश्वितरोम कञ्चुकम् । सकलानां कलानों कलापः अमूहः, तस्य कलनः रचयिता इति सकलकलाकलापकलनः । पयसा पूरेण पूरितानि पयःपूरपूरितानि । अकूपाराणा तलानि अकूगरतलानि । अमरुं मरुं करोतीति मरूकरोति । सिहानां व्याघ्राणां भल्लूकानां गण्डकानां फेरूर्णा शशानां च सहस्राणि, तैर्याप्तानि सिंहव्याघ्र-भल्लू कगण्डक फेरुशशसहस्रव्याप्तानि । मन्दिरं च प्रासादश्व हर्यं च शृङ्गाटकं चचत्वरं च उद्यानं च तडागं च गोष्ठं च, तैः प्रचुराणि मन्दिरप्रासादहम्यं-शृङ्गाटकचत्वरोद्यान तडागगोष्ठमयानि । अमन्दुराः मन्दुराः क्रियन्ते इति मन्दुरीक्रियन्ते । धुरां वहतीति धौरेयः, धीराणां धीरेषु वा धौरेयः इति धीरधौरेयः ।
कोष- 'निशाख्या काञ्चनी पीता हरिद्रा वरणिनी' इत्यमरः । 'अथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि' इत्यमरः । 'कलापो भूषणे बहें तूणीरे संहतावपि' इत्यमरः । 'कालो मृत्यो महाकाले' इति मेदिनी । 'समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः । 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगाल-वश्वकक्रोष्टुफेरुफेरव जम्बूकाः' ।। इत्ययरः । 'हर्यादि धनिनां वासः प्रासादो देव-भूभुजाम् । सोधोऽस्त्री राजसदनम्' इत्यमरः । 'शृङ्गाटकचतुष्पथे' इत्यमरः । 'अङ्गणं चत्वाराजिरे' इत्यमरः । 'पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्' इत्यमरः । 'इज्याशीलो यायजूको यज्वा तु विधिगेष्टवान्' इत्यमरः । 'वाजिशाला तु मन्दुरा' इत्यमरः । 'वैकल्येऽपि च विश्लेषे विधुरं विकले त्रिषु' इति मेदिनी-कोषः ।
व्याकरणम् - उपक्रमम् उपक्रम भावे घञ् । विमनायमानम् -वि + मन + क्यच् + शानच् । कम्पमानम् कम्प शानच् । भज्यमानम् -भज् + यक् + शानच् । अवागच्छत् अव गम् + लङ् + तिप् । जिग्लाप-यिष्यामि - ग्लै हर्षक्षये + पुक् + णिच् + सन् + लट् + मिप्। चिखेदयिषामि -खिद् + णिच् + सन् + मिप् । विचिन्त्य वि चिन्त + ल्यप् । कलनः-कल +
५४
शिवराजविजयः
ल्युट् । कालनः- कल णिच् + ल्युट् । निरीक्ष्यताम् निर ईक्ष कर्मणि यक्, लोट्, प्र० पु० ए० व० । यायजूकैः पुनः पुनः भजते इति क्रियासमभिहारे यङ्, 'यजजपदशां यङः' इत्यूकः । व्ययाजिषत वि यज कर्मणि लुङ्, प्र० पु० ब० ८० । अतापिषत- तप लुङ् झ, भावकर्म । हन्यन्ते - हन् + यक् (भावकर्म) + लट् + झि। विदीर्यन्ते विदु यक् + लट् + झि। आकल म्प - आ + कल् + ल्यप् । शुश्रूषते - श्रु सन्त, 'ज्ञाश्रुस्मृदृशा सनः' इत्यात्मनेपदम् । अवतस्थे अवस्था + लिट् + त । 'समवप्रविभ्यः स्यः' इत्यात्मनेपदम् ।
शब्दार्थ उपक्रमम् भूमिका को, अमुम् इस, आकर्ण्य सुनकर, अव-लोक्य = = देखकर, च = और, मुनेः ब्रह्मचारी गुरु का, विमनायमानं -उदास, दुःखी, हरिद्राद्रवक्षालितम् = हल्दी के रस से रंगे हुए के, इव समान, बदनम् - मुख को, निपतद्वारिबिन्दुनी अश्रुकण प्रवाहित करनेवाले, नयने = आँखो को, अश्वितरोमकञ्चुकं रोमाञ्च से युक्त, शरीरम् देह, कम्पमानम् = कांपते हुए, अधरम् - ओठों को, भज्यमानम् - भङ्ग होता हुआ, टूटता हुआ, स्वरम् = शब्द, अवागच्छत् जान गये, सकलानर्थमयः सम्पूर्ण अनर्थों से समन्वित, सकलवञ्चनामयः अशेष वञ्चनाओं से युक्त, सकलपापमयः-निखिल पातकों से भरा हुआ, सकलोपद्रवमयः = समस्त उपद्रवों से युक्त, च = और, अयं वृत्तान्तः = यह वृत्तान्त है, इति ऐसा, अत एव = इसलिये, तत्स्मरणमात्रेणापि - उस घटना-क्रम के स्मरण मात्र से भी, खिद्यते = दुःखी हो रहे हैं, एषः = यह, हृदये चित्त में, तत् = इसलिये, न नहीं, अहम् = मैं, एनम् = इनको, निरर्थम् = निरर्थक, जिग्लापयिषामि = दुःखी नहीं करना चाहता हूँ, न वा चिखेदयिषामि और नहीं खिन्न करना चाहता हूँ, इति = ऐसा, विचिन्त्य = विचार करके मुने। हे मषि ! विलक्षणः = विचित्र, अद्भुत, अयं = यह, भगवान् ऐश्वर्यसम्पन्न, सकलकलाकलापकलनः = समस्त कलासमूह का रचयिता, सकलकालनः = सभी को नष्ट करनेवाला, करालः भीषण, कालः = महाकाल है, स एव वह ही, कदाचित् कभी, पयः पूरपूरि-तानि = जलप्रवाह से परिपूर्ण, अकूपारतलानि = समुद्र को, मरूकरोति = रेगिस्तान बना देता है, सिंहव्याघ्रभल्लूकगण्डक फेरुशशसहस्रव्याप्तानि = सिंह, बाघ, भालू, गेंडा, सियार और खरगोशों से व्याप्त, अरण्यानि = जंगलों को, जनपदीकरोति नगर बना देता है, मन्दिरप्रासादहम्यंशृङ्गाटकचत्वरोद्यान-
प्रथमो निश्वासः
५५
तडागगोष्ठमयानि मन्दिरों, राजमहलों, धनिकावासों, चौराहों, प्राङ्गणों, उद्यानों, तडागों एवं गोशालाओं आदि आदि से युक्त, नगराणि = पशहरों को, काननीकरोति = जंगल के समान कर देता है, निरीक्ष्यताम् - देखिये, कदाचिद् = कभी, अस्मिन्नेव भारतवर्षे इसी भारतवर्ष देश में, यायजूकैः = याज्ञिकों के द्वारा, राजसूयादियज्ञाः राजसूय आदि यश, व्ययाजिपत = किये जाते थे, कदाचित् = किसी समय, इहैव इसी भारतवर्ष में, वर्षवातातपहिमसहानि = वर्षा, आँधी, धूर और शीत को सहन करनेवाले, तपांसि तपस्यायें, अतापिषत = तपे जाते थे अर्थात् किये जाते थे, सम्प्रति तु किन्तु इस समय, म्लेच्छेः = यवनों के द्वारा, गावः गाँयें; हन्यन्ते मारी जाती हैं, वेदाः चारों वेद, विदीर्यन्ते = फाड़े जा रहे हैं, स्मृतयः स्मृतियाँ, सम्मृद्यन्ते = कुचल दी जाती हैं, मन्दिराणि - देवालय, मन्दुरीक्रियन्ते घुड़साल बना दिये जाते हैं, सत्यः = पतिव्रतायें, पात्यन्ते पतित कर दी जाती है, सन्तश्व और सज्जन पुरुष, सन्ताप्यन्ते = सम्पीडित किये जाते हैं। सर्वमेतत् माहात्म्यं यह सत्र माहात्म्य, तस्यैव = उसी, महाकालस्य = महाकाल का है, इति अतः, कथं = क्यों, धीरधौरेयोऽपि = धैर्यशालियों में अग्रणी होने पर भी, धैर्यं = धीरता को विधुरयसि = छोड़ रहे हो, शान्तिमाकलय्य शान्ति धारण कर, अतिसङ्क्षेपेण = अत्यन्त संक्षेप में, कथय कहो, यवनराज्यवृत्तान्तम् - यवन-शासन का समाचार, न जाने नहीं जानता हूँ, किमिति = क्यों, अनावश्यकमपि = अनावश्यक होने पर भी, शुश्रूषोः सुनने की इच्छा करता है, मे = मेरा, हृदयम् = चित्त, इति = ऐसा, कथयित्वा = कहकर, तूष्णीम् मौन, अवतस्थे = हो गये ।
हिन्दी- इस प्रस्तावना को सुनकर तथा ब्रह्मचारि गुरु के हल्दी के रस से रंगे हुए के समान उदास अर्थात् पीले पड़े हुए चेहरे, आँसू बहाते हुए नेत्रों, रोमान्चित शरीर, काँपते हुए ओष्ठ तथा लड़खड़ाती हुई आवाज को देखकर योगिराज समझ गये कि यह सारा वृत्तान्त अनर्थ, वञ्चना, पाप और उपद्रवों से परिपूर्ण है। अतः उसके स्मरण मात्र से ही इनका हृदय दुःखी हो रहा है। इसलिए मैं इनकों व्यर्थ में ही और अधिक म्लान अथवा खिन्न नहीं करना चाहता। यह सोचकर (बोले) -
मुनिवर ! समस्त कलाओं के रचयिता तथा सबैके संहारक, भीषण यह कालदेवता बड़े विलक्षण हैं। ये ही कभी अथाह जलराशि से भरे हुए समुद्र-
५६
शिवराजविजयः
तलों को मरुस्थल बना देते हैं। कभी हजारों सिंह, बाघ, भालू, गैंडा, सियार, खरगोशों से व्याप्त काननों को नगर बना देते हैं और कभी देवस्थानों, राज-महलों, धनिकों की ऊँची-ऊँची अट्टालिकाओं, चौराहों, चबूतरों, उपवनों, तालाबों एवं गोशालाओं से विभूषित नगरों को जंगल के रूप में परिणत कर देते हैं। देखिये, कभी इसी भारतवर्ष में याज्ञिकों के द्वारा राजसूय आदि यश किये जाते थे, किसी समय यहीं वर्षा, आँधी, धूप और शीत सहकर अनेक प्रकार के तप किये जाते थे। आजकल तो म्लेच्छों ( यवनों) के द्वारा गायें मारी जाती हैं, स्मृतियाँ रौंदी जाती हैं, देवमन्दिरों को घुड़साल बना दिया जाता है, पतिव्रताओं का सतीश्व नष्ट किया जाता है और सज्जनों को सताया जाता है। यह सब उसी महाकाल की महिमा है। यह विचारकर धैर्यशालियों में अग्र गण्य होते हुए भी आप धैर्य क्यों छोड़ रहे हैं ? शान्ति धारण करके अत्यन्त संक्षेप में यवनराज्य का वर्णन कीजिये। अनावश्यक होते हुए भी, न जाने क्यों मेरा हृदय सुनना चाहता है; ऐसा कहकर योगिराज मौन हो गये ।
टिप्पणी - इस गद्यांश में कर्मवाच्य के प्रयोगों का बाहुल्य और माधुर्य प्रसादयुक्त वैदर्भी रीति प्रशंसनीय है। 'हरिद्राद्रवक्षालितमिव' इस स्थल पर उत्प्रेक्षालंकार है। 'सकलकलाकलापकलनः' 'सकलकालनः करालः कालः' इस स्थान पर 'कला-कला, कल-कल, काल-काल' स्वरूप सभङ्ग पद यमक है। 'सकलकला' से 'काननीकरोति' तक अनुप्रास की छटा रमणीय है। देश की पूर्व स्थिति और तत्कालीन स्थिति के सुन्दर वर्णन के साथ विषमालङ्कार भी है ॥ २० ॥
अथ स मुनिः "भगवन् ! धैर्येण, प्रसादेन, प्रतापेन, तेजसा, वीर्येण, विक्रमेण, शान्त्या, श्रिया, सौख्येन, धर्मेण विद्यया च सममेव परलोकं सनाथितवति तत्रभवति वीरविक्रमादित्ये, शनैः शनैः पारस्परिक-विरोध-विशिथिलीकृत स्नेहबन्धनेषु राजसु भामिनी-भ्रूभङ्ग-भूरिभाव-प्रभाव-पराभूत-वैभवेषु भटेषु, स्वार्थ-चिन्ता सन्तान वितान कतानेष्व-मात्यवर्गेषु, प्रशंसामात्रप्रियेषु प्रभुषु, "इन्द्रस्त्वं वरुणस्त्वं कुबेरस्त्वम्" इति वर्णनामात्रसक्तेषु बुधजनेष कश्चन गजिनी-स्थाननिवासी महामदो यवनः ससेनः प्राविशद भारते वर्षे । स च प्रजा विलुण्ठय, मन्दिराणि निपात्य, प्रतिमा विभिद्य, परश्शतान् जनांश्च दासीकृत्य, शतश उष्ट्रेषु रत्नान्यारोप्य स्वदेशमनैषीत् ।
D
प्रथमो निश्वासः
५७
व्याख्या- अब = योगिराजवचनश्रवणानन्तरम्, सः प्रथितः, मुनिः ब्रह्मचारिगुरुः, 'अवदत्' इति शेषः, भगवन् ! योगिराङ् । धैर्येण धीरतया, प्रसादेन = प्रसन्नतया, प्रतापेन प्रभावेण, तेजसा कान्त्या, वीर्येण बलेन, विक्रमेण = पराक्रमेण, शान्त्या शमेन, बिया लक्ष्म्या, सौख्येन = धनेन, धर्मेण - श्रुतिप्रतिपाद्येन कर्मणा, विद्यया ज्ञानेन, च पुनः, सममेव साक मेव, परलोकम् = स्वलोंकम्, सनाथितवति याते, तत्रभवति पूज्ये, वीर-विक्रमादित्ये - एतनामकोज्जयिनीशासके, शनैः शनैः मन्दं मन्दम्, पारस्परिक-विरोधविशिथिलीस्नेह्वन्धनेषु अन्योऽन्य विरोध शिथिलीकृतप्रेमसम्बन्धेषु, राजसु - तृपेषु, भामिनीभ्रूभङ्गभूरिभावप्रभावपराभूतवैभवेषु = कामिनीध्रुविलासबहु-भावप्रभावपराजितधनेषु, भटेषु वीरेषु, स्वार्थचिन्तासन्तानवितानैकतानेषु क्षुद्रस्वार्थचिन्तामात्रपरायणेषु, अमात्यवर्गेषु सचिव निवहेषु, प्रशंसामात्रप्रियेषु = निजकीतिश्रवणरसिकेषु, प्रभुषु शासकेषु, इन्द्रस्त्वम् - पुरन्दरस्त्वम्, वरुणस्त्वम् - अम्भसाम्पतिस्त्वम्, कुबेरस्त्वम् धनाधिपस्त्वम्, इति एव-म्प्रकारेण, वर्णनामात्रसक्तेषु प्रशंसनमात्रतत्परेषु, बुधजनेषु सुधीसमुदायेषु, कश्चन = कोऽपि, गजिनीस्थानवासी 'गजिनी' इति लोकप्रथितस्थाननिवासी, महामदो = महमूद इति लोकप्रसिद्धनामा, यवनः भिर्युतः, प्राविशत् = प्रवेशं विहितवान्, भारते वर्षे = 'महमूदगजनी' इति प्रथितः, न पुनः, प्रजाः यित्वा, मन्दिराणि देवालयान्, निपात्य विभिद्य विदीर्य, परःशतान् शताधिकान्, दासीकृत्य दासं विधाय, शतशः शतसङ्ख्यकेषु, उष्ट्रेषु = धनानि, आरोप्य संस्थाप्य, स्वदेशम् निजदेशम्, अनैषीत् = नीतवान् । म्लेच्छः, ससेनः चमू-भारताख्येऽस्मिन् देशे, सः जनताः, विलुण्ठ्य = लुण्ठ-पातयित्वा, प्रतिमाः = मूर्तीः, देशवासिनो नरांश्च, क्रमेलकेषु, रत्नानि गजिनीमिति भावः, जनान्
समासः - पारस्परिकेण विरोधेन विशिथिलीकृतानि स्नेहवन्धनानि यस्तेषु पारस्परिकविरोधविशिथिलीकृतस्नेहबन्धनेषु । भामिनीनां भ्रूभङ्गाः भूरिभा-वाश्च, तेषां प्रभावेण पराभूतानि वैभवानि येषां तेषु भामिनीभ्रूभङ्गभूरिभाव-प्रभावपराभूतवैभवेषु । स्वार्थस्य चिन्ता स्वार्यचिन्ता, तस्याः सन्तानः, तस्य विताने ये एकतानास्ते स्वार्थचिन्तावितानैकतानास्तेषु स्वार्थचिन्तासन्तान-वितानैकतानेषु । सेनया सहितः ससेनः ।
कोषः - 'सुन्दरी रमणी रामा कोपना सैव भामिनी' इत्यमरः । 'भटा
५८
शिवराजविजयः
योधाश्च योद्धारः' इत्यमरः । 'प्रजा स्यात् सन्ततौ जने' इत्यमरः । 'एकतानी ऽनन्यवृत्ति रेकार्य कायनावपि । अप्येकसर्ग एकाग्रथोऽप्येकायनगतोऽपि सः ॥ इत्यमरः । 'उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः । इत्यमरः ।
व्याकरणम् 'धैर्येण' इत्यारभ्य 'विद्यया चे'ति पर्यन्तं 'समम्' इत्यस्य योगे तृतीया । सनाथितवति - सनाथ णिच् + क्त+ क्तन् + मतुप्, सप्तम्यन्तं पदम् । प्राविशत् - प्र + विश् + लङ् + तिप् । विलुण्ठध वि लुण्ठ + ल्यप् । निपात्य - नि + पत + णिच् + ल्यप् । विभिद्य वि+ भिद् + क्त्वा + ल्यप् । दासीकृत्य-न दासाः अदासाः, अदासान् दासान् कृत्वा - इति दासीकृत्य (च्चिप्रत्ययः) । आरोप्य - आ + रोप् + ल्यप् । अनैषीत् - णीव् प्रापणे + लुङ् + तिप्, प्र० पु० ए० व० ।
वीर्येण - वीरता, सौख्येन - सुख, ही, परलोकं = तत्रभवति = पूज्यपाद, साथ शब्दार्थ - अथ = योगिराज के शान्त हो जाने पर, स मुनिः = ब्रह्मचारी गुरु ने, (कहना आरम्भ किया) भगवन्! हे योगिराज ! धैर्येण = धैर्य, प्रसादेन = प्रसन्नता, प्रतापेन प्रताप, तेजसा क्षात्रतेज, विक्रमेण = पराक्रम, शान्त्या शान्ति, श्रिया लक्ष्मी, धर्मेण धर्म, विद्यया च और विद्या के, सममेव स्वर्गलोक को, सनाथितवति - सनाथित करने पर, वीरविक्रमादित्ये वीर विक्रमादित्य के, शनैः शनैः धीरे-धीरे, पारस्परिक-विरोधविशिथिलीकृतस्नेहबन्धनेषु आपसी झगड़ों के कारण पारस्परिक स्नेहबन्धनों के शिथिल हो जाने पर, राजसु राजाओं के, भामिनीभ्रूभङ्ग-भूरिभावप्रभावपराभूत वैभवेषु = कामिनियों के कटाक्षों एवं हाव-भावों के प्रभाव में आकर सारी सम्पत्ति नष्ट कर देने पर, भटेषु वीर योद्धाथों के, स्वार्थ चिन्तासन्तानवितानैकतानेषु - केवल स्वार्थ साधन की चिन्ताओं में तल्लीन हो जाने पर, अमात्यवर्गेषु मन्त्रियों के प्रशंसामात्रप्रियेयु प्रशंसा मात्र के प्रेमी हो जाने पर, प्रभुपु = स्वामियों के अर्थात् राजाओं के, इन्द्रस्त्वम् - तुम इन्द्र हो, वरुणस्त्वम् - तुम वरुण हो, कुवेरस्त्वम् तुम कुवेर हो, इति - इस प्रकार के, वर्णनामात्रसक्तेषु वर्णन में ही आसक्त हो जाने पर, बुधजनेषु = विद्वानों के, कञ्चन कोई, गजिनीस्थाननिवासी गजिनी देश में रहने वाला, महामदो यवनः = महामदशाली 'महमूद गजनवी' नामक मुसलमान, ससेनः = सेना के सहित, प्राविशत् प्रवेश किया, भारते वर्षे भारत वर्ष में। स च और वह, प्रजाः = प्रजाओं को, विलुण्ठ्य लूटकर, मन्दिराणि - देवतागृहों
प्रथमो निश्वासः
५९
को, निपात्य = गिराकर, प्रतिमाः मूतियों को, विभिद्य तोड़कर, परश्श-मनुष्यों को, दासीकृत्य दास बनाकर, तान् - सैकड़ों से अधिक, जनांव शतशः - सैकड़ों, उष्ट्रेषु ऊँटों पर, रत्नानि रत्नों को, आभूषणों को, आरोप्य - लादकर, स्वदेशम् अपने देश को, अनैषीत् = ले गया ।
/ हिन्दी – तब उस मुनि ने अर्थात् ब्रह्मवारि गुरु ने कहना प्रारम्भ किया-भगवन् ! धैर्य, हर्ष, प्रताप, तेज, वीरता, पराक्रम, शान्ति, शोभा, सुख, धर्म एवं विद्या के सहित श्रीमान् वीरविक्रमादित्य के परलोक चले जाने पर, धीरे-धीरे आपसी झगड़ों के कारण राजाओं के पारस्परिक स्नेह-बन्धनों के शिथिल हो जाने पर, वीर योद्धाओं के कामिनियों के कटाक्षों एवं हाव-भावों के प्रभाव में आकर सारी सम्पत्ति नष्ट कर देने पर, मन्त्रियों के केवल स्वार्थ साधन की चिन्ताओं में तल्लीन हो जाने पर, राजाओं के प्रशंसा-प्रिय हो जाने पर, विद्वानों के 'आप इन्द्र हैं, आप वरुण हैं, आप कुबेर हैं' इस प्रकार केवल | राजाओं की चाटुकारिता में तत्पर हो जाने पर, कोई गजिनी स्थान निवासी महमूद नामक यवन (मुसलमान) सेना सहित भारतवर्ष में प्रवेश किया। वह प्रजाओं को लूटकर, मन्दिरों को ध्वस्त करके, मूर्तियों को तोड़कर, सैकड़ों लोगों को दास बनाकर, सैकड़ों ऊँटों पर रत्न लादकर अपने देश को ले गया ।
टिप्पणी- इस गद्यखण्ड में 'धैर्य प्रसाद' आदि के साथ ही विक्रमादित्य ने स्वर्गलोक को समलंकृत किया है' इसका वर्णन होने पर सहोक्ति अलंकार है। साथ ही चूर्णक नामक गद्य, प्रसाद नामक गुण, पाञ्चाली नामक रीति, दैन्य-चिन्ता विषादादि भाव भी विद्यमान हैं ।। २१ ।।
एवं स ज्ञातास्त्रादः पौनःपुन्येन द्वादशवारमागत्य भारत-मलु-लुण्ठत् । तस्मिन्नेव च स्वसंरम्भे एकदा गुर्जरदेश चूडायितं सोमनाथ-तीर्थमपि धूलीचकार । अद्य तु तत्तीर्थस्य नामापि केनापि न स्मर्यते; परं तत्समये तु लोकोत्तरं तस्य वैभवमासीत् । तत्र हि महार्ह-वैदूर्य-पद्मराग माणिक्य-मुक्ताफलादि-जटितानि कपाटानि स्तम्भान्, गृहाव-ग्रहणीः, भित्तीः, वलभीः विटङ्कानि च निर्मथ्य, रत्ननिचयमादाय, शतद्वय-मणसुवर्ण-शृङ्खलावलम्बिनीं चञ्चच्चाकचक्य-चकितीकृताव-
शिवराजविजयः
लोचक-लोचन-निचर्या महाघण्टा प्रसह्य सङ्गृह्य, महादेवमूर्तावपि गदामुदत्तूतुलत् ।
व्याख्या - एवम् = अनेन प्रकारेण, सः महमूदगजनीनामा आक्रान्ता, ज्ञातास्वादः = विज्ञात लुण्ठनरसः, पौनःपुन्येनं भूयो भूयः, द्वादशवारम्, आगत्य = सम्प्राप्य, भारतम् एतन्नामकं देशम्, अलुलुण्ठत् लुण्ठितवान्, तस्मिन्नेव - लुण्ठनविषयक एव, स्वसंरम्भे निजोद्योगे, एकदा एकस्मिन् काले, गुर्जरदेशच्चूडायितम् = गुर्जरप्रदेश भूषणभूतम्, सोमनाथतीर्थमपि = सोम-नाथेश्वरविग्रहमपि, धूलीचकार = प्रणाशितवान् । अद्य तु सम्प्रति तु, तत्ती-र्थस्य = सोमनाथतीर्थस्य, नामापि अभिधानमपि, केनापि केनापि नागरि केन, न = नहि, स्मर्यंते स्मृतिपथं समानीयते, परम् किन्तु, तत्समये = तदानीन्तले काले, लोकोत्तरम् = सर्वलोकश्रेष्ठम्, तस्य सोमनाथमन्दिरस्य, वैभवम् = सम्पत्, आसीत् अवर्तत् । तत्र हि सोमनाथदेवायतने किल, महार्ह वैदूर्यपद्मरागमाणिक्य मुक्ताफलादिजटितानि बहुमूल्य वैदूर्यलोहितकमणि-मौक्तिकादिजटितानि, कपाटानि द्वाराणि, स्तम्भान् = स्थूणाः, गृहावग्रहणीः= गेहदेहलीः, भित्तीः = कुड्यानि, वलभीः गोपानसीः, विटङ्कानि च = कपोत-पालिकाश्र्च, निर्मथ्य = मथित्वा, रत्ननिचयम् माणिक्यसमुदयम्, आदाय = सङ्गृह्य, शतद्वयमणसुवर्णशृङ्खलावलम्बिनीम् = द्विशतमणहेमशृङ्खलावलम्बिनीम्, चञ्चच्चाकचक्यच कितीकृतावलोचकलोचननिचयाम् समुच्छलच्चाकचक्यविस्मेरी-कृतद्रष्टुजननेत्रसमूहाम्, महाघण्टाम् वृहदाकारघण्टिकाम्, प्रसह्य बलात्, सङ्गृह्य - समादाय, महादेवमूर्तावपि शङ्करविग्रहेऽपि, गदाम् शस्त्रविशेषाम्, उदतूतुलत् - उदतिष्ठिपत् ।
समासः - ज्ञातः आस्वादः येन सः ज्ञातास्वादः । गुर्जरदेशस्य चूडायितं गुर्जरदेशचूडायितम् । वैदूर्य पद्मरागं माणिक्यं मुक्ताफलं च वैदूर्यपद्मरागमाणिक्य-मुक्ताफलानि, महार्हाणि च वैदूर्यपद्मरागमालिक्यमुक्ताफलानि च महा ईंवैदूर्य-पद्मरागमाणिक्य मुक्ताफलानि, तानि आदी येषां तानि, तैः जटितानि महार्हवैदूर्य-माणिक्य मुक्ताफलादिजटिततानि । गृहस्य अवग्रहणीः गृहावग्रहणीः । रत्नार्ना निचयं रत्ननिचयम् । शतद्वयमणसुवर्णस्य शृङ्खलायाम् अवलम्बिनीं शतद्वयमण-सुवर्णशृङ्खलावलम्बिनीम् । चञ्चलाचाकचक्येन चकितीकृतः अवलोचकलोचनानां निचयः यया, तां चञ्चच्चाकचक्यच कितीकृतावलोचकलोचननिचयाम् । महादेव-स्य मूर्तावपि महादेवमूर्तावपि ।
प्रथमो निश्वासः
६१
कोषः - 'कालो दिष्टोऽप्यनेहापि समयः' इत्यमरः । 'स्तम्भौ स्थूणा-जडीभावो' इत्यमरः । 'गोपानसी तु वलभी' इत्यमरः । 'वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः' इत्यमरः ।
व्याकरणम् - पुनः पुनः इत्यस्य भावः पौनःपुन्यं, तेन पौनःपुन्येन । आगत्य - आ + गम् + क्त्वा + ल्यप् । अलुलुण्ठत्- लुठि स्तेये, चुरादिः + णिजन्तात् लुङ्, प्र० पु० ए० व० । चूडायितम् - चूडा इव आचारतीति चूडायते; चूडा + क्यङ् + क्त। धूलीचकार - अधूलि धूलि कृतवान्, धूलि + च्चि + कृ + लिट् 'च्त्रौ च' इति इकारदीर्घत्वम् । स्मर्यंते स्मृ कर्मवाच्य में यक्, लट् । निर्मथ्य - निर्+ मथ+ ल्यप् । प्रसह्य प्र सह + ल्यप् । उदत्तू-तुलत् - उत् + अवुवुलत्, तुल उन्माने चुरादिः + लङ् + तिप् ।
शब्दार्थ - एवं = इस प्रकार, सः उसने, ज्ञातास्वादः = लूटने का स्वाद जान लिया है जिसने, पौनः पुन्येन पुनः पुनः, द्वादशवारम् = बारह वार, आगत्य = आकर, भारतम् = भारतवर्ष देश को, अलुलुण्ठत् = लूटा । तस्मिन्नेव च = और उसी, स्वसंरम्भे निजोद्योगभूत अपने आक्रमण में, एकदा = एक समय, गुर्जरदेशचूडायितम् - गुजरातप्रदेश के चुडामणिस्वरूप, सोमनाथतीर्थमपि = सोमनाथ नामक तीथं को भी, धूलीचकार धूलि में मिलाकर विनष्ट कर दिया । अद्य तु = इस समय तो, तत्तीर्थस्य उस तीर्थ का, नामापि = नाम भी, केनापि किसी के द्वारा, न नहीं, स्मर्यंते स्मरण किया जाता है, परं - किन्तु, तत्समये तु = उस समय तो, तस्य उसी तीर्थ का, लोकोत्तरम् = अलौकिक, वैभवम् = सम्पत्ति, आसीत् थी, तत्र हि वहाँ पर निश्चय ही, महार्ह वैदूर्य पद्मरागमाणिक्य मुक्ताफलादिजटितानि बहुमूल्य मूँगे, पद्मराग, हीरे और मोतियों से जड़ा हुआ, कपाटानि किवाड़ों को, स्तम्भान् = स्तम्भों को, गृहावग्रह्णीः घर की देहलियों को, भित्तीः दीवालों को, वलभी = छज्जा को, विटद्धानि कपोतों के दरवों को, निर्मथ्य मथकर, रत्ननिचयम् रत्नसमूह को, आदाय लेकर, शतद्वयमणसुवर्णशृङ्खलावलम्बिनीम् = दो सो मन सोने के जंजीरों में लटकनेवाले, चञ्चच्चाकचक्यच कितीकृतावलोचक-लोचननिचयाम् - समुच्छलित चाकचिक्य से दर्शकगणों के नेत्रों को चकित कर देनेवाले, महाघण्टाम् = महाघण्टा को, प्रसह्य बलात्, सङ्गृह्य लेकर, महा-देत्रमूर्तावपि - महादेव के मूर्ति पर भी, गदाम् = गदा की, उदतूतुलत् उठाई ।
हिन्दी - इस प्रकार लुण्ठन का आस्वाद लग जाने पर उसने पुनः पुनः
६२
शिवराजविजयः
बारह बार आकर भारत को लूटा। अपने उसी उत्साह के वशीभूत होकर उगने एक बार गुजरात देश के मुकुट के समान सोमनाथतीर्य को भी धूल में मिला दिया। आज तो उस तीर्थ का नाम भी कोई याद नहीं करता. किन्तु उस समय उसका अलौकिक वैभव था। उसमें बहुमूल्य वैदूर्य, पद्मराग, माणिक्य तथा मोतियों से जड़े हुए किवाड़ों, खम्भों, देहलियों, दीवालों, छज्जों तथा कबूतरों के दरबों को नष्ट करके, रत्नों की राशि लेकर, दो सौ मन की सुवर्ण के शृङ्खलाओं में लटकनेवाले, अपने देदीप्यमान चमचमाहट से दर्शकगणों के नेत्रों में चकाचौंध समुत्पन्न कर देनेवाले विशाल घण्टे को भी बलपूर्वक छीन-कर, उसने महादेव की मूर्ति पर भी प्रहार करने के लिए गदा उठाई।
टिप्पणी- इस गद्यखण्ड में सोमनाथ मन्दिर के सातिशय वैभव का वर्णन करने से उदात्तालंकार हैं। अनुप्रास की छटा भी दर्शनीय है ।। २२ ।।
R
अथ "वीर ! गृहीतमखिलं वित्तम्, पराजिता आयंसेनाः, बन्दी-कृता वयम्, सञ्चतममलं यशः, इतोऽपि न शाम्यति ते क्रोधश्चेदस्मां-स्ताडय, मारय, छिन्धि, भिन्धि, पातय, मज्जय, खण्डय, कर्तय, ज्वलय; किन्तु त्यजेमामकिञ्चित्करी जडां महादेव-प्रतिमाम् । यद्येवं न स्वीकरोषि तद् गृहाणास्मत्तोऽन्यपि सुवर्णकोटिद्वयम्, त्रायस्व, मैनां भगवन्मूति स्त्राक्षीः" इति साम्रेडं कथयत्सु रुदत्सु पतत्सु विलुण्ठत्सु प्रणमत्सु च पूजकवर्गेषु; "नाहं मूर्तीर्तीवक्रीणामि, किन्तु भिनद्मि" इति सङ्गर्ज्य जनताया हाहाकार-कलकलमाकर्णयन् घोरगदया मूतिमतुत्रुटत् । गदापातसमकालमेव चानेकार्बुदपद्ममुद्रामूल्यानि रत्नानि मृतिमध्या-दुच्छलितानि परितोऽवाकीर्यन्त । स च दग्धमुखः तानि रत्नानि मूर्ति-खण्डानि च क्रमेलकपृष्ठेष्वारोप्य सिन्धुनदमुत्तीर्य स्वकीयां विजय-ध्वजिनीं गजिनीं नाम राजधानीं प्राविशत् ।
व्याख्या - अय = महादेवमूर्ती गदातोलनानन्तरम्, वीर ! = शूर ! गृहीतम् - स्वायत्तीकृतम्, अखिलं समस्तं, वित्तम् धनम्, पराजिता पराजयमधि-गता, आर्यसेनाः = आर्यपृतना, बन्दीकृता = निगडिताः, वयम् आर्याः, सञ्चितम् = सङ्कलितम्, अमलम् = स्वच्छम्, यशः कीर्तिः, इतोऽपि एतावत्सौभाग्य-लाभादपि, न = नहि, शाम्यति शान्तिमेति, ते तव, क्रोधः कोपः, चेत् - यदि, अस्मान् = पूजकगणान्, ताडय = प्रताडय, मारय = प्राणनाशं विधेहि,
प्रथमो निश्वासः
६३
छिन्धि विदारय, भिन्धि भेदय, पातय प्रंशस्व (पर्वतशिखरादपीति भावः), मज्जय = अवगाहय (पारावारतले - इति शेषः), खण्डय खण्डितं कुरु (शरीरमिति शेषः), कर्तय द्विधर्धा कुरु, देहमिति भावः, ज्वलय = वही दाहय, गात्रमिति भावः, किन्तु परन्तु, त्यज मुख, इमाम् समक्षस्थिताम्, अकिश्चित्करीम् न किचिदपि क्रियाशीलाम्, जडाम् चेतनाविरहिताम्, महादेवप्रतिमाम् - शिवविग्रहस्वरूपां मूतिम्। यदि चेत्, एवम् इत्यम्, न= नहि, स्वीकरोषि मन्यसे, तत् ताह, अस्मत्तः पूजकवृन्दात्, अन्यदपि -एतदधिकमपि, सुवर्णकोटिद्वयम् = कोटिद्वयकनकमुद्राम्, गृहाण अङ्गीकुरु, त्रायस्व रक्ष, एनाम् इमाम्, भगवन्मूतिम् शिवलिङ्गम्, मा = नहि, स्प्राक्षीः स्पर्श विधेहि, इति एवम्, साम्रेडम् सप्रश्रयं बहुशः, कथयत्सु बदत्सु, रुदत्सु विलापनिरतेषु, पतत्सु भूमितले निपतत्सु, विलुण्ठत्सु = महीमबलुण्ठत्सु, प्रणमत्सु प्रणामकुर्वत्सु, च, पूजकवर्गेषु शिवसेवकनिवहेषु, अहं - महमूदगजनीनामा, न नहि, मूर्तीः प्रतिमाः, विक्रीडामि = विक्रयं विदधामि, किन्तु = परन्तु, भिनद्मि त्रोटयामि, इति अनेन प्रकारेण, सङ्ङ्गज्य - गर्जनं विधाय, जनतायाः = लोकस्य, हाहाकारकलकलम्-हा-हा इत्या-कारकशब्दध्वनिम्, आकर्णयन् संशृण्वन्, घोरगदया भयङ्करगदया, मूर्तिम् = प्रतिमाम्, अतुत्रुटत्= त्रोटयामास । गदापातसमकालमेव गदाप्रहारसमकाल-मेव च, अनेकार्बुदपद्ममुद्रा मूल्यानि = बहुसङ्ख्य मूल्यानि, रत्नानि विविध-मौक्तिकमण्यादीनि, मूर्तिमध्यात् = शिवलिङ्गाभ्यन्तरात्, उच्छलितानि = उत्पतितानि, परितः समन्ततः, अवाकीर्यन्त प्रकीर्णानि सञ्जातानि, स च = महमूदश्व, दग्धमुखः महादुष्टः, तानि इतस्ततो विकीणितानि, रत्नानि = मौक्तिकानि, मूतिखण्डानि - शिवलिङ्गशकलानि, च, क्रमेलकपृष्ठेषु -उष्ट्रष्पृष्ठभागेषु, बारोप्य = संस्थाप्य, सिन्धुनदम् = एतन्नामिकां नदीम्, उत्तीर्य = उल्लङ्घय, स्वकीयां निजाम्, विजयध्वजिनीम्-जयपताकिनीम्, गजिनीम् = एतन्नामिकाम्, नाम, राजधानीम् शासन केन्द्रम्, प्राविशत् - जगाम ।
समासः - आर्याणां सेनाः आर्यसेनाः । सुवर्णस्य कोटिद्वयं सुवर्णकोटि-द्वयम् । महादेवस्य प्रतिमा महादेवप्रतिमा, ताम् महादेवप्रतिमाम् । पूजकानां वर्गेषु पूजकवर्गेषु । हाहाकारं च कलकलं च हाहाकारकलकलम् । घोरया गदया घोरगदया । गदापातस्य समकालं गदापातसमकालम् । अनेकानि अर्बुदपद्मानि मुद्राः मूल्यानि येषां तानि अनेकार्बुदपद्ममुद्रा मूल्यानि । मूर्तेः मध्यात् मूर्ति-
६४
शिवराजविलयः
मध्यात् । दग्धं मुखं यस्य सः दग्धमुखः । मूर्तेः खण्डानि मूतिलण्डानि। क्रमेल-कानों पृष्ठेषु क्रमेलकपृष्ठेषु । विजयध्वजः अस्ति यस्यां सा, तां विजय-ध्वजिनीम् । धीयते धार्यतेऽस्यामिति धानी, राज्ञो धानी राजधानी, तां राजधानीम् ।
कोषः 'विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्' इत्यमरः ।
'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्यं धनं वसु' इत्यमरः । 'ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः' इत्यमरः । 'यशः कीतिः समज्ञा च' इत्यमरः । 'कोपक्रोधा-ऽमर्षरोषप्रतिधा रुट्कुधौ स्त्रियों' इत्यमरः । 'आम्रेडितं द्विस्त्रिरुक्तम्' इत्यमरः ।
'रत्नं मणिद्वयोरश्मजातो मुक्तादिकेऽपि च' इत्यमरः । समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । 'उष्ट्रे क्रमेलकमयमहाङ्गाः' इत्यमरः ।
व्याकरणम् - गृहीतम् - ग्रह उपादाने क्त। पराजिता - पर + आ + जि+क्त । सञ्चितम् सम् + चि चयने क्त। अमलम्- न विद्यते मलं यस्मिन् तत् । ताडय, मारय- लोट्, मध्यमपुरुष ए० व० । अकिञ्चित्करीम्-किञ्चित् करोतीति किञ्चित्करी, किञ्चित् + कृ+ट + ङीप्, ततो नञ्समासः । बन्दोकृताः - बन्द + च्वि कृ + क्त। त्रायस्व-त्रै रक्षणे आत्मनेपद, लोट्, म० पु० ए० व० । मा स्त्राक्षीः भावश्च । कथयत्सु - कथ चुरादि, णिजन्तात् लङ् । विश् + लङ् (तिप्) । स्पृश् + लुङ् (निप्) - माङ्योगे लुङ् अड। गमा-शतृ, स० वि० ब० व० । अतुत्रुटत् श्रृट् छेदने उत्तीर्य उत्+ तृ + ल्यप् । प्राविशत्- प्र+
गई, आर्यसेनाः = वयम् - हम सब, यशः = कीति को, नहीं, शाम्यति = ताडय ताड़ना दो, भेदन करो, शब्दार्थ - अथ अनन्तर, वीर ! हे पराक्रमी ! गृहीतम् ले लिया, अखिलम् = सम्पूर्ण, वित्तम् घन को; पराजिता हार आर्यवंशीयों की सेना, बन्दीकृताः बन्दी बना लिये गये, सञ्चितम् = एकत्रित कर लिया है, अमलम् = स्वच्छ, इतोऽपि = इतने पर भी, ते तुम्हारा, क्रोधः कोप, न शान्त होता है, चेत् - यदि तो, अस्मान् हम सबों को, अर्थात् पोटो, मारय मारो, छिन्धि काट डालो, भिन्दि पातय- गिरा दो, अर्थात् पर्वत आदि से ढकेल दो, मज्जय डुबा दो, अर्थात् पानी में निमज्जित कर दो, खण्डय खण्ड-खण्ड कर डालो, कर्तय = कतर डालो, ज्वलय अग्नि में जला दो, किन्तु परन्तु, इमाम् = सम्मुख स्थित,
अकिश्चित्करीम् = कुछ न करने वाली, जडाम् = चेतनारहित, महादेवशति-
प्रथमो निश्वासः
६५
माम् भगवान् शङ्कर की मूर्ति को, त्यज छोड़ दो। यद्येवं - यदि इस प्रकार, न नहीं, स्वीकरोषि स्वीकार करते हो, तत्तो, अस्मत्तः = हम लोगों से, अन्यदपि = और भी, सुवर्णकोटिद्वयम् = दो करोड़ स्वर्ण मुद्राएँ, गृहाण से लो। त्रायस्व रक्षा करो, मा नहीं, एनाम् इस, भगवन्मू-तिम् - भगवान् शिव की प्रतिमा को, स्प्राक्षीः स्पर्श करो, इति - इस प्रकार से, साश्रेडम् पुनः-पुनः, पूजकवर्गेषु पुजारियों के समूह के, कथयत्सु कहने पर, रुदत्यु = रोने पर, पतत्तु पैरों के ऊपर गिरने पर, विलुण्ठत्सु -पृथ्वी पर लोटने पर, प्रणमत्यु प्रणाम करने पर, नाहं मैं नहीं, मूर्तीः = प्रतिमा को, विक्रीणामि = बेचता हूँ, किन्तु परन्तु, भिनधि = तोड़ता हूँ, इति इस प्रकार, सङ्गज्ये गर्जना कर, जनतायाः प्रजावर्ग की, हाहाकार-कलकलम् = 'हा-हा' इस प्रकार की ध्वनि को, आकर्णयन् = सुनते हुए, घोर-गदया भीषण गदा से, मूर्तिम् शिवलिङ्ग को, अनुत्रुटत्= तोड़ डाला । गदापातसमकालमेव - गदा गिरने के साथ ही, अनेकार्बुदपद्ममुद्रा मूल्यानि -अनेक अरब पद्म मुद्रा के मूल्य वाले, रत्नानि मणि-समूह, मूर्तिमध्यात् -मृति के बीच से, उच्छलितानि उछल पड़े, च और, परितः = चारों ओर, अवाकीर्यन्त बिखर गये, स च और वह, दग्धमुखः मुँहजला, तानि रत्नानि उन मणियों को, मूतिखण्डानि शिवलिङ्ग के टुकड़े को, च = और, क्रमेक्लकपृष्ठेषु - ऊँटों के पृष्ठभाग पर, आरोप्य लादकर, सिन्धुनदम् = सिन्धु नामक महती नदी को, उत्तीर्य पारकर, स्वकीयाम् अपनी, विजयध्वजि-नीम् = विजयपताकाओं से युक्त, गजिनीं नाम गजिनी नामक, राजधानीम् = राजधानी में, प्राविशत् - प्रवेश किया ।
हिन्दी - तदनन्तर हे वीर ! तुमने सारा धन ले लिया, आर्यों की सेना पराजित हो गई, हमलोगों को बन्दी बना लिया, स्वच्छ यश सञ्चित कर लिया। यदि इतने पर भी तुम्हारा कोप शान्त नहीं होता, तो हमलोगों को पीटी, मारो, चीर डालो, पर्वत से गिरा दो, समुद्र में बुबा दो, टुकड़े-टुकड़े कर डालो, कतर डालो, अग्नि में जला दो, किन्तु आपका कुछ न बिगाड़ने बाली महादेवजी की इस चेतनारहित (जड़) मूर्ति को छोड़ दो। यदि आपको यह भी स्वीकार न हो, तो हमलोगों से और भी दो करोड़ स्वर्ण मुद्राएँ ले लो, किन्तु रक्षा करो; भगवान् की इस मूर्ति को स्पर्श न करो। इस प्रकार पुजारियों के बार-बार कहने पर, रोने-बिलखने पर, पैरों के ऊपर
५ शि०
६६
शिवराजविजयः
गिरने पर, भूमि पर लोटने तथा प्रणाम करने पर भी, 'मैं मूति बेचता नहीं हूँ, अपितु तोड़ता हूँ' इस प्रकार गरजकर जन-समूह के हाहाकार के शब्द को सुनते हुए, उसने भयङ्कर गदा से शिवलिङ्ग को तोड़ दिया। गदा गिरने के साथ ही मूति में से अनेक अरब पद्म स्वर्णमुद्राओं के मूल्य के रत्न उछल पड़े तथा चारों ओर बिखर गये; और वह मुँहजला दुष्ट उन रत्नों और मूर्ति के टुकड़ों को ऊंटों की पीठ पर लादकर सिन्ध नामक विशाल नदी को पारकर, अपनी विजयपताकाओं से युक्त गजिनी नामक राजधानी में प्रविष्ट हुआ ।
टिप्पणी - इस गद्यखण्ड में पराजित हिन्दुओं की दुरवस्था के साथ ही भहमूद की क्रूरता और हठवादिता का सम्यक् वर्णन किया गया है। यहाँ चूर्णक नामक गद्य, प्रसाद नामक गुण, पाञ्चाली नामक रीति और दैन्य, चिन्ता, विषाद, त्रास आदि भाव दृष्टिगोचर होते हैं ।। २३ ।।
अथ कालक्रमेण सप्ताशीत्युत्तरसहस्रतमे (१०८७) वैक्रमाब्दे सशोकं सकष्टं च प्राणांस्त्यक्तवति महामदे, गोरदेशवासी कश्चित् शहाबुद्दीन-नामा प्रथमं गजिनीदेशमाक्रम्य, महामदकुलं धर्म-राजलोकाध्वन्यध्वनीनं विधाय, सर्वाः प्रजाश्च पशुमारं मारयित्वा, तद्रुधिरार्द्रमृदा गोरदेशे बहून गृहान् निर्माय चतुरङ्गिण्याऽनीकिन्या भारतवर्षं प्रविश्य, शीतलशोणितानप्यसयन् पञ्चाशदुत्तर-द्वादश-शतमितेऽब्दे (१३५०) दिल्लीमश्वयाम्बभूव ।
व्याख्या - अथ = गजिनीगमनानन्तरम्, कालक्रमेण समयचक्रेण, सप्ता-शीत्युत्तरसहस्रतमे = ( १०८७) एतत्सङ्ख्यके, वैक्रमाब्दे - विक्रमसंवत्सरे, सशोकं = शोकान्वितम्, सकष्टम् खेदसहितम्, च पुनः, प्राणान् असून्, त्यक्तवति = परित्यक्ते, महामदे महमूदनाम्ना जगति प्रथिते, गोरदेशवासी -गोरदेशवास्तव्यः, कश्वित् = कोऽप्येकः, शहाबुद्दीननामा - शहाबुद्दीनगोरीति नाम्ना जगति विश्रुतः, प्रथमम् पूर्वम्, गजिनीदेशम् सोमनाथ विध्वंसक-राजधानीम्, आक्रम्य = संरम्भ्य समाक्रम्येति वा, महामदकुलम् - महमूद-गजनीवंशम्, धर्मराजलो काध्वन्यध्वनीनं = कीनाशनिकेतनपान्थम्, विधाय = कृत्वा, सर्वाः प्रजाः तद्देशनिवासिनो निखिलाः जनताश्व, पशुमारं पशु-वन्मारम्, मारयित्वा = निहत्य, तद्रुधिरार्द्रमृदा प्रजारक्तार्द्रमृत्तिकया, गोरदेशे = गोरीशासितदेशे, स्वदेशे इति भावः, बहून् प्रचुरान्, गृहान् गेहान्,
प्रथमो निश्वासः
६७
निर्माय = विधाय, चतुरङ्गिण्या हस्त्यश्वरथपदातिकया, अनीकिन्या - वृत-नया, भारतवर्षम् - भारताख्यदेशम्, प्रविश्य प्रवेशं विधाय, शीतलशोणिता-नपि = अनुष्णरक्तानपि, असयन्- असिना हनन्, पञ्चाशदुत्तरद्वादशशत मिते-छब्दे = एतस्मिन् संवत्सरे, दिल्लीम् एतनामिकां नगरीम्, भारतस्य राजधानी-मिति भावः, अश्वैयाम्बभूव - तुरगैरतिचक्राम ।
कोषः - 'हस्त्यश्वरथपादातं सेनाङ्ग स्याच्चतुष्टयम्' इत्यमरः । 'अध्वनीनी-ऽध्वगोऽऽवन्यः पान्थः पथिक इत्यपि' इत्यमरः । 'संवत्सरोऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः । 'रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । 'घोटके पीतितुरगतुरङ्गाश्वतुरङ्गमाः' इत्यमरः ।
समासः- कालस्य समयस्य क्रमः गतिः, तेन कालक्रमेण । विक्रमस्याय-मिति वैक्रमः, वैक्रमश्वासौ अब्दः वत्सरः, तस्मिन् वैक्रमाब्दे । शोकेन सहितं यथा स्यात् तथा सशोकम् । कष्टेन सह सकष्टम् । धर्मराजस्य लोकः, तस्य बध्वनि अध्वनीनं धर्मराजलोकाध्वन्यध्वनीनम् । तेषां रुधिरेण आर्द्रा मृत्, तया तद्रुधिरार्द्रमृदा । शीतलं शोणितं येषां तान् शीतलशोणितान् ।
व्याकरणम् - त्यक्तवति- त्यज् + क्तवतु, सप्तमी एकवचन । आक्रम्य -बा + क्रम + क्त्वा + ल्यप् । अध्वनीनम् - अध्वानं मागंम् अलं गच्छतीति बध्वनीनः पान्थः, तम् अध्वनीनम्; 'अध्वनौ यत्खी' (पा० सू० ५।२।१६) । पशुमारम् - यथा पशुः मार्यते तथेत्यर्थः, 'उपमाने कर्मणि च' इति णमुल्, पशु + मृ + णमुल् । निर्माय- निर् + मा माने क्त्वा + ल्यप् । चतुरङ्गिण्या -चत्वारि (गज, रथ, तुरग, पदाति) अङ्गानि यस्याः सा, तया। अनीकिन्या-बनीकं रणोऽस्त्यस्याः सा तया । अनीक इनिः 'अत इनिठनौ'। 'विनापि तद्योगे तृतीया' सह का योग न होने पर भी उस अर्थ की प्रतीति के कारण यहाँ तृतीया विभक्ति हुई है। प्रविश्य प्रविश क्त्वा + ल्यप् । असयन् -असि + णिच् + शतृ । अश्वयाम्बभूव - अश्वैरतिचक्रामेत्याशयः, 'तेनातिक्रामति' इति णिच्, अश्व + णिच् + आम् + भू+ लिट्, प्रथमपुरुष एकवचन ।
शब्दार्थ - अथ इसके अनन्तर, कालक्रमेण समय की गति से, अर्थात् समय के फेर से, सप्ताशीत्युत्तरसहस्रत मे = एक हजार सतासी, वैक्रमाब्दे = विक्रमादित्य द्वारा प्रवर्तित संवत्सर में, सशोकं शोक के साथ, सकष्टं = कष्ट के सहित, च और, प्राणांस्त्यक्तवति प्राण त्याग देने पर, अर्थात् मर ज्ञाने पर, महामदे = महमूद गजनवी के, गोरदेशवासी = गोर देश में निवास
६८
शिवराजविजयः
करने वाला, कश्चित् = कोई एक, शहाबुद्दीननामा = शहाबुद्दीन नाम वाला, प्रथमम् = सबसे पहले, गजिनीदेशमाक्रम्य गजिनी देश पर आक्रमण करके, महामदकुलं = महमूद के वंश को, धर्मराजलोकाध्वनि - यमलोक के मार्ग का, अध्वनीनम् - पथिक, विधाय बनाकर, सर्वाः प्रजाश्व और समस्त प्रजाओं को, पशुमारं मारयित्वा = पशु के समान मारकर, तद्रुधिराईंमृदा उसके खुन से गीली मिट्टी से, गोरदेशे गोरदेश में, बहून् गृहान् निर्माय - बहुत घर बनाकर, चतुरङ्गिण्याऽनीकिन्या चतुरङ्गिणी सेना के साथ, भारतवर्षं प्रविश्य= भारत वर्ष में प्रवेश कर, शीतलशोणितानपि = ठण्डे रक्त वालों को भी, अर्थात् युद्ध की इच्छा से विरहित भारतीयों को भी, असयन् तलवार के घाट उतारता हुआ, पञ्चाशदुत्तरद्वादशशत मितेऽब्दे एक हजार दो सौ पचास संवत् में, दिल्लीम् - भारत की राजधानी दिल्ली पर, अश्वयाम्बभूव घुड़-सवार सेना से चढ़ाई कर दी।
हिन्दी - तत्पश्चात् कालक्रम से विक्रम संवत् १०८७ में शोक एवं कष्ट के साथ महमूद गजनवी के मृत्यु हो जाने पर, शहाबुद्दीन नामक किसी गोरदेश के निवासी ने पहले गजिनी देश पर आक्रमण करके, महमूद के वंश को यमराज के लोक के मार्ग का पथिक बनाकर और समस्त प्रजा को पशुओं के समान मारकर, उन्हीं के रक्त से गिली मिट्टी से गोरदेश में बहुत से घर बनवा कर, चतुरङ्गिणी सेना के सहित भारत में घुसकर युद्ध न चाहने वाले भारतीयों को भी तलवार के घाट उतारते हुए संवत् १२५० में घुड़सवार सेना के साथ दिल्ली पर चढ़ाई कर दी।
टिप्पणी - इस गद्यखण्ड में 'पशुमारं मारयित्वा' इस स्थान पर लुप्तो-पमा अलंकार है। यहाँ पर 'चक्रारपङ्क्तिरिव गच्छति भाग्यपक्तिः' इस सुभा-पित का समर्थन करते हुए कालक्रम से भाग्यचक्र के परिवर्तन का संकेत किया गया है ।। २४ ।।
ततो दिल्लीश्वरं पृथ्वीराजं कान्यकुब्जेश्वरं जयचन्द्रं च पार-स्परिकविरोध-ज्वर-ग्रस्तं विस्मृत-राजनीति भारतवर्ष-दुर्भाग्याय-माणमाकलय्यानायासेनोभावपि विशस्य, वाराणसीपर्यन्तमखण्ड-मण्डलमकण्टकमकीटकिटं महारत्नमिव महाराज्यमङ्गीचकार । तेन वाराणस्यामपि बहवोऽस्थिगिरयः प्रचिताः, रिङ्गत्तरङ्ग-भङ्गा
प्रथमो निश्वासः
१९
गङ्गाऽपि शोणित-शोणा शोणीकृता, परस्सहस्राणि च देवमन्दिराणि भूमिसात्कृतानि ।
स एव प्राधान्येन भारते यावनराज्याङ्कुराऽऽरोपकोऽभूत् । तस्यैव न कश्चित् क्रीतदासः कुतुबुद्दीननामा प्रथमभारतस म्राट् सञ्जातः ।
व्याख्या- ततः तदनन्तरम्, दिल्लीश्वरम् = दिल्ली प्रदेशाधिपतिम्, पृथ्वीराज म् = एतन्नामकं चौहानवंशीयभूपम्, कान्यकुब्जेश्वरम् - कन्नौजराज्य-शासकम्, जयचन्द्रम् = एतन्नामक भ्रातुरपकारिणश्व, पारस्परिकविरोधज्वर-ग्रस्तम् = अन्योऽन्य विरोधज्वराकलितचेतसम्, विस्मृतराजनीतिम् - भूपतिनय-ज्ञानशून्यम्, भारतवर्षंदुर्भाग्यायमाणम् = भारतवर्षस्य समायान्तं दुर्भाग्यम्, बकलय्य = ज्ञात्वा, अनायासेन सहजेन, उभौ अपि द्वावपि, पृथ्वी राज-जयचन्द्रावपीत्याशयः, विशस्य विनाश्य, वाराणसीपर्यन्तम् = वाराणसीं अकण्टकम् = विघ्नविरहितम्, महामणिमिव, महाराज्यम् = यावत्, अखण्डमण्डलम् = समस्तजनपदम्, बकीटकीट्टम् = कीट किट्टशून्यम्, महारत्नमिव विस्तृतं साम्राज्यम्, अङ्गीचकार स्वीचकार । तेन = आक्रामकेन शहाबुद्दी-नेन, वाराणस्यामपि - काशीपुर्यामपि, बहवः अत्यधिकाः, अस्थिगिरयः कीकसपर्वताः, प्रचिताः निर्मिताः, रिङ्गत्तरङ्गभङ्गा चश्वलोमिप्रचुरा, गङ्गाऽपि = भागीरथी अपि, शोणितशोणा रक्तरञ्जिता, शोणीकृता = शोण-नदतां प्रापिता, परस्सहस्राणि च सहस्रतोऽधिकानि, च, देवमन्दिराणि = देवायतनानि, भूमिसात्कृतानि धूलिसात्कृतानि, खण्डितानीति भावः ।
स एव = शहाबुद्दीन एव, प्राधान्येन प्रामुख्येन, भारते = एतन्नामके-ऽस्मिन् देशे, यवनराज्याङ्कुराऽऽरोपकः = यवनशासनस्य बीजारोपकः, अभूत् बासीत् । तस्यैव = शहाबुद्दीनस्यैव, च, कश्चित् एकः, क्रीतदासः- सेवकोऽनुचरो बा, कुतुबुद्दीननामा - एतन्नामकः, प्रथमभारतसम्राट् - आदिभारताधिपतिः, सञ्जातः = बभूव ।
कोषः - 'किट्ट मलोऽस्त्रियाम्' इत्यमरः । 'कीकसं कुल्यमस्थि च' इत्यमरः । 'मङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । 'गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि' ।। इत्यमरः ।
समासः - दिल्ल्याः ईश्वरं दिल्लीश्वरम् । कान्यकुब्जस्येश्वरं कान्यकुब्जे-श्वरम् । परस्परं भवः पारस्परिकः, तथाभूतो विरोधः वैरः, स एव ज्वरः, वेन
शिवराजविजयः
ग्रस्तः, तं पारस्परिकविरोधज्वरग्रस्तम् । राज्ञां नीतिः राजनीतिः, विस्मृता राजनीतिः येन, तं विस्मृतराजनीतिम् । भारतवर्षस्य दुर्भाग्यम्, तदिव आच-रतीति भारतवर्षदुर्भाग्यायमाणः, तं भारतवर्षदुर्भाग्यायमाणम् । न सन्ति कष्ट. कानि यस्मिन्, तादृशम् अकण्टकम् । न विद्यन्ते कीटाः (लक्षणया कीटै। कर्तनम् ) किट्टे मलं च यस्मिन् तादृशम् अकीटकिट्टम् । महत् रत्नमिति महा-रत्नम् । अस्थ्नां गिरयः अस्थिगिरयः । रिङ्गन्तः चलन्तः तरङ्गाणां वीचीनां भङ्गाः प्रकाराः यस्यां सा रिङ्गत्तरङ्गभङ्गा । शोणितेन रुधिरेण शोणा रक्तवर्णा इति शोणितशोणा । अशोणः शोणः कृता इति शोणीकृता । देवानां मन्दिराणि देवमन्दिराणि । प्रधानस्य भावः प्राधान्यं, तेन प्राधान्येन । यवनानामिदं सावनम्, यावनं राज्यं यावनराज्यम्, तस्य अङ्कुरः, तस्य आरोपकः संस्थापक इति यावनराज्याङ्कुरारोपकः । भारतस्य सम्राट् भारतसम्राट्, प्रथमश्चासौ भारतसम्राट् इति प्रथमभारतसम्राट् ।
व्याकरणम् - आकलय्य- आ + कल + क्त्वा + ल्यप् । विशस्य - वि + शस् हिसायाम् + ल्यप् । प्रचिताः प्र+चि क्त। सञ्जातः सम् + जनी प्रादुभवि + क्त ।
शब्दार्थततः = तदनन्तर, दिल्लीश्वरं पृथ्वीराजं दिल्ली सम्राट् पृथ्वी-राज को, कान्यकुब्जेश्वरं जयचन्द्रं कन्नौज के स्वामी जयचन्द्र को, पारस्प रिकविरोधज्वरग्रस्तम् = परस्पर फूट के ज्वर से ग्रस्त, विस्मृतराजनीतिम् -राजनीति को भूले हुए, भारतवर्षदुर्भाग्यायमाणम् - भारतवर्ष के दुर्भाग्य के समान आचरण करते हुए, आकलय्य जानकर, अनायासेन बिना अधिक प्रयास के ही, अर्थात् सरलता से, उभावपि पृथ्वीराज और जयचन्द्र दोनों 8 को भी, विशस्य = मारकर, वाराणसीपर्यन्तम् = काशी तक, अखण्डमण्डलम् -समस्त जनपद को, अकण्टकम् = निष्कण्टक, अकीटकिट्टम् = कीटानुविद्ध तथा मल से रहित, महारत्नमिव महारत्न के समान, महाराज्यम् विस्तृत राज्य को, अङ्गीचकार = स्वायत्त कर लिया, तेन उसने, वाराणस्यामपि काशी में भी, बहवः = अत्यधिक, अस्थिगिरयः हड्डियों के पहाड़, प्रचिताः = चुन दिये, रिङ्गत्तरङ्गभङ्गा चश्वल लहरों से व्याप्त, गङ्गाऽपि भागीरथी नदी भी, शोणितशोणा - रक्त से लाल करके, शोणीकृता सोन नदी बना दी गई, परस्सहस्राणि - हजारों से अधिक, चऔर, देवमन्दिराणि देवताओं के मन्दिरों को, भूमिसात्कृतानि गिट्टी में मिला दिये गये। स एव उसने ही,
प्रथमो निश्वासः
७१
प्राधान्येन = प्रमुख रूप से, भारते - भारतवर्ष में, यावनराज्याङ्कुराऽऽरोपकः मुसलमानों के राज्य का बीजारोपण करने वाला, अभूत् = हुआ, तस्यैव च उसी का ही, कश्चित् - कोई, क्रीतदासः गुलाम, कुतुबुद्दीननामा - कुतुबुद्दीन नामक, प्रथमः = पहला, भारतसम्राट् - भारत का राजा, सञ्जातः = बना ।
हिन्दी - तदनन्तर उसने दिल्ली के सम्राट् पृथ्वीराज तथा कन्नौज के अधिपति राजा जयचन्द को आपसी वैररूपी व्याधि से संपीडित एवं राजनीति श्री भूलकर भारत के दुर्भाग्य के समान आचरण करते हुए जानकर, सरलता से ही दोनों को मारकर, कीड़ों और मैल से अस्पृष्ट अर्थात् निर्मल, महान् रत्न के समान काशी तक फैले हुए समस्त जनपद सहित विस्तृत साम्राज्य को अपने अधीन कर लिया। उसने वाराणसी (काशी) में भी हड्डियों के बहुत-से पहाड़ लगा दिये । चंचल तरङ्गों वाली गङ्गा को भी उसने रक्तरञ्जित कर सोन नद बना दिया और हजारों से अधिक देवमन्दिर मिट्टी में मिला दिये ।
उसी ने प्रधान रूप से भारतवर्ष में मुसलमानों के राज्य का बीजारोपण किया। उसी का एक गुलाम, जिसका नाम कुतुबुद्दीन था, भारत का प्रथम समाद हुआ ।
टिप्पणी- हिन्दुओं की पराजय का प्रमुख कारण था आपसी वैरभाव । यहाँ 'विस्मृत राजनीति' शब्द से भूपतिश्रेष्ठ युधिष्ठिर की राजनीति की ओर संकेत किया गया है। उनकी राजनीति निम्न थी -
'वयं पञ्च वयं पञ्च वयं पञ्च शतञ्च ते । परैः साकं विवादे तु वयं पश्चोत्तरं शतम्' ।।
(युधिष्ठिरनीति)
इस गद्यखण्ड में 'महारत्नमिव' इस स्थल पर उपमा अलङ्कार है। 'अस्थि-गिरयः' यहाँ पर रूपकालङ्कार है। 'अकीटकिट्टम्' 'रिङ्गत्तरङ्गभङ्गा गङ्गा' 'शोणितशोणा शोणीकृता' आदि पदों में अनुप्रास की नैगिकी शोभा मनो-हारिणी है। इसी प्रकार माधुर्य, प्रसाद गुण तथा पाञ्चाली रीति यहाँ पर सन्दशित हो रही है ।। २५ ॥
तमारभ्याद्यावधि राक्षसा एव राज्यमकार्षुः । दानवा एव च दीनानदीदलन् । अभूत् केवलम् अकबरशाह-नामा यद्यपि गूढशत्रु-र्भारतवर्षस्य, तथापि शान्तित्रियो विद्वत्प्रियश्च । अस्यैव प्रपौत्रो
७२
शिवराजविजयः
सूतिमदिव कलियुगं, गृहीतविग्रह इव चाधर्मः, आलमगीरोपाधिधा अवरङ्गजीवः सम्प्रति दिल्लीवल्लभतां कलङ्कयति । अस्यैव पताका कैकयेषु मत्स्यैषु मगधेषु अङ्गेषु वङ्गेषु कलिङ्गेषु च दोधूयन्ते, केवल दक्षिणदेशेऽधुनाऽप्यस्य परिपूर्णो नाधिकारः संवृत्तः ।
व्याख्या - तमारभ्य - कुतुबुद्दीनात् प्रारभ्य, अद्यावधि - साम्प्रतं यावत राक्षसा एव = निर्देयाः धर्मविरोधिनो यवना एव, राज्यम् - शासनम्, अकार्षु विहितवन्तः, दानवा एव धर्मपरिपन्थिनो म्लेच्छा एव, दीनान् दुःखितान, बदीदलन् - अनाशयन्, अभूत् बभूव, केवलम् एकाकी, अकबरशाहनामा एतन्नामको भूपतिः, यद्यपि, गूढशत्रुः प्रच्छन्नरिपुः, भारतवर्षस्य एतन्नाम कस्यास्य देशस्य, तथापि, शान्तिप्रियः शमरतः, विद्वत्प्रियश्व पण्डितवल्ल भश्व, अभूदिति शेषः, अस्यैव अकबरस्यैव, प्रपोत्र. तनयस्थात्मजः, मूर्ति-मदिव = सविग्रह इव, कलियुगम् पातकप्रधानयुगं कलिकालम्, गृहीतविग्रहः= घृतवपुः, अधर्म इव = पाप इव, आलमगीरोपाधिधारी 'आलमगीर' इत्युप नाम्ना विश्रुतः, अवरङ्गजीवः = 'औरङ्गजेब' इत्यभिधानेन प्रथितः, सम्प्रति = इदानीम्, दिल्लीवल्लभताम् = दिल्लीश्वरताम्, कलङ्घयति = विदूषयति । अस्यैव = अवरङ्गजेबनाम्नः, पताकाः = ध्वजाः, केकयेषु पञ्जाबदेशेषु, मत्स्येषु राज पूतेषु, मगधेषु बिहारस्य दक्षिणभागेषु, अङ्गेषु बिहारस्य पूर्वभागेषु, बङ्गेष बङ्गालप्रदेशेषु, कलिङ्गेषु उड़ीसाप्रान्तेषु च, दोधूयन्ते पौनःपुन्येन समुच्छि यन्ते, केवलम् = एकः, दक्षिणदेशे अबाचीभागे, अधुनाऽपि इदानीमपि, य म्लेच्छाधिपतेरवर ङ्गजेबस्य, परिपूर्णः समग्ररूपेण, अधिकारः- प्रशास नाधिकारः, न नहि, संवृत्तः सञ्जातः ।
कोषः 'असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः' इत्यमरः । 'राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्त्रप आशरः' इत्यमरः। 'रिपौ वैरिसपत्नारिद्विषद्वेषणदुहृदः । द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।। अभिघातिपरारातिप्रत्यथिपरिपन्थिनः' इत्यमरः । 'एहि सम्प्रतीदानीमधुना साम्प्रतं तथा' इत्यमरः ।
समासः- गूढश्चासौ शत्रुश्व गूढशत्रुः । शान्तिः प्रिया यस्मै स शान्तिप्रियः । विद्वांसः प्रियाः यस्य सः विद्वत्प्रियः। मूर्तिः (रूपं) यस्यास्तीति मूर्तिमत् । कलेः युगं कलियुगम् । गृहीतः विग्रहः येन स गृहीतविग्रहः । उपाधि धारयतीति उपाधिघारी। दिल्ल्याः वल्लभः स्वामी, तस्य भावो दिल्लीवल्लभता, तां दिल्लीवल्लभताम् ।
प्रथमो निश्वासः
७३
व्याकरणम् - अकार्षुः - कृ + लुङ्+शि । अदीदलन्- दल विदारणे (बुरादिः) + लुङ् + नि । मूर्तिमत्- मूति + मतुप् । उपाधिधारी - उपाधि + घ् + णिनिः । दोधूयन्ते - धूञ् कम्पने क्रयादि यङ्+ प्र० पु० ब० व० । संवृत्तः सम् + वृतु वर्तने + क्त ।
शब्दार्थ - तमारभ्य = कुतुबुद्दीन से आरम्भ कर, अद्यावधि - आज तक, राक्षसा एव = राक्षसों ने ही, राज्यम् शासन, अकार्षुः = किया । दानवा एव= दानवों ने ही, च और, दीनान् दीनों को, अदीदलन् - विदीर्णं किया, अभूत् हुआ, केवलम् एक, अकबरशाहनामा अकबरशाह नामक, यद्यपि, गूढशत्रुः प्रच्छन्न रिपु, भारतवर्षस्य भारतवर्ष का, तथापि = फिर भी, शान्तिप्रियः = शान्तिप्रेमी, विद्वत्प्रियश्च और विद्वानों का स्नेही, अस्यैव = इसी का ही, प्रपौत्रः पुत्र का पुत्र अर्थात् नाती, मूर्तिमत्- मूर्तिमान्, कलि-युगम् इव कलियुग के समान, गृहीतविग्रहः इव = अधर्म की तरह, आलमगीरोपाधिधारी शरीरधारी, च और, अधर्म आलमगीर की उपाधि धारण करने वाला, अवरङ्गजीवः औरङ्गजेब नामक, सम्प्रति इस समय, दिल्ली-बल्लभतां दिल्ली के स्वामीभाव अर्थात् शासन को, कलङ्कयति = कलङ्कित कर रहा है, अस्यैव इसी के ही, पताकाः झण्डे, केकयेषु केकय देश में अर्थात् पंजाब प्रदेश में (झेलम और चिनाव नदियों के मध्यभाग को केकय कहा जाता था), मत्स्येषु राजस्थान प्रदेश में (इन्द्रप्रस्थ से पश्चिम, दूष-द्वती से दक्षिण तथा रेगिस्तान से पूर्व का भाग मस्त्य देश कहलाता था। अब इसका नाम राजपूताना है।), मगधेषु दक्षिण बिहार में (बिहार प्रदेश का दक्षिणी भाग 'गया' आदि स्थान मगध कहलाता था।), अङ्गेषु अङ्ग प्रान्त में (गङ्गा के दक्षिण में संस्थित पूर्वी बिहार अर्थात् 'भागलपुर' का क्षेत्र 'बङ्ग' कहा जाता था।), बङ्गेषु बङ्गाल प्रदेश में, कलिङ्गेषु = उड़ीसा प्रान्त में, दोघूयन्ते - फहरा रहे हैं, केवलम् एक, दक्षिणदेशे दक्षिण देश में, बघुनाऽपि अब भी, अस्य इस औरङ्गजेब का, परिपूर्णः समग्ररूप से, न = नहीं, अधिकारः शासन, संवृत्तः हो पाया है।
हिन्दी - तब से अर्थात् कुतुबुद्दीन से आरम्भ कर आज तक इन राक्षसों (यवनों) ने ही राज्य किया। दानव-गण ही दीन भारतीयों की हत्या कर रहे हैं। केवल अकबर बादशाह ही शान्तिप्रिय और विद्वानों का सम्मान करने बाला था, यद्यपि वह भी भारतवर्ष का प्रच्छन्न रिपु था। इसी का प्रपौत्र
७४
शिवराणविजयः
अर्थात् नाती, 'आलमगीर' उपाधिधारी औरङ्गजेब, जो मानो मूर्तिमान् कलियुग अथवा शरीरधारी अधर्म ही है, इस समय दिल्ली के सम्राट् पद को कलङ्कित कर रहा है। उसी के अण्डे केकय (झेलम और चिनाव नदियों के मध्य का भाग, पंजाब), मत्स्य (राजस्थान), मगध (दक्षिण बिहार), बङ्ग (पूर्वी बिहार), बङ्गाल और कलिङ्ग (उड़ीसा) में फहरा रहे हैं। केवल दक्षिण देश में इस समय भी इसका पूरा अधिकार ( शासन) नहीं हो पाया है।
टिप्पणी- इस गद्यखण्ड में 'मूतिमदिव कलियुगम्' (मानो कलियुग की मूति हो) 'गृहीतविग्रह इव चाधर्मः' (मानो शरीरधारी अधर्म हो) आदि स्थलों पर सम्भावना करने के कारण 'उत्प्रेक्षा' बलङ्कार है ।। २६ ॥
2
दक्षिणदेशो हि पर्वतबहुलोऽस्ति, आण्यानीसङ्कुलश्चास्तीति चिरो-योगेनापि नायमशकत्महाराष्ट्रकेसरिणो हस्तयितुम् । साम्प्रतमस्यै-बाऽऽत्मीयो दक्षिणदेश-शासकत्वेन “शास्तिखान" नामा प्रेष्यत इति श्रूयते । महाराष्ट्रदेशरत्नम्, यवन-शोणित-पिपासाऽऽकुलकृपाणः, वीरता-सीमन्तिनी-सीमन्त-सुन्दर-सान्द्र-सिन्दूर-दान-देदीप्यमानदोर्दण्ड, मुकुट-मणिर्महाराष्ट्राणाम्, भूषणं भटानाम्, निधिर्नीतीनाम्, कुलभवनं कौशलानाम्, पारावारः परमोत्साहानाम्, कश्चन प्रातः स्मरणीयः, स्व-धर्माऽऽग्रह-ग्रह-ग्रहिलः, शिव इव धृतावतारः शिववीरश्वास्मिन् पुण्य-नगरान्नेदीयस्येव सिहदुर्गे ससेनो निवसति । विजयपुराधीश्वरेण साम्प्रत-मस्य प्रवृद्धं वैरम् । "कार्य वा साधयेयं देहं वा पातयेयम् !" इत्यस्य सारगर्भा महती प्रतिज्ञा । सतीनाम्, सताम्र, त्रैणिकस्य आर्यकुलस्य, धर्मस्य भारतवर्षस्य च आशा-सन्तान-वितानस्यायमेवाऽऽश्रयः । इयमेव बर्तमाना दशा भारतवर्षस्य । किमधिकं विनिवेदयामो योग-बलावगत-सकल-गोप्यतम-वृत्तान्तेषु योगिराजेषु" इति कथयित्वा विरराम ।
ब्याख्या - दक्षिणदेशः भारतवर्षस्य दक्षिणप्रदेशः, हि निश्चयेन, पर्वत-बहुलोऽस्ति - गिरिप्रचुरो विद्यते, अरण्यानीसङ्कुलः महदरण्यव्याप्तः, च पुनः, अस्ति - बर्तते, इति अनेन हेतुता, चिरोद्योगेनापि बहुप्रयासेनापि, न- नहि, अयम् - अवरङ्गजेबः, अशकत् समों बभूव, महाराष्ट्रकेशरिणः=
प्रथमो निश्वास।
७५
महाराष्ट्रसिहान्, हस्तयितुम् वशीकर्तुम, साम्प्रतम् एर्ताह, अस्यैव -अवरङ्गजेबस्यैव, आत्मीयः बहुसम्मतः प्रियः, दक्षिणदेशशासकत्वेन = महा-राष्ट्रप्रभृतिदक्षिणप्रदेशप्रशासकत्वेन, 'शास्तिखान' नामा 'शाइस्ता खाँ' इति संज्ञया प्रथितः, प्रेष्यते = सम्प्रेष्यते, इति एवं, श्रूयते = समाकण्र्ण्यते, महाराष्ट्र-देशरत्नम् - महाराष्ट्रादिप्रदेशचूडामणिम्, यवनशोणितपिपासाऽऽकुलकृपाणः = मोहमदरक्तपानेच्छाऽऽकुलासिकः, वीरतासीमन्तिनी सीमन्तसुन्दरसान्द्र सिन्दूर-दान देदीप्यमान दोदंण्डः = शूरताङ्गना केशवेशसुन्दरधननागकेशरचर्चनदेदीप्यमान-भुजदण्डः, मुकुटमणिः = शेखररत्नम्, महाराष्ट्राणां = महाराष्ट्रप्रदेशवास्तव्या-नाम्, भूषणम् - अलङ्कारः, भटानां शूराणाम्, निधिः कोषः, नीतीनाम् = नयानाम्, कुलभवनं - कुलगृहम्, कौशलानाम् दक्षतानाम्, पारावारः = सागरः, परमोत्साहानाम् - श्रेष्ठोत्साहानाम्, कश्चन कोऽपि, प्रातः स्मरणीयः = बहुमानार्हः, स्वधर्माऽऽग्रहगृहग्रहिलः = सनातनधर्मदृढपरिपालकः, शिव इव = शङ्कर इव, घृतावतारः अङ्गीकृतावतारः, शिववीरश्च = 'शिवाजी' इति नाम्ना प्रथितश्व, अस्मिन् = समीपस्थे, पुण्यनगरात्- 'पूना' इति प्रसिद्धान्न-गरात्, नेदीयस्येव सन्निकटे एव, सिहदुर्गे सिहगढनाम्ना प्रथिते स्थाने, ससेनः = सबलः, निवसति = वासं विदधाति । विजयपुराधीश्वरेण विजयपुरशासकेन, साम्प्रतम् = अधुना, अस्य शिववीरस्य, प्रवृद्धम् = प्रकृष्टरूपेण समुपबृ' हितम्, वैरम् = शत्रुत्वम् । कार्य स्वतन्त्रताप्राप्तिरूपकर्म, वा अथवा, साधयेयम् = सिद्धं विधास्यामः, देहं शरीरम्, वा अथवा, पातयेयम् नष्टं करिष्यामः, इति = एवम्प्रकारिका, अस्य शिववीरस्य, सारगर्भा सारसमन्विता, महती -भीषणा श्रेष्ठा वा, प्रतिज्ञा सङ्कल्पः । सतीनां कुलव्रतानाम्, सताम् = सज्जनानाम्, त्रैवणिकस्य - ब्राह्मणक्षत्रिय वैश्यस्य, आर्यकुलस्य आर्यपरि-वारस्य, धर्मस्य सनातनाख्यस्य, भारतवर्षस्य हिन्दुस्थानस्य, च = पुनः, आशासन्तान वितानस्य = आशा परम्परा विस्तारस्य, अयमेव शिववीर एव, आश्रयः = आधारः । इयमेव एषैव, वर्तमाना साम्प्रतिकी, दशा अवस्था, भारतवर्षस्य - हिन्दुस्थानस्य, अस्तीति शेषः, किमधिकम् कियद् विपुलम्, विनिवेदयामः - संसूचयामः, योगबलावगतसकलगोप्यतमवृत्तान्तेषु - ध्यानबल-ज्ञातसकलरहस्यमयोदन्तेषु, योगिराजेषु योगिवर्येषु, भवादृशेष्विति भावः, इति = एवम्प्रकारेण, कथयित्वा निगद्य, विरराम मौनमाकलयांमास, ब्रह्म-चारिगुरुरिति भावः ।
30
शिवराजविजयः
समासः पर्वतैः बहुलः पर्वतबहुलः । महद् अरण्यम् अरण्यानी, तया सङ्कुलः व्याप्तः, अरण्यानीसङ्कुलः । महाराष्ट्राः केसरिण इव, तान् महाराष्ट्र-केसरिणः । हस्ते कर्तुम् इति हस्तयितुम् । दक्षिणदेशानां शासकत्वेन दक्षिणदेश-शासकत्वेन । महाराष्ट्रश्वासौ देशश्व, तस्य रत्नं महाराष्ट्रदेशरत्नम् । यवनानां शोणितस्य पिपासाकुलः कृपाणः खड्गो यस्य सः यवनशोणितपिपासाकुल-कृपाणः । दोः भुजः दण्ड इवेति दोर्दण्डः, वीरता एव सीमन्तिनी ललना, तस्याः सीमन्ते केशवेशे, यत् सिन्दूरं, सान्द्रसिन्दूरस्य प्रोज्ज्वलसिन्दूरस्य दानम् अर्पणं, तेन देदीप्यमानः प्रकाशमानः (जाज्वल्यमानः) दोर्दण्डः यस्य सः बीरता सीमन्तिनीसीमन्तसुन्दरसान्द्र सिन्दूरदान देदीप्यमानदोदंण्डः । मुकुटमणिः । स्वधर्माय आग्रहः, तस्य गृहे ग्रहिलः स्वधर्माऽऽग्रह्मग्रहिलः । मुकुटस्य मणिः घृतः अवतारो येन स घृतावतारः । अतिशयेन अन्तिकः इति नेदीयान्, तस्मिन् नेदीयसि । सेनया सहितः इति ससेनः । विजयपुरस्य अधीश्वरेण विजयपुराधी-श्वरेण । सारः गर्भे यस्याः सा सारगर्भा। आशानां सन्तानं परम्परा व्रातः (समूह) इति यावत्, तस्य वितानः विस्तारः, तस्य आशासन्तानवितानस्य। योगस्य बलेन अवगताः विज्ञाताः सकलाः गोप्यतमाः गूढतमाः वृत्तान्ताः यैस्तेषु तादृशेषु वा योगबलावगतसकल गोप्यतमवृत्तान्तेषु ।
कोषः - 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । 'एहि सम्प्रती-दानीमधुना साम्प्रतं तथा' इत्यमरः । 'खड्गे तु निस्त्रिशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्' इत्यमरः । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । 'समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः' इत्यमरः ।
व्याकरणम् - अरण्यानी- अरण्य आनुक् ङीष् । हस्तयितुम् - हस्ते करोतीति हस्तयति, हस्त + णिच् + रम + लिट् + तिप् ।
शब्दार्थ - दक्षिणदेशः दक्षिणी प्रान्त, हि निश्चितरूप से, पर्वतबहुलो-ऽस्ति = गिरि-प्राचुर्य से युक्त है, च और, अरण्यानीसङ्कुलोऽस्ति = महद अरण्य से व्याप्त है, इति इस कारण, चिरोद्योगेनापि चिरकाल तक प्रयास करने पर भी, अयम् - यह औरङ्गजेब, महाराष्ट्रकेशरिणः श्रेष्ठ मराठियों को, हस्तयितुम् = अपने अधीन करने में, न नहीं, अशकन् समर्थ हुआ । साम्प्रतम् - इस समय, अस्यैव इसी औरङ्गजेब का ही, आत्मीयः स्वजन, दक्षिणदेशशास कत्वेन = दक्षिणी प्रदेश के शासक के रूप में, प्रेष्यते भेजा जा
७७
रहा है, इति ऐसा, श्रूयते सुनाई पड़ता है। महाराष्ट्रदेश रत्नम् महा-राष्ट्र देश के रत्नस्वरूप, यवतशोणितपिपासाऽकुलककृपणः यवनों के रक्क की प्यास से व्याकुल सगवाले, वीरतासीमन्तिनीसी मस्तसुन्दरसान्द्रविन्दूर धानदेदीप्यमानदोर्दण्डः - वीरताच्यी नायिका की माँग में सुन्दर बना बिन्दूर लगाने से देदीप्यमान भुजाओं वाले, मुकुटमणिः महाराष्ट्राणाम् मराठों के सुकुटमणि, भूषणं भटानाम् वीरों के अलंकारस्वरूप, निधिर्मीतीनाम् भीतियों के आकर (खजाना), कुलभवनं कौशलानाम् - निपुणताओं के कुल-भवन अर्थात् आश्रय, पारावारः परमोत्साहानाम् परमीत्साह के सागर, कश्चन कोई, प्रातःस्मरणीयः प्रातः स्मरण के योग्य अर्थात् पूज्य, स्व-धर्माऽऽग्रहग्रहग्रहिलः - अपने धर्म को हठ से भी पालन में दृढतर, शिव इव घृतावतारः - शिव के समान अवतार धारण किये हुए, शिववीरः- शिवाजी, अस्मिन् पुष्यनगरान्नेदीयस्येव इस पूना नगर के अत्यन्त समीप में ही, सिह-दुर्गे - सिंहगढ़ दुर्ग (किला) में, ससेनः सेना के साथ, निवसन्ति निवास करता है। विजयपुराधीश्वरेण बीजापुर के राजा के साय, साम्प्रतम् = इस समय, अस्य इनकी, वैरम्-शत्रुता, प्रवृद्धम् बढ़ी हुई है, कार्य वा साधयेयं देहं वा पातयेयम्- 'या तो कार्य सिद्ध करूँगा या शरीर को नष्ट कर दूँगा' इति - इस प्रकार से, अस्य इनकी, सारगर्भा= सारगर्भित अर्थात् महत्त्वपूर्ण, महती विशाल, प्रतिज्ञा संकल्प है। सतीनाम् = पतिव्रताओं के, सतां सज्जनों के, त्रैवणिकस्य (ब्राह्मण, क्षत्रिय, वैश्य इन तीन वर्ष बाली, बार्यकुलस्य बार्य जाति के, धर्मस्य सनातन धर्म के, भारतवर्षस्य = भारत वर्ष के, च और, आशासन्तानवितानस्य - आशा-समूह के विस्तार के, बर्यात् विविध बाशाओं के बयमेव यहीं, आश्रयः आधार हैं। इयमेव = यही, वर्तमाना दशा आधुनिकी अवस्था, भारतवर्षस्य भारतवर्ष की है, किमधिकं विनिवेदयामः अधिक क्या निवेदन करें, योगबलावगतसकलगोप्य-तमवृत्तान्तेषु योग के वल से समस्त गूढ़ वृत्तान्तों को जान लेने वालों के लिए, इति - इस प्रकार, कथयित्वा कहकर, विरराम मौन हो गये ।
हिन्दी-केवल दक्षिण देश निश्चय ही पर्वतों का प्राचुर्य और घने जंगलों से व्याप्त है। इस कारण बहुत अधिक प्रयास करते के बाद भी वह महाराष्ट्र केसरी को जीत नहीं सका। अब सुना जाता है कि उसी का सगा-सम्बन्धी 'शाइस्ता खाँ' दक्षिण देश का शासक बनाकर भेजा जा रहा है। महाराष्ट्र
७८
शिवराजविजयः
देश के रत्न, यवनों (मुसलमानों) के रुधिर की प्यासी तलवार वाले वीरता रूपी स्त्री की माँग में सुन्दर और घना सिन्दूर लगाने से देवीष्यमान भुजाओं वाले, मराठों के मुकुट के रत्नस्वरूप अर्थात् सर्वश्रेष्ठ, वीरों के आभूषण, नीति के निधान, निपुणताओं के आश्रय, परम उत्साहों के समुद्र, अपने धर्म की आग्रहपूर्वक रक्षा करने में दूढ़ अवतार धारण किये हुए शिव के समान कोई प्रातःस्मरणीय शिवाजी इस पूना नगर के अति समीपवर्ती सिहदुर्ग में सेना सहित निवास कर रहे हैं। बीजापुर के शासक से इस समय उनका बैर अत्यन्त बढ़ा हुआ है। 'या तो कार्य पूरा करूंगा या शरीर को नष्ट कर दूँगा' यह उनकी सारगर्भित दृढ़ प्रतिज्ञा है। वही सतियों (पतिव्रताओं), सज्जनों, तीन वर्षों (ब्राह्मण, क्षत्रिय, वैश्य) वाली आर्य जाति, धर्म तथा भारतवर्ष की विविध आशाओं के आश्रय हैं। यहीं भारतवर्ष की वर्तमान दशा है। योग के बल से समस्त गूढ़तम वृत्तान्तों को जान लेने वाले योगिराज आपसे अधिक क्या कहूँ ? ऐसा कहकर ब्रह्मचारिगुरु चुप हो गये ।
टिप्पणी- 'महाराष्ट्रकेशरिणः' इस पद में 'केशरी' पद श्रेष्ठता का वाचक है। यथा- 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठायंगोचराः' ।। (अमरकोष) 'वीरतासीमन्तिनीसीमन्त सुन्दरसान्द्र सिन्दूरदानदोर्दण्डः' इस स्थल पर वीरता रूपी नायिका के माँग में सिन्दूर लगाने के कारण वीरता में नायिका का आरोप होने से रूपकालङ्कार है। शब्द साम्य होने से यहाँ श्रुत्यनुप्रास भी है। 'शिव इव धूतावतारः' इस वाक्य में उत्प्रेक्षालङ्कार दृष्टिगोचर होता है ।। २७ ॥
तदाकर्ण्य विविध-भाव-भङ्ग-भासुर-वदनो योगिराजो मुनिराजं तत्सहचरांश्च निपुणं निरीक्ष्य, तेषामपि शिववीरान्तरङ्गतामङ्गीकृत्य, मुनिवेषव्याजेन स्वधर्मरक्षाव्रतिनश्चोररीकृत्य "विजयतां शिववीरः, सिद्धयन्तु भवतां मनोरथाः" इति मन्दं व्याहार्षीत् ।
व्याख्या - तत् = ब्रह्म चारिगुरुकथितं देशावस्थाचित्रणम्, आकण्यै -निशम्य, विविधभावभङ्गभासुरवदनः नैकविधभावभङ्गिमादेदीप्यमानलपनः, योगिराजः योगिवरः, मुनिराजं ब्रह्मचारिगुरुम्, तत्सहचरांश्च मुनिराज सहवासिनश्च, निपुणम् - सुष्ठुप्रकारेण, निरीक्ष्य निर्वर्ण्य, तेषामपि = सह-चराणामपि, शिववीरान्तरङ्गताम् = शिववीरलीनमानसिकताम्, अङ्गीकृत्य -
७९
स्वीकृत्य, मुनिवेषस्याजेन साधुवातिनःनिर्मलक इतशीलिनः, उररीकृत्य अङ्गीकृत्य, वियताम् विर्वलताम् शिवीर शिवाजीनाम्या प्रचितः शूरः सिद्धचन्तु परिपूर्णाः भवन्तु भवताम् श्रीमताम्, मनोरथा - अभिलाषाः, इति एवम्प्रकारेण, मन्दम् अनुचैः, व्याहार्षीत् अकथयत् ।
समासः - विविधानां भावानां भङ्गः मदैः भासुरं दीप्यमानं वदनं मुर्ख यस्य सः विविधभावभङ्गभासुरवदनः। योगिनां राजा इति योगिराजः । तस्व मुनेः सहचराः सहायाः तत्सहचराः, तान् तत्सहत्ररान् । विवीरस्य अन्तरङ्गतां शिवबीरान्तरङ्गताम् । मुनेः वेषस्य व्याजेन मुनिवेषभ्याजेन । स्वस्य धर्मध्व रक्षया बतिनः स्वधर्मरक्षाव्रतिनः ।
कोषः 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । 'अब दोहदम् । इच्छाऽऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरयः । कामोऽभिलायस्तर्षश्च' इत्यमरः ।
क्त्वा + ल्यप् । निरीक्ष्य - निर् + + लुङ् प्र० पु० ए० ब०। ब्याकरणम् - आकण्यं - आङ् कर्ण ईक्ष + ल्यप् । व्याहार्षीत् वि + आ +
कथन को सुनकर, विविधभावभङ्ग-शब्दार्थ - तदाकर्ण्य - योगिराज के भासुरवदनः- विविध भाव-भङ्गियों से प्रकाशमान मुखवाले, योगिराजः = योगियों के स्वामी, मुनिराजम् मुनिश्रेष्ठ को, तत्सहचरांश्च और उनके सहायकों को, निपुणं बच्छी तरह से, निरीक्ष्य देखकर, तेषामपि = उन सहचरों के भी, शिववीरान्तरङ्गताम् शिवाजी की अन्तरङ्गता को, बङ्गी-कृत्य = स्वीकार कर, मुनिवेषव्याजेन मुनि (ऋषि) के वेष के बहाने से, स्वधर्मरक्षाव्रतिनः - अपने धर्म की रक्षा में कटिबद्ध, उररीकृत्य जानकर, बिजयतां शिववीरः शिवाजी विजय प्राप्त करें, भवतां आप लोगों की, मनोरथाः इच्छाएँ, सिद्धधन्तु पूर्व होवे, इति इस प्रकार से, मन्दं धीरे से, व्याहार्षीत् = कहा।
हिन्दी - यह सुनकर विविध भाव-भङ्गियों से प्रकाशमान मुखवाले योगि-राज ने मुनिराज तथा उनके साथियों को ध्यान से देखकर तथा ये भी वीर शिवाजी के अन्तरङ्ग लोग हैं एवं मुनिवेष के बहाने से अपने धर्म की रक्षा करने में कटिबद्ध हैं, ऐसा जानकर 'बीर शिवाजी की जय हो, आप लोगों के मनोरथ पूर्ण हों' ऐसा धीरे से कहा ।। २८ ।।
८०
शिवराजविजयः
अथ "किमपि पिपृच्छिषामी"ति शनैरभिधाय बद्धकरसम्पुटे सोत्कण्ठे जटिलमुनो "अवगतम्, यवनयुद्धे विजय एव, वैवादापग्रस्तो ऽपि च सखिसाहाय्येनाऽऽत्मानमुद्धरिष्यति" इति समभाणीत् । मुनिश्व 'गृहीतमि'त्युदीर्य, पुनः किञ्चिद् विचार्येव स्मृत्वेव च, दीर्घमुष्णं निःश्वस्य, रोरुध्यमानैरपि किश्चिदुद्गतैर्वाष्पविन्दुभिराकुलनयनो "भगवन् ! प्रायो दुर्लभो युष्मादृक्षाणां साक्षात्कार इत्यपराऽपि पृच्छा-ऽऽच्छादयति माम" इति न्यवेदीत् । स च "आम् ! ऊरीकृतम, जीवति सः, सुखेनैवाऽऽस्ते" इत्युदतीतरत् । अथ "तं कदा द्रक्ष्यामि" इति पुनः पृष्टवति "तद्विवाहसमये द्रक्ष्यसि" इत्यभिधाय, बहूनि सान्त्वना-वचनानि च गम्भीरस्वरेणोक्त्वा, सपदि उपत्यकाम्र, गण्डशैलान् अधि-त्यकां चाऽऽरुह्य पुनस्तस्मिन्नेव पर्वतकन्दरे तपस्तप्तुं जगाम ।
व्याख्या - अथ = आशीर्वादप्राप्त्यनन्तरम्, किमपि किश्चिदपि, पिपृच्छि षामि = प्रष्टुमभिलपामि, इति इत्थम्, शनैः मन्दम्, अभिधाय = निगद्य, बद्धकरसम्पुटे = बद्धाञ्जलो, सोत्कण्ठे साभिलाषे, जटिलमुनी = ब्रह्मचारि-गुरौ, अवगतम् = विज्ञातम्, यवनयुद्धे तुरुष्कसङ्गरे, विजय एव जय एव, वैवात् = दिष्टात्, आपद्यस्तोऽपि विपद्मस्तोऽपि च, सखिसाहाय्येन = सुहृत्सहकारेण, आत्मानम् स्वम्, उद्धरिष्यति उद्धारं विधास्यति, इति = एवम्, समभाणीत् = अकथयत्, मुनिः ब्रह्मचारिशिक्षकः, च पुनः, गृहीतम् = बुद्धम्, इति एवम्, उदीयं कथयित्वा पुनः भूयः, किञ्चित् = किमपि, विचाय्यैव विचारं विधायेव, स्मृत्वेव च संस्मरणं कृत्वेव च, दीर्घम् -आयतम्, उष्णम् - उष्णतामयश्व, निःश्वस्य उच्छ्वासं गृहीत्वा, रोरुध्यमानै-रवि = पौनः पुन्येनावरुध्यमानैरपि, किञ्चिदुङ्गतैः ईषन्निः सृतैः, बाष्पबिन्दुभिः= अश्रुकणैः, आकुलनयनः व्याकुललोचनः, भगवन्! महात्मन् ! प्रायः = सामान्यतया, युष्मादृक्षाणां भवत्सदृशानां, साक्षात्कारः दर्शनम्, इति = अनेन हेतुना, अपराऽपि अन्याऽपि, पृच्छा प्रश्नेहा, आच्छादयति - आवृ-णोति, माम् = ब्रह्मचारिगुरुम्, इति एवम्, न्यवेदीत् = सम्प्रार्थयामास, स च योगिराजः, आम् - विज्ञातम्, ऊरीकृतम् अङ्गीकृतम्, जीवति सः जीवनं दधाति पुरुषविशेषः, सुखेनैव शर्मणैव, आस्ते विद्यते, इति एयम्, उदती-तरत् - प्रतिवचनं दत्तवान्, अथ अनन्तरं, तं पुरुषविशेषं, कदा कस्मिन्
प्रथमो निश्वासः
८१
काले, द्रक्ष्यामि = अवलोकयिष्यामि, इति इत्यम्, पुनः भूयः, पृष्ठवति = सम्पृष्टे सति, तद्विवाहसमये = तदुद्वाहकाले, द्रक्ष्यसि अवलोकयिष्यसि, इवि = एवम्, अभिधाय = प्रोच्य, बहूनि अनेकानि, सान्त्वनावचनाति - आश्वासन-इचांसि, च, गम्भीरस्वरेण धीरवचसा, उक्त्वा कथयित्वा सपदि तत्काल मेव, उपत्यकाम् = अधोऽधः पर्वतम्, गण्डशैलान् च्युतस्थूलोपलान्, अधित्व-काम् = उपर्युपरि पर्वतम्, आरुह्य आरोहणं विधाय, च, पुनः भूयः, तस्मिन्नेव पूर्ववणिते, पर्वतकन्दरे शैलगुहायाम्, तपस्तप्तुम् तपस्यां विधातुम्, जगाम अगच्छत् ।
समासः - बद्धः करयोः सम्पुटो येन सः, तस्मिन् बद्धकरसम्पुटे । उत्कण्ठया सहितः इति सोत्कण्ठः, तस्मिन् सोत्कण्ठे । जटिलश्वासौ मुनिश्व, तस्मिन् जटिलमुनौ । यवनानां युद्धे यवनयुद्धे । आपद्भिः प्रस्तोऽपि आपग्रस्तोऽपि । सहायस्य भावः साहाय्यम्, सखीनां साहाय्यं, तेन सखिसाहाय्येन । बाष्पा बिन्दुभिः बाष्पबिन्दुभिः । आकुले नयने यस्यासौ आकुलनयनः । यूयमिव दृश्यन्ते इति युष्मादृक्षाः, तेर्षा युष्मादृक्षाणाम् । तस्य विवाहस्य समये तद्विवाह-समये । सान्त्वनायाः वचनानि सान्त्वनावचनानि । गम्भीरेण स्वरेण गम्भीर स्वरेण । पर्वतस्य कन्दरे पर्वतकन्दरे ।
कोषः - 'पश्वशाखः शयः पाणिः' इत्यमरः । 'बलिहस्तांशवः कराः' इत्य-मरः । 'प्रायो भूम्न्यद्रुते शनैः' इत्यमरः, । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । 'स्राग्झटित्यञ्जसाऽह्लाय द्राङ्मङ्क्षसपदि द्रुते' इत्यमरः । 'उपत्यकाब्रेरासन्ना भूमिरूष्वंमधित्यका' इत्यमरः । 'गण्डशैलास्तु च्युताः स्थूलोपलागिरेः' इत्यमरः । 'दरी तु कन्दरो देवखातबिले ग्रहणगह्वरम्' इत्यमरः ।
व्याकरणम् - विपृच्छिषामि - प्रच्छ सन् + लट् + मिप्। अभिधाय -अभि + घा + क्त्वा + ल्यप् । अवगतम् अव गम् + क्त । उद्धरिष्यति -उद् + हर् + णिच् + लट् + तिप् । समभाणीत्- सम् + भण् + लुङ् + तिप् । रोरुध्यमानैः - रुध् + यङ् + शानच् । उद्गतैः उद्+ गम् + क्त । पृच्छा -पृष्ठ + अङ् + टाप् । आच्छादयति - आ + छद् + लट् + तिप् । न्यवेदीत् -नि + विद् + लुङ् + तिप् । उदतीतरत्- उद्+ तृ णिच् + लुङ् + तिप् ।
शब्दार्थ - अथ अनन्तर, किमपि कुछ, पिपृच्छिषामि = पूछना चाहता है, इति = ऐसा, शनैः धीरे से, अभिधाय कहकर, बद्धकरसम्पुटे = हाथ जोड़ लेने पर, सोत्कण्ठे उत्कण्ठा से युक्त, जटिलमुनी जटाधारी मुनि
६ शि०
८२
शिवराजविजयः
के, अवगतम् जान लिया, यवनयुद्धे मुसलमानों के युद्ध में, विजय एव विजय हो होगी, देवात् दुर्भाग्य से, आपग्रस्तोऽपि विपत्ति से ग्रनित होने पर भी, सखिसाहाय्येन = मित्रों की सहायता से, आत्मानम् = अपने को, उद्धरिष्यति = उबार लेगा, इति इस प्रकार, समभाणीत् = कहा। मुनिश्च मुनि ने, गृहीतम् ग्रहण कर लिया, इति ऐसा, उदीर्य = कहकर, पुनः = फिर, किञ्चिद कुछ विचाय्यैव जैसे कुछ विचार करके, स्मृत्वेव च = जैसे कुछ स्मरण करके, दीर्घमुष्णम् = दीर्घ और गरम, निःश्वस्य - साँस लेकर, रोरुध्यमानैरपि अत्यन्त रोके जाने पर भी. किचि-दुङ्गतैः = कुछ-कुछ निकल आये हुए, बाष्पबिन्दुभिराकुलनयनः = आँसुओं को बूंदों में व्यात नेत्रों वाले, भगवन्! महात्मन् ! प्रायो दुर्लभः सामान्यतया दुर्लभ है, युष्मादृक्षाणां वाप जैतों का, साक्षात्कारः दर्शन, इति मतः, अपराऽरि = दूसरी भी, पृच्छा पूछने की इच्छा, आच्छादयति संप्रेरित कर रही है, माम् - मुझको, इति ऐसा, न्यवेदोत् निवेदन किया। स च और वह, आम् - हाँ, ऊरीकृतम् स्वीकार किया, जीवति सः वह जीवन धारण कर रहा है, सुखेनैवाऽऽस्ते सुखपूर्वक है, इति इस प्रकार से, उदती-तरत् = उत्तर दिया । अय अनन्तर, तं कदा द्रक्ष्यामि उसे कब देखूंगा, इति = ऐसा, पुनः पृष्टवति फिर पूछने पर, तद्विवाहसमये द्रक्ष्यसि - उसके विवाह के समय देखोगे, इति इस प्रकार, अभिधाय कहकर, बहूनि सान्त्वनावचनानि च और बहुत-से सान्त्वना वचन, गम्भीरस्वरेण गम्भीर स्वर से, उक्त्वा = कहकर, सपदि तत्क्षण, उपत्यकाम् पर्वत के समीप की निचली भूमि, तलहटी, गण्डशैलान् पर्वत से गिरी हुई बड़ी-बड़ी शिलाओं, अधित्यकाम् = पर्वत के ऊपर की भूमि पर, आरुह्यचड़कर, पुनस्तस्मिन्नेव = फिर उसी, पर्वतकन्दरे - पर्वत की गुफा में, तपस्तप्तुम् = तपस्या करने के लिए, जगाम चले गये ।
हिन्दी-इसके अनन्तर 'मैं कुछ पूछना चाहता हूँ' ऐसा धीरे से कहकर जटाधारी मुनि के उत्सुकतापूर्वक हाथ जोड़कर बैठने पर योगिराज ने कहा-मैं समझ गया, मुसलमानों के साथ युद्ध में विजय ही होगी। दैववश आपत्ति में पड़ने पर भी अपने मित्रों की सहायता से अपने को समुद्धृत कर (उबार) लेगें। मुनि ने भी 'समझ लिया' यह कहकर फिर कुछ विचारते हुए और स्मरण करते हुए-से, लम्बे और गरम साँस लेकर, निरन्तर रोके जाने पर भी
प्रयमो निश्वासः
८३
कुछ निकल आये हुये अश्रुबिन्दुओं से भरे हुए नेत्रों से कहा- भगवन् । आप जैसे महात्माओं के दर्शन प्रायः दुर्लभ होते हैं। अतः एक और जिज्ञासा (प्रवन पूछने की इच्छा) मुझे विवश कर रही है। योगिराज ने उत्तर दिया हाँ, समझ गया, यह जीवित है, सुखपूर्वक है। तदनन्तर 'उसके कब दर्शन होंगे' यह पुनः पूछने पर 'उसके विवाह के समय देखोगे' ऐसा कहकर और गम्भीर स्वर से बहुत-से सान्त्वनापूर्ण वचन समुच्चारित कर योगिराज तत्क्षण पर्वत की तलहटी, फिर पर्वत से गिरे हुए शिलाखण्डों और पुनः पहाड़ के ऊपर की भूमि पर चढ़कर पर्वत की उसी गुफा में तपस्या करने के लिए चले गये ।
टिप्पणी- इस गद्यखण्ड में 'विचाय्यैव, स्मृत्वेव' इत्यादि स्थल पर उत्प्रेक्षालंकार है ।। २९ ।।
ततः शनैः शनैनियतिष्वपरिचितजनेषु, संवृत्ते च निर्मक्षिके, मुनि-गौरबटुमाहूय, विजयपुराधीशाऽऽज्ञया शिववीरेण सह योद्धं ससेनं अस्थितस्य अपजलखानस्य विषये यावत् किमपि प्रष्टुमियेष, तावत् पादचारध्वनिमिव कस्याप्यश्रौषीत् । तमवधार्याऽन्यमनस्के इव मुनौ गौरबटुरपि तेनैव ध्वनिना कर्णयोः कृष्ट इव समुत्थाय, निपुणं परितो निरीक्ष्य, पर्यटथ, 'कोऽयम् ?' इति च साम्रेडं व्याहृत्य, कमप्यनव-लोक्य, पुर्नानवृत्य, 'मन्ये मार्जारः कोऽपि' इति मन्दं गुरवे निवेद्य, पुनस्तथैवोपविवेश । मुनिश्व 'मा स्म कश्चिदितरः श्रौषीत्' इति सशङ्कः क्षणं विरम्य पुनरुपन्यस्तुमारेभे -
व्याख्या- ततः = योगिराजगमनानन्तरम्, शनैः शनैः मन्दं मन्दम्, नियतिषु निर्गतेषु, अपरिचितजनेषु - अज्ञातकुलशीलमानवेषु, संवृत्ते - जाते च, निर्मक्षिके जनशून्ये, मुनिः ब्रह्मचारिगुरुः, गौरबटुम् - गौरवर्णब्रह्म-चारिणम्, आहूय आमन्त्र्य, विजयपुराधीशाज्ञया - विजयपुराधिपादेशेन, शिवबीरेण 'शिवाजी' इति नाम्ना प्रथितेन महाराष्ट्राधीश्वरेण, सह-साकम्, योद्युम् - सङ्गरकरणाय, ससेनं सबलम्, प्रस्थितस्य विहितप्रस्था-नस्य, अफजलखानस्य एतन्नामकस्य, विषये सम्बन्धे, मावत् यस्मिन् काले, किमपि = किश्चित्, प्रष्टुम् जिज्ञासितुम्, इयेष इच्छितवान्, तावत् तस्मिन्नेव काले, पादचारध्वनिमिव चरणोद्भूतशब्दमिव, कस्यापि भज्ञात जनस्य, अश्रौषीत् - धृतवान् । तम् ध्वनिम्, अवधार्य-विज्ञाय, अन्यमनस्के
८४
शिवराजविजयः
बिरसे, इव = यथा, मुनौ = ब्रह्मचारिगुरौ, गौरबटुरपि गौरब्रह्मचारी अनि, तेनैव = श्रुतेनैव, ध्वनिना = शब्देन, कर्णयोः = धोत्रयोः, कृष्ट इव समाङ्गष्ट इव, समुत्याय = उत्तिष्ठितो भूत्वा, निपुणं सुष्ठुतया, परितः समन्ततः, निरीक्ष्य - विलोक्य, पर्यटध परिभ्रम्य, कोऽयम् कः विद्यते, इति एवम्प्रकारेण, च = पुनः, साम्रेडम् = वारं वारम्, व्याहृत्य = प्रोच्य, कमपि = कञ्चिदपि, अनवलोक्य अदृष्ट्वा पुनः भूयः, निवृत्त्य प्रत्यागत्य, मन्ये = ननुमितोमि, मार्जारः - बिडालः, कोऽपि कश्चिदपि, इति एवम्, मन्दम् शनैः, गुरवे - मुनये, निवेद्य निवेदनं विधाय, पुनः भूयः, तथैव तेनैव प्रकारेण, उपविवेश = समुपविष्टवान् । मुनिः ब्रह्मचारिगुरुः, च- पुनः, मा स्म कश्चिदितरः श्रौषीत् न कोऽप्यन्यः शृणुयात्, इति एवम्, सशङ्कः = नाशङ्कितः सन्, क्षणं किञ्चित्कालम्, विरम्य विरामं कृत्वा, पुनः भूयः, रुपन्यस्तुम् - कथयितुम्, आरेभे आरब्धवान् ।
समासः न परिचिता अपरिचिता, अपरिचिताश्च ते जनाश्च, तेषु अपरिचितजनेषु । मक्षिकाणामभावो निर्मक्षिकम्, तस्मिन् निर्मक्षिके । विजय-पुरस्य अधीशः, तस्य आज्ञया विजयपुराधीशाज्ञया । सेनया सहितं यथा स्यत्तथा ससेनम् । पादयोः चारस्य ध्वनिः पादचारध्वनिः, तं पादचारध्वनिम् । बन्यस्मिन् मनो यस्य सः अन्यमनस्कः, तस्मिन् अन्यमनस्के । शङ्कया सहितः इति सशङ्कः ।
कोषः 'कर्णशब्दग्रहो श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः। 'समन्त-तस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः । 'ओतुविडालो मार्जारो वृषदंशक भाखुभुक्' इत्यमरः ।
व्याकरणम् - नियतिषु - निर्+या+क्त, स० ब० । संवृत्ते - सम् + वृत् + क्त, स० ए० । योद्युम् - युध् + तुमुन्। प्रस्थितस्य प्र स्था+ क्त, षष्ठी ए० । प्रष्टुम् - प्रच्छ+ तुमुन् । इयेष - इष इच्छायाम् + लिट् + तिप् । सवधायें - अव + धृ + णिच् + ल्यप् । समुत्याय-। सम् + उद् + स्था + ल्यप् पर्यट्य - परि + अट गती + ल्यप् । व्याहृत्य - वि + आ + हु + ल्यप् । अनवलोक्य - अन + अव + लोक + ल्यप् । उपन्यस्तुम् - उप + नि + अस् + तुमुन् । आरेभे-आ + रभ लिट् ।
शब्दार्थ ततः तदनन्तर, शनैः शनैः धीरे-धीरे, जाने पर, अपरिचितजनेषु अपरिचित लोगों के, संवृत्ते नियतिषु = चले हो जाने पर,
प्रणमो निश्वासः
८५
निर्मक्षिके निर्जन अथवा एकान्त, मुनिः ब्रह्मचारी गुरु ने, गौरवटुम् गौरवर्ण के ब्रह्मचारी को, आहूय बुलाकर, विजयपुराधीशाऽऽजया विजय-पुराधिपति की आज्ञा से, शिवबीरेण सह - शिवाजी के साथ, योद्युम् = युद्ध करने के लिए, ससैनम् = सेना के सहित, प्रस्थितस्य चल चुके हुए, अफजल-खानस्य विषये = अफजलखान के सम्बन्ध में, यावत्- जब तक, किमपि -कुछ, प्रष्टुम् इयेष = पूछने की इच्छा की, तावत्= तब तक, पादचारध्वनि-मिय- पैरों के चलने की ध्वनि की तरह, कस्यापि - किसी का, अश्रीपीत् सुनाई पड़ा । तम् = उस शब्द को, अवधार्य सुनकर या जानकर, अन्यमनस्के इय अन्यमनस्क की तरह हो जाने पर, मुनी ब्रह्मचारिगुरु के, गौरबटुरषि गौर वर्णवाला ब्रह्मचारी भी, तेनैव ध्वनिना उसी ध्वनि से, कर्णयोः कानों के, कृष्ट इव = आकृष्ट हुए के समान, समुत्थाय उठकर, निपुणम् = अच्छी तरह से, परितः चारों ओर, निरीक्ष्य देखकर, पर्यटय परिभ्रमण कर, कोऽयम्- यह कौन है ? इति ऐसा, च और, साम्रेडम् बार-बार, व्याहृत्य कहकर या पुकारकर, कमपि किसी को भी, अनवलोक्य = न देखकर, पुनः फिर, निवृत्त्य लौटकर, मन्ये अनुमान करता हूँ, मार्जारः कोऽपि = कोई बिडाल है, इति ऐसा, मन्दं धीरे से, गुरवे गुरुजी से, निवेद्य = निवेदन कर, पुनः फिर, तथैव उसी प्रकार से, उपविवेश = बैठ गया, मुनिश्व = और ब्रह्मचारी गुरु, मा स्म कश्चिदितरः श्रौषीत् = कोई दूसरा न सुन ले, इति इस कारण से, सशङ्कः शङ्कित होकर, क्षणम् = कुछ समय तक, विरम्य रुककर, पुनः फिर, उपन्यस्तुम् = कहना, आरेभे = बारम्भ किया ।
हिन्दी - तदनन्तर धीरे-धीरे अपरिचित जनों के चले जाने पर, जब एक-दम एकान्त हो गया, मुनि ने गौरबटु को बुलाकर, बीजापुर के शासक की आज्ञा से शिवाजी के साथ युद्ध करने के लिए सेना सहित चल चुके हुए अफजलखान के सम्बन्ध में जैसे ही कुछ पूछना चाहा, त्यों ही किसी के पैरों की ध्वनि सुनाई दी। उसे सुनकर मुनिजी के अन्यमनस्क हो जाने पर, गौर-बटु भी उसी ध्वनि से आकृष्ट हुआ-सा होकर तथा वहाँ से उठकर, चारों ओर अच्छी तरह देखकर, परिभ्रमण कर, 'कौन है?' ऐसा कई बार कहकर किसी को न देखकर, फिर लौटकर 'मालूम होता है, कोई बिल्ली है' ऐसा धीरे से गुरुजी से निवेदन कर फिर उसी प्रकार बैठ गया। मुनिराज ने भी
८६
शिवराजविजयः
'कोई दूसरा न सुन ले' ऐसी शङ्का से ग्रस्त होकर क्षण भर रुककर फिर कहना प्रारम्भ किया ।
टिप्पणी- इस गद्यांश में प्रयुक्त 'निर्मक्षिके' शब्द का आशय एकान्त से है। मक्षिका मानवसञ्चाररहित देश में रहती है, अतः उनके अभाव से जन-शून्यता द्योतित होती है। 'अन्यमनस्के इव मुनो' इस स्थल पर उत्प्रेक्षा अलङ्कार है ।। ३० ।।
"वत्स गौरसिंह ! अहमत्यन्तं तुष्यामि त्वयि, यत् त्वमेकाकी अपजलखानस्य त्रीनश्वान् तेन दासीकृतान् पञ्च ब्राह्मणतनयांश्च मोचयित्वा आनीतवानसीति । कथं न भवेरीदृशः ? कुलमेवेदृशं राजपुत्रदेशीयक्षत्रियाणाम्" । तावत् पुनरश्रूयत मर्मरः पादक्षेपश्च । ततो विरम्य, मुनिः स्वयमुत्थाय, प्रोच्चं शिलापीठमेकमारुह्य, निपुणतया परितः पश्यन्नपि कारणं किमपि नावलोकयामास चरणाक्षेपशब्दस्य । अतः पुनरेकतानेन निपुणं निरीक्षमाणेन गौर-सिहेन दृष्टं यत् कुटीर-निकटस्थ-निष्कुटक-कदलीकूटे द्वित्रास्तरवो-ऽतितरां कम्पन्ते इति ।
व्याख्या- वत्स गौर सिंह ! पुत्र गौरसिह ! अहं ब्रह्मचारिगुरुः, अत्यन्तम् = भृशम्, तुष्यामि प्रसन्नोऽस्मि, त्वयि त्वदुपरि, यत् = यतो हि। त्वम् = गौरसिहः, एकाकी केवलः, अफजलखानस्य - एतन्नामकयवनवीरस्य, त्रीन् = त्रिसङ्ख्यकान्, अश्वान् हयान्, तेन अफजलखानेन, दासीकृतान् = दासरूपेणाङ्गीकृतान्, पञ्च पञ्चसङ्ख्यकान्, ब्राह्मणतनयांश्च द्विजबालकांश्च, मोचयित्वा = मुक्तान् विधाय, आनीतवानसि उपस्थापितवानसि इति । कथं न भवेरीदृशः = कथमीदृग्विधः न स्याः, कुलमेव वंशमेव, ईदृशम् = एतादृशम्, राजपुत्रदेशीय क्षत्रियाणाम् = 'राजपूताना' इति संज्ञया प्रथितस्य क्षत्रियाणां प्रदेशस्य वास्तव्यानाम् । तावत् तस्मिन्नेव समये, पुनः भूयः अश्रूयतः श्रुतिमापतत्, मर्मरः = शुष्कपर्णध्वनिः, पादक्षेपश्च चरणसञ्चारश्च । ततः तदनन्तरम्, विरम्य - क्षणं स्थित्वा, मुनिः ब्रह्मचारिगुरुः, स्वयम् आत्मना, उत्थाय - उत्थानं विधाय, प्रोच्चम् बहून्नतम्, शिलापीठम् दृषत्फलकम्, एकम् - अन्यतमम्, आरुह्य अध्यारुह्य, निपुणतया सावधानतया, परितः= समन्ततः, पश्यन्नपि - अवलोकयन्नपि, कारणम् हेतुम्, किमपि किश्चिदपि,
प्रथमो निवासः
८७
मावलोकयामास = नापश्यत्, चरणाक्षेपशब्दस्य पादनिक्षेपध्वनेः । अतः हेतुनानेन, पुनः भूयः, एकतानेन एकचित्तेन, निपुणम् = सावधानम्, निरीक्षमाणेन = पश्यता, गौसिहेन - गौरब्रह्मचारिणा, दृष्टम् - अवलोकितम्, यत्, कुटीरनिकटस्थनिष्कुटककदली कूटे = पर्णशालासमीपस्थगृहा रामरम्भा समूहे, द्विषाः द्वौ त्रयो वा, तरवः वृक्षाः, अतितराम् अधिकतराम्, कम्पन्ते वेपन्ते, इति ।
समासः - ब्राह्मणानां तनयान् ब्राह्मणतनयान् । राजपुत्रदेशीयानो क्षत्रि-याणां राजपुत्रदेशीयक्षत्रियाणाम् । पादयोः क्षेपः पादक्षेपः । शिलायाः पीठं शिलापीठम् । चरणयोः आक्षेपे शब्दः, तस्य चरणाक्षेपशब्दस्य । कुटीरस्य निकटस्थाः निष्कुटकाः, तेषु कदलीनां कूटे कुटीरनिकटस्थ निष्कुटककदलीक्कूटे । द्वौ वा त्रयो वा द्वित्राः ।
कोषः - 'घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः । वाजिवाहावंगन्धर्वहय-सैन्धवसप्तयः' ।। इत्यमरः । 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । 'द्विजात्म-ग्रजन्मभूदेववाडवाः । विप्रश्च ब्राह्मणः' इत्यमरः । 'अथ मर्मरः । स्वनिते वस्त्र-पर्णानाम्' इत्यमरः । 'समन्ततस्तु परितः सर्वतो विश्वगित्यपि' इत्यमरः । 'गृहारामास्तु निष्कुटाः' इत्यमरः ।
व्याकरणम् - मोचयित्वा मुच् + णिच् + क्त्वा । आनीतवान् - आ + नी + क्त + क्तवतु । ईदृशम् - इदमिव दृश्यते इति ईदृशम्, इदम् + दृश् + कञ् । विरम्य वि+रम् + ल्यप् । निरीक्षमाणेन - निर् + ईक्ष + शानच् (तृ०) । दृष्टम् + दृश् + क्त। अतितराम् अति + तरप् ।
शब्दार्थ - वत्स गौरसिंह ! हे पुत्र गौरसिंह ! अहम् मैं ब्रह्मचारि गुरु, अत्यन्तम् = अत्यधिक, तुष्यामि प्रसन्न हूँ, त्वयि तुम पर, यत् = बोकि, त्वम् = तुम गौसिंह, एकाकी अकेले, अफजलखानस्य = अफजल-खान के, त्रीनश्वान् - तीन घोड़ों को, तेन दासीकृतान् अफजलखान के द्वारा भृत्य बनाये गये, पञ्चव पाँच, ब्राह्मणतनयांश्च द्विजबालकों को, मोचयित्वा = छुड़ाकर, आनीतवानसि ले आये हो, कथं न भवेरीदृशः तुम ऐसे क्यों न होगे, कुलमेव वंश ही, ईदृशं इस प्रकार, राजपुत्रदेशीय क्षत्रियाणाम् = राजपूत देश के क्षत्रियों का है, तावत् उसी समय, पुनः फिर, अश्रूयत सुना, मर्मरः मर्मर ध्वनि, पादक्षेपश्च और पैरों का शब्द, ततः तदनन्तर, विरम्य = क्षण भर रुककर, मुनिः ब्रह्मचारी गुरु, स्वयम् = अपने से, उत्थाय
शिवराजविजयः
उठकर, प्रोन्नतम् = अत्यन्त ऊँचे, शिलापीठम् = शिलाखण्ड पर, एकम् - एक, मारुह्य = चढ़कर, निपुणतया = सावधानीपूर्वक, परितः चारों ओर, पश्यन्नपि देखते हुए भी, कारणं किमपि किसी कारण को, नावलोकयामास नहीं देखा, चरणाक्षेपशब्दस्य - पैरों की आहट के शब्द का, अथ इसके अनन्तर, पुनः = फिर, एकतानेन एकाग्र चित्त से, निपुर्ण अच्छी तरह, निरीक्षमाणेन गौरसिहेन = देखनेवाले गौरसिह ने, दृष्टम् देखा, यत् = कि, कुटीरनिकटस्थ-निष्कुटककदली कूटे = कुटी के समीप में संस्थित गृहवाटिका के कैलों के समूह में, द्वित्राः दो या तीन, तरवः कदलीपादप, अतितराम् = अधिकतर, कम्पन्ते = काँप या हिल रहें हैं।
हिन्दी - हे पुत्र गौरमिह । मैं तुम पर अत्यन्त प्रसन्न हूँ। क्योंकि तुम अकेले ही अफजलखान के तीन घोड़ों और उसके द्वारा दास (नृत्य) बनाये गये पाँच ब्राह्मणपुत्रों को छुड़ाकर ले आये हो। तुम ऐसे क्यों न होंगे? राज-पूताने के क्षत्रियों की कुल-परम्परा ही ऐसी है। उसी समय पुनः मर्मर ध्वनि तथा पैरों की आहट सुनाई पड़ी। इसके अनन्तर रुककर ब्रह्मचारी-गुरु ने स्वयं उठकर एक अत्यन्त ऊँचे शिलाखण्ड पर चढ़कर चतुरतापूर्वक अर्थात् सावधानी से चारों ओर देखते हुए भी पैरों की आहट का कोई कारण नहीं देखा । अतः पुनः एकाग्र चित्त से भलीभाँति देखते हुए गौरसिह ने देखा कि कुटी के समीप की गृहवाटिका के केलों के समूह में दो या तीन पेड़ अधिकतर हिल रहे हैं।
टिप्पणी- इस गद्यांश में आश्रमवासी मुनियों तथा ब्रह्मचारियों की सत-कंता, राजनीति-निपुणता एवं वीरता का दिग्दर्शन कराया गया है। राजपूत के क्षत्रियों की वीरता से गौरसिह की वीरता का प्रतिपादन किया गया है। एतावता यहाँ अप्रस्तुतप्रशंसा अलङ्कार है ।। ३१ ।।
&
८८
तदेव संशयस्थानमित्यङ्गुल्या निर्दिश्य, कुटीर-वलीके गोपयित्वा स्थापितानामसीना मे कमाकृष्य, रिक्तहस्तेनैव मुनिना पृष्ठतोऽनुगम्यमानः कपोल तल विलम्वमानान् वक्षुश्चुम्विनः कुटिल-कचान् वामकराङ्गु-लिभिरपसारयन्, मुनिवेषोऽपि किञ्चित् कोप-कषायित नयनः, कर कम्पित कृपा कृपण-कृपाणो महादेवमारिराधयिषुस्तपस्विवेषोऽर्जुन इव शान्तवीररसद्वयस्नातः सपदि समागतवान् तन्निकटे, अपश्यच्च लता-
प्रथमो निश्वासः
८९
प्रतान-वितान-वेष्टित-रम्भा स्तम्भ-त्रितयस्य मध्ये नीलवस्त्र-खण्ड-वेष्टित-मूर्द्धानं हरित-कञ्चुकं श्याम-वसनानद्ध-कटितट-कर्बुराधोवसनम्, काकासनेनोपविष्टम्, रम्भालवाल-लग्नाधोमुख-खड्गत्सरुन्यस्त-विपर्य-स्त-हस्त-युगलम्, लशुनगन्धिर्भािनश्वासैः कदली-किसलयानि मलिन-यन्तम्, नवाङ्ङ्कुरित-श्मश्रु-श्रेणि-च्छलेन कन्यकाप हरण-पङ्क-कलङ्कपङ्क-कलङ्किताननम्, विशतिवर्ष-कल्पं यवनयुवकम् । ततः परस्परं चाक्षुषे सम्पन्ने दृष्टोऽहमिति निश्चित्य, उत्प्लुत्य, कोशात् कृपाणमाकृष्य, युयुत्सुः सोऽपि सम्मुखमवतस्थे । ततस्तयोरेवं सञ्जाताः परस्पर-मालापाः ।
व्याख्या - तदेव = एतदेव, संशयस्थानम् = सन्देहास्पदम्, इति - एवम्, बङ्गुल्या = अङ्गुलिसङ्केतेन, निर्दिश्य सन्दर्य्य, कुटीरवली के पर्णशाला-पटले, गोपयित्वा = गोपनं विधाय, स्थापितानाम् = सुरक्षितानाम्, असीनाम् = कृपाणानाम्, एकम् अन्यतमम्, आकृष्य समादाय, रिक्तहस्तेनैव शून्य-हस्तेनैव, मुनिना = ब्रह्मचारिगुरुणा, पृष्ठतोऽनुगम्यमानः पृष्ठभागतोऽनुसृतः सन्, कपोलतलविलम्बमानान् = गण्डतललम्बमानान्, चक्षुश्चुम्बिनः लोचन-संस्पशिनः, कुटिलकचान् = वक्रकेशान्, वामकराङ्गुलिभिरपसारयन् सव्येतर-हस्ताङ्गुलिभिनिवारयन्, मुनिवेषोऽपि साधुवेषोऽपि, किश्वित्कोपकषायित-नयनः = ईषत्क्रोध रक्तलोचनः, करकम्पितकृपाकृपणकृपाणः हस्तकम्पितदया-विरहितासिः, महादेवम् - शिवम्, आरिराधयिषुः सेवितुमिच्छुः, तपस्विवेषो-ऽर्जुन इव तापसवेषधारि पार्थं इव, शान्तवीररसद्वयस्नातः शमोत्साह-निष्पन्न रसयुगलावगाहितः, सपदि सत्वरम्, समागतवान् समागच्छत्, तन्निकटे = निदिष्टस्थानसमीपे, अपश्यत् अवलोकयत्, च पुनः, लता-प्रतानवितानवेष्टितरम्भास्तम्भत्रितयस्य व्रततिसूक्ष्मतन्तुविस्तारवलयितकदली-स्तम्भत्रयस्य, मध्ये - आभ्यन्तरे, नीलवस्त्रखण्डवेष्टितमूर्द्धानम् - हरितवसर्ना -शवलयितशिरोभागम्, हरितकञ्चुकम् - हरितचोलकम्, श्यामवसनानद्धकटि-तटकर्बुराधोवसनम् = कृष्णपटान ढकटिभाग कर्बुराधोवस्त्रम्, काकासनेनोपविष्टम् = वायसासनेन तिष्ठन्तम्, रम्भालवाललग्नाधोमुखखङ्गत्सरुन्यस्तविपर्यस्तहस्त-युगलम् = कदल्यावापलग्न निम्न मुखासिमुष्टिको परिघृतविपर्यस्तकरद्वयम्, लशुन-गन्धिभिः - रसोनगन्धिभिः, निःश्वासैः श्वासैः, कदलीकिसलयानि रम्भा-
९०
शिवराजविजयः
पलाशान्, मलिनयन्तम् दूषयन्तम्, नवाङ्कुरितश्मश्रुश्रेणिच्छलेन प्रत्यय-समुदितश्मश्रुवक्क्तिव्याजेन, कन्यकापहरणपङ्ककल खूप कलङ्किताननम् बालिकाचौर्यप खूपङ्किलवदनम् विशतिवर्षकरुपम् विशतिवर्षदेशीयम्, यवन-युवकम् - तुरुष्कयुवानम् । ततः दर्शनोत्तरम्, परस्परम् अन्योन्यम्, चाक्षुषे चक्षुरिन्द्रियजन्यप्रत्यक्षे, सम्पन्ने जाते, दृष्टोऽहम् अवलोकितोऽहम्, इति-एवम्, निश्चित्य निश्वयं कृत्वा, उत्प्लुत्य उत्पत्य, कोशात् असिरक्षार्थ निमितसाधनविशेषात्, कृपाणम् खड्गम्, आकृष्य समादाय, मुयुत्सुः योद्युमिच्छुः सोऽपि यवनोऽपि, सम्मुखम् गौरसिंहसमक्षम्, अवतस्थे संस्थितो बभूव । ततः अवस्थानानन्तरम्, तयोः- गोरसिंहयवन युवकयोः, एवम् = वध्यमाणप्रकारेण, सञ्जाताः सम्पन्नाः परस्परम् अन्योन्यम्, आलापाः- वार्तालापाः ।
समासः - संशयस्य स्थानं संशयस्थानम् । कुटीरस्य बलीके कुटीरबलीके । रिक्तः हस्तः यस्यासौ रिक्तहस्तः, तेन रिक्तहस्तेन । कपोलस्य तले विलम्ब-मानान् कपोलतलविलम्बमानान् । कुटिलाश्च ते कचाश्च, तान् कुटिलकचात् । वामस्य करस्य अङ्गुलिभिः वामकराङ्गुलिभिः । कोपेन कषायिते नयने यस्य सः कोपकषायितनयनः। करे कम्पितः कृपाकृपणः कृपाणो यस्य सः करकम्पित-कृपाकृपणकृपाणः । तपस्विनां वेषो यस्य सः तपस्विवेषः । शान्तश्च वीरच शान्तवीरी, तयोः रसयोः द्वये स्नातः शान्तवीररसद्वयस्नातः । लतानां प्रतानानि लताप्रतानानि, तेषां वितानम्, तेन वेष्टितम्, रम्भास्तम्भार्ता त्रितयम्, तस्य लताप्रतानवितानवेष्टितरम्भास्तम्भत्रितयस्य । नीलं च वस्त्रखण्डव, तेन वेष्टितो मूर्धा यस्य, तं तीलवस्त्रखण्डवेष्टितमूर्द्धनम् । हरितं काञ्चुर्क यस्य, तं हरितकञ्चुकम् । श्यामेन वसनेन आनद्धं कटितटे कर्बुरम् अधोवसर्त यस्य, ते श्यामवसनानद्ध कटितटकर्बुराधोवसनम् । काकानाम् आसनेन काकासनेन । रम्भाया आलवाले लग्नस्य अधोमुखस्य खड्ङ्गस्य करी त्यस्तं विपर्यस्त हस्तयोः युगलं येन, तं रम्भालवाललग्नाधोमुखखड्गत्सस्त्यस्तविपर्यस्तहस्तयुगलम् । नवाङ्कुरितायाः श्मश्रुश्रेण्याः छलेन नवाङ्कुरितश्मश्रुश्रेणिच्छकेत । कत्यकायाः अपहरणरूपं यत् पञ्चम् तस्य यः कलङ्कः स एव पङ्कः तेन कलङ्कितम् आनतं यस्य, तं कन्यकापहरणपङ्ककलङ्कपङ्ककलङ्किताननम् । यवनस्य युवकं यवत युवकम् ।
कोषः 'विचिकित्सा तु संशयः । सन्देहृद्वापरी' इत्यमरः । 'अनुल्यः
प्रथमो निश्वासः
९१
करणाखाः स्युः' इत्यमरः । 'वलीकनीचे पटलप्रान्ते' इत्यमरः । 'सङ्गे तु निस्त्रियशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलायः करवालः कृपाणवत्' ।। इत्यमरः । 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी' इत्यमरः । 'चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः' इत्यमरः । 'साग्झटित्यव्साऽऽह्लाय द्राङ् मङ्क्षु सपदि इते' 'सद्यः सपदि तत्क्षणे' इति चामरः। 'समीपे निकटासन्न-सन्निकृष्टसनीडवत् । सदेशाभ्याशसविधसमर्यादसवेशवत् ।। उपकण्ठान्तिकाभ्य-र्णाभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरः । 'वल्ली तु व्रततिर्लता' इत्यमरः । 'कदली बारणबुसा रम्भा मोचांऽद्युमत्फला। काष्ठीला' इत्यमरः । 'चैलं वसन मंशुकम्' इत्यमरः । 'चित्रं किर्मीरकल्माषशवलैतान कर्बुरे' इत्यमरः । 'स्यादालवालमावाल' इत्यमरः । 'त्सरुः खड्गादिमुष्टी' इत्यमरः । 'अस्त्री पङ्कं पुमान् पाप्मा' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमानतं लपनं मुखम्' इत्यमरः ।
व्याकरणम् - निर्दिश्य निर्+ दिश् क्त्वा + ल्यप् । गोपयित्वा -गुष् + णिच् + क्त्वा । आकृष्य आ कृप् + ल्यप् । अनुगम्यमानः- अनु + गम् + णिच् + शानच् । अपसारयन् अप सृ णिच् शतृ । बारिराघ-मिषु - आ + राघ् + सन् + उ। आनद्ध आनघ् क्त। उत्प्लुत्य उत् + प्लुङ् + क्त्वा + ल्यप् । युयुत्सुः युध् सन् उ। अवतस्थे अवस्था + लिट् ।
शब्दार्थ तदेव वही, संशयस्थानम् सन्देह का स्थान, इति इस प्रकार, अङ्गुल्या अङ्गुलि से, निर्दिश्य निर्देश करके, कुटीरवलीके -कुटीर की ओरी में, गोपयित्वा छिपाकर, स्थापितानाम् रखी हुई, असि नाम्= तलवारों में से, एकम् एक को, आकृष्य खींचकर, रिक्तहस्तेनैव = खाली हाथ ही, मुनिना ब्रह्मचारी गुरु के द्वारा, पृष्ठतः पीछे से, अनुगम्य-मानः अनुगमन किये जाते हुए, कपोलतलविलम्बमानान् - गालों तक लटकने बाले, चक्षुश्बुम्बिनः नयनों को संस्पर्श करने वाले, कुटिलकचान् वक्र केशों को, वामकराङ्गुलिभिः बाँये हाथ की अँगुलियों से, अपसारयन् -दूर हटाता हुआ, मुनिवेषोऽपि साधु का वेप धारण करने पर भी, किचि स्कोपकपायितनयनः = कुछ क्रोध से लाल नेत्रों वाला, करकम्पितकृपाकृष्ण-कृपाणः हाथ में हिलती हुई एवं निर्दय तलवार को लिये हुए, महादेवम् = भगवान् शङ्कर की, आरिराधयिषुः आराधना करने की इच्छा बाले, तपस्वि
प्रथमो निश्वासः
९१
करणाखाः स्युः' इत्यमरः । 'वलीकनीचे पटलप्रान्ते' इत्यमरः । 'सङ्गे तु निस्त्रियशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलायः करवालः कृपाणवत्' ।। इत्यमरः । 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी' इत्यमरः । 'चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः' इत्यमरः । 'साग्झटित्यव्साऽऽह्लाय द्राङ् मङ्क्षु सपदि इते' 'सद्यः सपदि तत्क्षणे' इति चामरः। 'समीपे निकटासन्न-सन्निकृष्टसनीडवत् । सदेशाभ्याशसविधसमर्यादसवेशवत् ।। उपकण्ठान्तिकाभ्य-र्णाभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरः । 'वल्ली तु व्रततिर्लता' इत्यमरः । 'कदली बारणबुसा रम्भा मोचांऽद्युमत्फला। काष्ठीला' इत्यमरः । 'चैलं वसन मंशुकम्' इत्यमरः । 'चित्रं किर्मीरकल्माषशवलैतान कर्बुरे' इत्यमरः । 'स्यादालवालमावाल' इत्यमरः । 'त्सरुः खड्गादिमुष्टी' इत्यमरः । 'अस्त्री पङ्कं पुमान् पाप्मा' इत्यमरः । 'वक्त्रास्ये वदनं तुण्डमानतं लपनं मुखम्' इत्यमरः ।
व्याकरणम् - निर्दिश्य निर्+ दिश् क्त्वा + ल्यप् । गोपयित्वा -गुष् + णिच् + क्त्वा । आकृष्य आ कृप् + ल्यप् । अनुगम्यमानः- अनु + गम् + णिच् + शानच् । अपसारयन् अप सृ णिच् शतृ । बारिराघ-मिषु - आ + राघ् + सन् + उ। आनद्ध आनघ् क्त। उत्प्लुत्य उत् + प्लुङ् + क्त्वा + ल्यप् । युयुत्सुः युध् सन् उ। अवतस्थे अवस्था + लिट् ।
शब्दार्थ तदेव वही, संशयस्थानम् सन्देह का स्थान, इति इस प्रकार, अङ्गुल्या अङ्गुलि से, निर्दिश्य निर्देश करके, कुटीरवलीके -कुटीर की ओरी में, गोपयित्वा छिपाकर, स्थापितानाम् रखी हुई, असि नाम्= तलवारों में से, एकम् एक को, आकृष्य खींचकर, रिक्तहस्तेनैव = खाली हाथ ही, मुनिना ब्रह्मचारी गुरु के द्वारा, पृष्ठतः पीछे से, अनुगम्य-मानः अनुगमन किये जाते हुए, कपोलतलविलम्बमानान् - गालों तक लटकने बाले, चक्षुश्बुम्बिनः नयनों को संस्पर्श करने वाले, कुटिलकचान् वक्र केशों को, वामकराङ्गुलिभिः बाँये हाथ की अँगुलियों से, अपसारयन् -दूर हटाता हुआ, मुनिवेषोऽपि साधु का वेप धारण करने पर भी, किचि स्कोपकपायितनयनः = कुछ क्रोध से लाल नेत्रों वाला, करकम्पितकृपाकृष्ण-कृपाणः हाथ में हिलती हुई एवं निर्दय तलवार को लिये हुए, महादेवम् = भगवान् शङ्कर की, आरिराधयिषुः आराधना करने की इच्छा बाले, तपस्वि
प्रथमो निवासः
९३
तरह शान्त और वीर दोनों रसों में स्नान किये हुए, गौरसिंह तत्क्षण उस निदिष्ट स्थान के समीप आया और वहाँ लताओं की विस्तृत वेलों से समा-च्छादित केले के तीन पेड़ों के बीच, नीले कपड़े के टुकड़े से शिर को बैंक हुए, हरे रङ्ग का कुर्ता पहने हुए, श्याम (काला) वस्त्र से कठितट को बाँध हुए, चितकबरे रङ्ग का अधोवस्त्र (लुङ्गी) धारण किये हुए, काकासन से बैठे हुए, केले के थाले पर अधोमुख रखी तलवार की मूठ पर दोनों हाथ उलटे रखे हुए, लहसुन की दुर्गन्ध से समन्वित निःश्वासों से केले के कोमल पत्तों को मलिन करते हुए, अभिनवाङ्कुरित श्मश्रु (मूँछ) की रेखा के बहाने कन्या के अपहरण रूप कीचड़ के कलङ्कपङ्क से कलङ्कित मुखवाले, लगभग बीस वर्ष की अवस्था वाले एक मुसलमान युवक को देखा। तदनन्तर आपस में दोनों की आँख मिल जाने पर 'मैं देख लिया गया है' ऐसा निश्चय करके, उछलकर, म्यान से तलवार खींचकर, लड़ने की इच्छा वाला वह मुसलमान युवक भी सामने खड़ा हो गया। इसके अनन्तर गौरसिंह और उस युवक में वक्ष्यमाण प्रकार से बातचीत हुई ।
टिप्पणी- इस गद्यखण्ड से विदित होता है कि तत्कालीन आश्रयवासी तपस्वी भी धर्म और देश की रक्षा के लिए युद्ध करने को सदैव तत्पर रहते थे। यहाँ गौरसिंह का अत्यन्त सजीव वर्णन किया गया है। कृपाण धारण करने के कारण वीरता और साधुवेष से शान्ति की प्रतीति होती है। इसीलिये बीर और शान्त - इन दोनों रसों में स्नान किये हुए की तरह बतलाया गया है। गौरसिह की समानता अर्जुन से किये जाने के कारण यहाँ उपमालंकार है। इस गद्यांश में अनेक स्थानों पर अनुप्रास का सुन्दर चित्रण किया गया है, इससे चित्रात्मकता द्योतित होती है ।। ३२ ।।
गौर्रासहः - कुतो रे यवन-कुल-कलङ्क ।
यवन-युवकः आः । वयमपि कुत इति प्रष्टव्याः ? भारतीय-कन्दरिकन्दरेष्वपि वयं विचरामः, शृङ्ग लाङ्ङ्गुल विहीनानां हिन्दुपद व्यवहार्याणां च युष्मादृक्षाणां पशूनामाखेटक्रीडया रमामहे ।
गौर्रासहः- [ सक्रोधं विहस्य वयमपि तु स्वाङ्कागतसत्त्ववृत्तयः शिवस्य गणा अत्रैव निवसामः, तत् सुप्रभातमद्य, स्वयमेव त्वं दीर्यं दाव-दहने पतङ्गायितोऽसि ।
यवनयुवकः - अरे रे वाचाल ! ह्यो रात्री युष्मत्कुटीरे रुदती समा
९४
शिवराजविजयः
यातां ब्राह्मण-तनयां सपदि प्रयच्छथ, तत् कदाचिद् दयया जीवतोऽपि त्यजेयम्, अन्यथा मदसि मुजङ्गिन्या दष्टाः क्षणात् कथावशेषाः संवत्स्यथ ।
व्याख्या-गौरसिहः- रे यवनकुलकलङ्क ! हे यवनवंशकलङ्कभूत ! कुतः - अत्र कस्मात् स्थानात् समागतोऽसि ?
यवनयुवकः आः - इति खेदे, वयमपि यवना अपि, कुतः कुत्रत्यः, इति = एवम्प्रकारेण, प्रष्टव्याः प्रश्नस्य विषयाः सन्ति किम् ? भारतीय-कन्दरिकन्दरेष्वपि भारतवर्षीयशैलगह्वरेष्वपि, वयम् यवनाः, विचरामः -पर्यटनं कुर्मः, शृङ्गलाङ्गूलविहीनानाम् = विषाणपुच्छविरहितानाम्, हिन्दुपद-व्यवहार्याणाम् = हिन्दुपदवाच्यानाम्, च पुनः, युष्मादृक्षाणाम् भवत्तुल्या-नाम्, पशूनाम् - चतुष्पदानाम्, आखेटक्रीडया मृगयाखेलया, रमामहे = मनोरञ्जनं विदधामः ।
गौर्रासहः- ( सक्रोधं = सकोपम्, विहस्य हासं विधाय) वयमपि आश्रमनिवासिनः हिन्दवोऽपि, स्वाङ्कागतसत्त्व वृत्तयः निजक्रोडागतप्राणि-वृत्तयः, शिवस्य शङ्करस्य, गणाः रुद्रादयः, अत्रैव इहैव, निवसामः = वासं कुर्मः, तत्- तस्माद्धेतोः, सुप्रभातमद्य सुदिवसोऽद्य, स्वयमेव आत्म-नैव, त्वम् = यवनबालकः, दीर्घदावदहने तीव्रदावानले, पतङ्गायितोऽसि = पतङ्गमिव समाचरसि ।
यवनयुवकः - अरे रे वाचाल ! हे बहुभाषणशील ! ह्यः विगतायाम्, रात्री = रजन्याम्, युष्मत्कुटीरे भवदुटजे, रुदतीम् = क्रन्दन्तीम्, समायाताम् = आगतवतीम्, ब्राह्मणतनयाम् - विप्रसुताम्, सपदि तत्क्षणमेव, प्रयच्छद्य -दत्य, तत्कदाचित् - तस्माद्धेतुना केनापि प्रकारेण, दयया कृपया, जीवतोऽपि = अमृतोऽपि, त्यजेयम् - मुञ्चेयम्, अन्यथा, मदसिभुजङ्गिन्या मत्करवाल-सपिण्या, दंष्टाः = कर्तिताः, क्षणात् मुहूर्तानन्तरम्, कथावशेषाः नाममात्रा-बशेषाः, संवत्स्यैथ वतिष्यध्वे ।
समासः कन्दरा सन्ति अस्मिन् इति कन्दरी, भारतीयाः कन्दरिणः, तेषां कन्दरेषु भारतीयकन्दरिकन्दरेषु। शृङ्गं च लाड्यूलं च शृङ्गलाङ्गुले, ताभ्यां विहीनाः, तेषां शृङ्गलाङ्गलविहीनानाम् । आखेट एव क्रीडा, तया आखेट-क्रीडया । स्वस्य अङ्के आगताः सत्त्वाः जीवा एव वृत्तिर्येषां ते स्वाङ्कागत-
प्रथमी निश्वासः
९५
सत्त्ववृत्तयः । शोभनं प्रभातमिति मुप्रभातम् । मम असिः ममासिः स एवं भुजङ्गिनी, तया मदतिमुङ्गिया। कर्थव अवशेषा येषां ते कयावशेषाः ।
कोषः शृङ्ग प्राधान्यमान्वोच' इत्यमर । 'पुच्छोऽस्त्री लूमलाङ्गूले' इत्यमरः । 'उत्सङ्गविह्नयोरङ्कः' इत्यमरः । द्रवणसुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः । 'दबदाको वनारण्यवल्ली' इत्यमरः । 'हिरण्यरेता हुतभुग्वहनो हव्यवाहनः' इत्यमरः । 'स्याज्जल्याकस्तु वाचालो वाचाटी बहुगर्हावा' इत्यमरः । 'विभावरीतमस्विन्यो रजनी यामिनी तमी। तमिश्रा तामसी रात्रिः' इत्यमरः ।
व्याकरणम् - प्रष्टव्याः प्रच्छ तथ्य। सुप्रभातम् - शोभनं प्रभातमिति विग्रहः, 'कुगतिप्रादयः' इति प्रादिसमासः । पतङ्गायितः पतङ्ग इवाचरित-बानिति, पतङ्ग + व्यङ् + क्त। रुदती रुद् शतृ ङीप् । दंष्टाः दंश + क्त । संवत्स्येंथ- सम् + वृतृ + लट् 'वृद्भ्यः स्यसनोः' से परस्मैपद और 'न वृन्द्रयश्चतुभ्यः' से इट् का निषेध ।
शब्दार्थ - कुतः = कहाँ से, रे सम्बोधन सूचक पद, यवनकुलकलङ्कः != मुसलिम वंश के कलङ्कस्वरूप | आः खेदमूचक, वयमपि कुत इति प्रष्टव्याः= हम भी कहाँ से आये हैं यह पूछना चाहिये बर्थात् नहीं । भारतीयकन्दरिकन्द-रेष्वपि भारतीय पहाड़ों की कन्दराओं में भी, वयम् हम यवनयुवक, विचरामः - भ्रमण करते हैं। शृङ्गलाङ्गलविहीनानाम् = सींग-पूंछ से विहीन, हिन्दुपदव्यवहार्याणाम् - हिन्दू नाम से कहे जाने वाले, युष्मादृक्षाणाम् तुम्हारे समान, पशूनाम् = पशुओं के, आखेटक्रीडया शिकार के खेल से, रमामहे मनोरञ्जन करते हैं। सक्रोधम् क्रोध के साथ, विहस्य हँसकर, वयमपि तु- हम आश्रमनिवासी हिन्दू लोग भी, स्वाङ्कागतसत्त्वत्रवृत्तयः अपनी गोद में आये हुए प्राणी ही वृत्ति (आहार) है जिनकी, शिवस्य शङ्कर के, गणाः रुद्र आदि गण, अत्रैव यहीं, निवसामः = निवास करते हैं, तत्सुप्रभात-मद्य = तो आज का अच्छा प्रातःकाल है, स्वयमेव अपने से ही, त्वम् - तुम यवनयुवक, दीर्घदावदहने दीर्घदावानल में, पतङ्गायितोऽसि पतङ्ग के समान बाचरण कर रहे हो। अरे रे वाचाल ! हे बहुत अनर्थक प्रलाप करने बाले ! ह्यो रात्री - विगत रात्रि में, युष्मत्कुटीरे तुम्हारी कुटी में, रुवतीं समायाताम् = विलाप करती आई हुई, ब्राह्मणतनयाम् = विप्र-कन्या को, सपदि = तत्क्षण, प्रयच्छय दे दो, तत्कदाचित् तो शायद, दयया दवा के
९६
शिवराजविजयः
कारण, जीवतोऽपि - जीवित भी, त्यजेयम् छोड़ दूं, अन्यया = नहीं तो, मदसिभुजङ्गिन्या = मेरी तलवार रूपी सर्पिणी से, दंष्टाः उसे गये, क्षणात् = एक क्षण में, कथावशेषाः कथामात्र अवशेष, संवत्स्यैथ = रहोगे ।
हिन्दी- गौरसिंह - अरे यवनकुलकलङ्क । यहाँ कहाँ से आया ?
यवनयुवक - अरे ! हमसे भी 'कहाँ से आये' यह पूछना चाहिये ? हम
यवन लोग भारत वर्ष की पर्वत-गुफाओं में भी विचरण करते हैं और सींग-पूँछ विरहित हिन्दू नामधारी तुम जैसे पशुओं का शिकार कर आनन्द मनाते हैं।
गौरसिह - (क्रोध के साथ हँसकर) अपने अङ्क (गोद) में स्वतः बाये
हुए दुष्ट प्राणियों के ऊपर ही जीवित रहने वाले शिव के गण हम आश्रम-वासी हिन्दू लोग भी यहीं रहते हैं। तो आज का प्रभात शुभ रहा, क्योंकि तुम स्वयं ही तीव्र दावानल में पतङ्ग के समान जलने के लिए आ गये हो ।
यवनयुवक - अरे रे वाचाल ! कल रात्रि में विलाप करती आई हुई तुम्हारी कुटी में स्थित ब्राह्मण की पुत्री को तुरन्त दे दो। तब कदाचित् दया करके तुम जीवित ही छोड़ दिये जाओ, नहीं तो क्षण मात्र में मेरे इस कृपाण रुथी सर्पिणी से डॅसे जाने पर तुम्हारी कथामात्र अवशेष रह जायेगी ।
टिप्पणी- इस गद्यांश में 'पतङ्गायितोऽसि' इस स्थल पर लुप्तोपमा
अलंकार है। 'मदसिभुजङ्गिन्या' इस पद में तलवार में सर्पिणी का आरोप किये जाने से रूपकालङ्कार भी दृष्टिगोचर होता है ।। ३३ ।।
कलकलमेतमाकर्ण्य श्यामबटुरपि कन्यासमीपादुत्थाय दृष्ट्वा च
हन्तुमेतं यवनवराकं पर्याप्तोऽयं गौरसिंह इति मा स्म गमदन्योऽपि कश्चित् कन्यकामपजिहीर्षुरिति वलीकादेकं विकटखड्गमाकृष्य त्सरौ गृहीत्वा कन्यकां रक्षन्, तदध्युषित-कुटीर-निकट एव तस्थौ ।
गौरसिंहस्तु 'कुटीरान्तः कन्यकाऽस्ति, सा च यवन-वध-व्यसनिनि मयि जीवति न शक्या द्रष्टुमपि, कि नाम स्त्रष्टुम् ? तद् यावत् तव कवोष्ण-शोणित-तृपित एष चन्द्रहासो न चलति, तावत् कर्द्दनं वा उत्फालं वा यच्चिकीर्षसि तद् विधेहि' इत्युक्त्वा व्यालीढमर्यादया सज्जः समतिष्ठत ।
व्याख्या-कलकलम् - कोलाहलम्, एतम् समीपस्थं गौरसिह्यवन्नयुव-
प्रथमो निश्वासः
१७
कोद्भूतम्, आकष्ये निशम्य, श्यामवदुरपि कृष्णब्रह्म वारिरपि, कन्यासमीपा-दृत्याय - बालिकान्तिकादुत्थानं कृत्वा दृष्ट्वा च विलोक्य च, हन्तुमेतमु = मारवितुममुम्, यवनवराकम्= तुरुष्कपामरम्, पर्याप्तोऽयम् = समर्थोऽयम्, गौरसिह इति - गौरवर्णः क्षत्रियजातीयः ब्रह्मचारी इति, मा स्म गमदन्योऽपि कश्चित् अन्यो जनो न आयातु, कन्यकामपजिहीर्षुरिति = बालिकापहरणा-भिलाषुक इति, बलीकात् पटलात्, एकम् अन्यतमम्, विकटखड्गम् = भयङ्करकृपाणम्, वाकृष्य समादाय, त्सरी मुष्टिकायाम्, गृहीत्वा घार-यित्वा, कन्यकाम् = बालिकाम्, रक्षन् गोपयन्, तदध्युषितकुटी रनिकटे-बालिकासा पैतपर्णशालासमीपे, एव, तस्थौ स्थितो बभूव ।
गौरसिहस्तु - एतनामको ब्रह्मचारी तु, कुटीरान्तः = पर्णशालाभ्यन्तरम्, कन्यकाऽस्ति बालिका विद्यते सा च बालिका च, यवनवधव्यसनिनि -तुरुष्कननरसिके, मयि गौरसिहे, जीवति जीविते सति, न शक्या = न क्षमा, द्रष्टुमपि - अबलोकवितुमपि, कि नाम का चर्चा, स्प्रष्टुम् = स्पर्श कर्तुम् ? तत् तस्मात्, यावत् = यावत्कालपर्यन्तम्, तव यवनयुवकस्य, कबोष्णशोणिततृषितः = कदुष्णरक्तपिपासितः, एषः अयम्, करस्थ इति भावः, चन्द्रहासो न चलति - सङ्ङ्गो न पतति, तावत्तावत्कालपर्यन्तम्, कूर्दनम् = उत्पतनम्, बा अथवा, उत्फालम् उद्योगं वा, यच्चिकी पंसि तद् विधेहि तत्कुरु, इति एवम्प्रकारेण, उक्त्वा दया - युद्धावस्थानविशेषमर्यादया, सज्जः उद्यतः सन्, स्थितवान् । अभिधाय, यदिच्छसि, व्यालीढमर्या समतिष्ठत -
समासः कन्यायाः समीपात् कन्यासमीपात् । विकटश्च खड्गश्व, तं विकटतङ्गम् । तया अध्युषितस्य कुटीरस्य निकटे तदध्युषितकुटीर निकटे । सबनानां बध एवं व्यसनं यस्य, तस्मिन् यवनवधव्यसनिनि । कोष्णस्य शोणितस्य तृषितः कवोष्णशोणिततृषितः । व्यालीढस्य मर्यादया व्यालीद मर्यादया ।
कोषः - 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिपु तद्वति' इत्यमरः । 'चन्द्र हासातिरिष्टयः' इत्यमरः । 'त्सरुः खड्गादिमुष्टी' इत्यमरः । 'वलीकनीधे पटलप्रान्ते' इत्यमरः ।
व्याकरणम् - हन्तुम्-हन् + तुमुन्। पर्याप्तः परि + अप् + क्त । मा स्म ग्रमत्-'स्म' के योग में लुङ् लकार तथा 'मा' के योग में अट् का निषेध है।
९८
शिवराजविजयः
अप जिहीर्षुः - अप् + हु + सन् + उ । रक्षन् + वस् (व = उ सम्प्रसारण) + क्त। कुटीरः लिट् । शक्या - शक् + यत् टाप् । त्युट् । उत्फालनम् - उद् + फाल् + ल्युट् । सिप् । समतिष्ठत - सम् + स्था + लङ् । द्रष्टुम् रक्ष शतृ । अध्युषित - अधि कुटी रः । तस्थौ - स्था+ दृश्+ तुमुन् । कूर्वनम् कूर्वं + चिकीर्षसि - कृ + सन् + लट् +
शब्दार्थ - कलकलमे तम् - इस कोलाहल को, आकर्ण्य सुनकर, श्याम-बटुरपि = श्याम वर्ण का ब्रह्मचारी भी, कन्यासमीपात् बालिका के पास से, उत्थाय = उठकर, दृष्ट्वा च और देखकर, हन्तुम् मारने के लिए, एतम्-इस, यवनवराकम् - क्षुद्र यवन को, पर्याप्तोऽयम् = यह पूर्ण समर्थ है, गौरसिहः= गौरवर्ण का ब्रह्मचारी, इति इसलिये, मा स्म गमत् न पहुँच जाये, बन्योऽपि = दूसरा भी, कश्चित् = कोई, कन्यकाम् = वालिका को, अपजिहीर्षुः = बपहरण करने की इच्छा वाला, इति अतः, वलीकात् = छप्पर की ओरी से, एकम् = एक, विकटखड्गम् = भयङ्कर तलवार को, आकृष्य खींचकर, त्सगै = मूंठ को, गृहीत्वा - पकड़कर, कन्यकाम् बालिका की, रक्षन् रक्षा करता हुआ, तदध्युषितकुटीरनिकटे एव उस कन्या से युक्त कुटीर के समीप ही, तस्थो = स्थित हो गया ।
गौरसिहत्तु - गौर वर्ण का ब्रह्मचारी, कुटीरान्तः = कुटी के मध्य में, कन्यकाऽस्ति = बालिका है, सा च और वह कन्या, यवनवधव्यसनिनि = यवनों के वध के व्यसनी, मयि मेरे, जीवति जीवित रहने पर, न शक्या = सम्भव नहीं है, द्रष्टुमपि देखने के लिए भी, कि नाम क्या चर्चा है, स्प्रष्टुम् = स्पर्श करने के लिए, तद् - इस कारण, यावत् जब तक, तव तुम्हारे, कवोष्णशोणिततृषितः = कुछ कुछ गरम खून की प्यासी, एषः = यह, चन्द्रहासः = तलवार, न चलति नहीं चलती है, तावत् तब तक, कूर्दनं बा= कूदना अथवा, उत्फालम् = उछलना, यच्चिकीर्षसि = जो करना चाहते हो, तद् विधेहि = वह करो, इति ऐसा, उक्त्वा = कहकर, व्यालीढमर्यादया = युद्ध-विज्ञान के विशेष ढङ्ग से, सज्जः = तैयार, समतिष्ठत = स्थित हो गया ।
हिन्दी - इस कोलाहल को सुनकर श्याम वर्ण का ब्रह्मचारी भी बालिका के पास से उठकर और देखकर कि क्षुद्र यवनयुवक को मारने के लिए यह गौरसिह अकेले पूर्ण समर्थ है, यह विचार कर कन्या का अपहरण करने की इच्छा से कोई अन्य यवनयुवक न आ जाय, इसलिये छप्पर की ओरी से एक
प्रथमो निश्वासः
९९
भयंकर तलवार खींचकर उसकी मूंठ पकड़कर कन्या की रक्षा करता हुआ बालिका से युक्त कुटीर के समीप खड़ा हो गया ।
और गौरसिह-कुटी के अन्दर कन्या है और यवनों के वध के व्यसनी मेरे जीवित रहते उसे छूने को कौन कहे, कोई देख भी नहीं सकता। जब तक तुम्हारे कुछ-कुछ गरम खून की प्यासी यह तलवार नहीं चलती है, तब तक ही तुम जो कुछ भी उछल-कूद करना चाहते हो, वह कर लो। यह कहकर यह युद्ध-विधान के विशेष ढङ्ग से पैंतरा बनाकर तैयार हो गया ।
टिप्पणी- इस गद्यखण्ड में महाकवि ने गौरसिंह और श्यामबटु के शौर्य एवं विवेक का दिग्दर्शन कराया है ।। ३४ ।।
ततो गौरसिंहः दक्षिणान् वामांश्च परश्शतान् कृपाणमार्गानङ्गी-कृतवतः, दिनकर-कर-स्पर्श-चतुर्गुणीकृत-चाकचक्यैः चञ्चच्चन्द्रहास-चमत्कारैश्वभ्रंषि मुष्णतः, यवन-युवक-हतकस्य, केनाप्यनुपलक्षितो-द्योगः, अकस्मादेव स्वासिना कलित-क्लेद-सञ्जात-स्वेदजल-जालं विशिथिल-कच-कुल-मालं भग्न-भ्रू-भयानक-भालं शिरश्चिच्छेद ।
चश्व-व्याख्या- ततः व्यालीढमर्यादयाऽवस्थानानन्तरम्, गौसिंहः = गौरबटुः, दक्षिणान् सव्यान्, वामांश्च सव्येतरांश्च, परश्शतान् = शताधिकान्, कृपाणमार्गान् = खड्गयुद्धरीतीः, अङ्गीकृतवतः स्वीकृतवतः, दिनकरकरस्पर्श-चतुर्गुणीकृत चाकचक्यैः = रविकिरणसम्पर्कचतुर्गुणीकृतप्रतिभासविशेषैः, च्चन्द्रहास चमत्कारः सञ्चरत्खड्गचमत्कारैः, चक्षूषि नयनानि, मुष्णतः = चोरयतः, यवनयुवकहतस्य तुरुष्कयुवकदुष्टस्य, केनाप्यनुपलक्षितोद्योगः = केनाप्यज्ञातप्रयासः, अकस्मादेव सहसैव, स्वासिना निजचन्द्रहासेन, कलित-क्लेदसञ्जातस्वेदजलजालम् = व्याप्त श्रमोत्पन्न घर्मजालसमूहम्, विशिथिलकच-कुलमालम् - परिभ्रष्टकेश समूहपङ्क्तिकम्, भग्नभ्रूभयानकभालम् = छिन्नभू-भीषणललाटम्, शिरः- मस्तकम्, चिच्छेद कर्तयामास ।
समासः कृपाणस्य मार्गान् कृपाणमार्गान् । दिनकरस्य कराणां स्पर्शन चतुर्गुणीकृतं चाकचक्यं यैस्तैः दिनकरकरस्पर्श चतुर्गुणीकृतचाकचक्यैः । चञ्चतः चन्द्रहासस्य चमत्कारैः चश्वच्चन्द्रहासचमत्कारैः । यवनस्य युवकः यवनयुवकः, यवनयुवकचासौ हतकश्च, तस्य यवनयुवकहतकस्य । अनुपलक्षितः उद्योगः यस्य सः अनुपलक्षितोद्योगः। कलितेन क्लेदेन सञ्जातस्य स्वेदजलस्य जालं
१००
शिवराजविजयः
यस्मिन् तत् कलितस्लेदाराम्। शिविलाः कार्ता कुलस्य मालाः यस्मिन् तत् विशिलकुमालम्भरावा यार्क मार्क यस्मिन् तत् भग्नधूभयानकभालम् ।
कोषः 'सूरसूर्यार्यमादित्यद्वादशात्मवियाकरः इत्यमरः । 'किरणोत्रमयूर्वा-धूगभस्तिपूणिरश्मयः । भानुः करी मरीवः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्॥ इत्यमरः । 'धर्मो निदाषः स्वेदः' इत्यमरः । ऊ दृग्भ्यां ध्रुवो स्त्रियों इत्यमरः ।
व्याकरणम् - मुष्णतः - मुष्+ तसिल। कलित - कल्+क्त । भालम् -भालच् । चिच्छेद-छिन् + लिट् ।
शब्दार्थ ततः तदनन्तर, गौरसिंहः गौरवर्ण का ब्रह्मचारी, दक्षिणान् = दोयें, बामान् बाँयें, परदक्षतान् सैकड़ों, कृपाणमार्गान् = तलवार चलाने की विधाओं को, अङ्गीकृतवतः स्वीकार करने वाले, दिनकरकरस्पर्शचतुर्गुणी-कृतचाकचक्यैः- भास्कर के किरणों के संस्पर्श से चौगुना कर दिया गया है चाकचक्य जिसका (चमत्कार का विशेषण है), चञ्चच्चन्द्रहासचमत्कारैः-चलती हुई तलवार के चमत्कार से, चक्षूपि नेत्रों को, मुष्णतः चौंधियाने वाले, यवनयुवकहतकस्य दृष्ट यवनयुवक के, केनाप्यनुपलक्षितोद्योगः -किसी के द्वारा जिसका उद्योग नहीं देखा गया है, स्वासिना अपनी तलवार से, कलितक्लेदसञ्जातस्वेदजलजालम् = परिश्रम के कारण समुत्पन्न पसीने की बूंदों से व्याप्त (शिर का विशेषण है), विशिथिलकचकुलमालम् बिखरे हुए बालों वाले, भग्नश्रूमयानकभालम् विच्छिन्न भौहों से भयानक भालवाले, अकस्मादेव सहसा, शिरः मस्तक को, चिच्छेद काट डाला ।
हिन्दी - तदनन्तर गौरसिंह ने दयि-बाँये सैंकड़ों कृपाणमार्ग को अङ्गीकार करने वाले, भगवान् भास्कर की किरणों के संस्पर्श से चौगुनी किये गये चाकचिक्य वाले, चलती हुई तलवार के चमत्कार से चौंधियाई आँखों वाले उस दुष्ट यवनयुवक के श्रमजनित स्वेदकण से व्याप्त, अस्त-व्यस्त केशों वाले, विच्छिन्न भौहों से भयानक भाल वाले मस्तक को अपनी तलवार से अचानक काट डाला। उसका यह कर्तन-उद्योग कोई और देख भी नहीं पाया ।
टिप्पणी- इस गद्यांश में महाकवि ने समासशैली का प्रयोग किया है। अनुप्रास की छटा तथा चित्रात्मकता संदर्शनीय है ।। ३५ ।।
अथ मुनिरपि दाडिम-कुसुमास्तरणाच्छन्नायामिव गाढ-रुधिर-
प्रथमो निश्वासः
१०१
दिग्धायां ज्वलदङ्गार-चितायां चितायामिव वसुधायां शयानं वियुज्य-मान-भारतभुवमालिङ्गन्तमिव निर्जीवीभवदङ्गबन्ध-चालनपरं कलित-शोणित-सङ्घात-व्याजेनान्तः-स्थित-रजोराशिमिवोङ्गिरन्तं सायन्तन-घनाऽऽडम्बर-विभ्रमं सतत ताम्रच्डभक्षण-पातकेनेव ताम्री-कृतं छिन्न-कन्धर यवनहतकमवलोक्य सहर्षं ससाधुवादं सरोमोद्गमं च गौरसिंहमाश्लिष्य, भ्रूभङ्गमात्राऽऽज्ञप्तेन भृत्येन मृतककञ्चुक कटिबन्धोष्णीषादिकमन्विष्याऽऽनीतं पत्रमेकमादाय सगणः स्वकुटीरं प्रविवेश ।
इति प्रथमो निश्वासः ।