ततोऽवतीर्य तरुशाखायां बद्ध्वा तुरङ्गमुपसृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय तामेव दिब्ययोषितमनिमेषपक्ष्मणां निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उदपादि चास्य तस्या रूपसम्पदा कान्त्या प्रशान्त्या चावि भूतविस्मयस्य मनसि " अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्ता - सूक्ति न्तान्तराणि । तथा हि - मयामृगयायां यदृच्छया निरर्थकमनुबध्नता तुरङ्गमुख मिथुनमयमतिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो वीक्षितः । अत्र च सलिलमन्वेषमाणेन हृदयहारि सिद्धजनोपसृष्टजलं सरो
दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानु षदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । नहि मे संशीतिरस्यो दिव्यतां प्रति । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलोके संभूति रेवंविधानां गन्धर्व ध्वनिविशेषाणाम् । तद्यदि मे सहसा , दर्शनपथानापयाति , नारोहति वा कैला सशिखरम् , नोत्पतति वा गगनतलम् , ततः ' का त्वम् , किमभिधाना वा ,
किमर्थं वा प्रथमे वयसि प्रतिपन्ना व्रतम् ' , इति सर्वमेतदेनामुपसृत्य पृच्छामि । अतिमहानयमवकाश आश्चर्याणाम् इत्यवधार्य तस्यामेव स्फटिकमण्डपि कायामन्यतमं स्तम्भमाश्रित्य समुपविष्टो गीतसमाप्यवसरं प्रतीक्षमाणस्तस्थौ । अथ गीतावसाने मूकीभूत वीणा प्रशान्तमधुकररुतेव कुमुदिनी सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावधवलया तपःप्रभाव
प्रगल्भया दृष्ट्या समाश्वासयन्तीव , पुण्यैरिव स्पृशन्ती , तीर्थजलैरिव प्रक्षा लयन्ती , तपोभिरिव पावयन्ती , शद्धिमिव कुर्वाणा , वरप्रदानमिवोपपादयन्ती , पवित्रतामिव नयन्ती , चन्द्रापीडमाबभाषे , ' स्वागतमतिथये , कथमिमां भूमि मनुप्राप्तो महाभागस्तदुत्तिष्ठागम्यतामनुभूयतामतिथिसत्कारः इति । एवमुक्तस्तु तया सम्भाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृतप्रणामः , भगवति यथाज्ञापयसि ' इत्यभिधाय दर्शितविनयः शिष्य इव तां ब्रजन्ती
मनुवबाज । व्रजंश्च समर्थमामास , ' हन्त तावन्नेयं मां दृष्टवा तिरोभूता , कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्ल भदिव्यरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यते तथा सम्भावयामि नियत मियखिलमात्मोदन्तमभ्यर्थ्य माना मया कथयिष्यति ' इति । एवं च कृतमतिः पदशतमात्रमिव गत्वा निरन्तरैर्दिवापि रजनीसमयमिव दर्श यद्भिस्तमालतरुभिरन्धकारित पुरोभागाम् , उत्फुल्लकुसुमेषु लतानिलजेपु
कृजतां मन्द्रं मदमत्तमधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम , अतिदूरपातिनीनां च धवलशिलातलप्रतिघातोत्पतनफेनिलानामपां प्रस्रवणैरुत्कोटिग्राव विटङ्कव पाट्यमानैरुच्चरद्ध्वनिभिरवशीर्यमाणतुषारशिशिरसीकरासारैराबध्यमाननीहा राम हिमहारहरहासधवलैश्चोभयतः क्षरद्भिनिर्झरैारावलम्बितचलचामरकला पामिवोपलक्ष्यमाणाम , अन्तःस्थापितमणिकमण्डलुमण्डलाम , एकान्तावलम्बित
योगपट्टिकाम् , बिशाखिकाशिखरनिबद्धनालिकेरीफलवल्कलमयधौतोपाना गोपेताम् , अवशीर्णाङ्गभस्मधूसरवल्कलशयनीयसनाथैकदेशाम् , इन्दुमण्ड लेनेव टङ्कोत्कीर्णन शङ्खमयेन भिक्षाफपालेनाधिष्टिताम् , सन्निहितभस्माला बुकां गुहामद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टो वल्कलशयनशिरो भागविन्यस्तवीणां ततः पर्णपुटेन निर्झरादागृहीतमर्घसलिलमादाय तां कन्यकां
समुपस्थिताम् ' अलमतियन्त्रणया , कृतमतिप्रसादेन , भगवति , प्रसीद विमुच्य तामयमत्यादरः , त्वदीयमालोकनमपि सर्वपापप्रशमनमघमर्षणमिव पवित्री करणायालम् , आस्यताम् " इत्यब्रवीत् । अनुवध्यमानश्च तया तां सर्वामति थिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह ।
कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्टो दिग्विजयादारभ्य किन्नरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः
सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा कन्यका भिक्षाकपालमादाय तेषामायतनतरूणां तलेषु विचचार । अचिरेण तस्याः स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम् । आसीच तस्य चेतसि , ' नास्ति खल्वसाध्यं नाम तपसाम । किमतः परमाश्चर्य यत्र व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्या त्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम ।
इत्यधिकतरोपजातविस्मयश्चोत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीत पर्याणं नातिदूरे संयम्य निर्झरजलनिवर्तितस्नानविधिस्तान्यमृतरसस्वादून्युप भुज्य फलानि पीत्वा च तुषारशिशिरं प्रस्रवणजलमुपस्पृश्यैकान्ते तावद्वतस्थे यावत्तथापि कन्यकया कृतोजलफलमूलमयेष्वाहारेषु प्रणयः । इति परिसमापिताहारां निर्वर्तितसन्ध्योचिताचारां शिलातले विश्रब्ध चित्रम् = आश्चर्यम् , आलोकितम् = दृष्टम् । ' इति = एवम् , अधिकतरोपजात
मुपविष्टां निभृतमुपसृत्य नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत्- " भगवति , त्वत्प्रसादप्राप्तिप्रोत्साहितेन कूतूहलेनाकुली क्रियमाणो मानुषतासुलभो लघिमा बलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । जनयति हि प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्ये कदेशावस्थाने कालकला परिचयमुत्पादयति । अणुरप्युपचारपरिग्रहः प्रणयमा रोपयति । तद्यदि नातिखेदकरमिव ततः कथनेनात्मानमनुग्राह्यमिच्छामि।
अतिमहत्खलु भवदर्शनात्प्रभृति मे कौतुकमस्मिन्विषये । कतरन्मरुतामृधीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वास्मिन्कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् । क्वेदं वयः । क्वेयमाकतिः । क चायं लावण्यातिशयः । क्वेयमिन्द्रियाणामुपशान्तिः । तदद्भुतमिव मे प्रतिभाति । किंनिमित्तं वानेकसिद्धसाध्यसंबाधानि सुरलोकसुलभान्यपहाय दिव्याश्रमपदान्ये कानिनी वनमिदममानुषमधिवससि । कञ्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभूतैरारब्धमी ली धवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र दृष्टश्रुतपूर्वम् । अपनयतु नः कौतुकम् । आवेदयतु भवती सर्वम् । ” इत्ये वमभिहिता सा किमप्यन्तायन्ती तूष्णीं मूहूर्तमिव स्थित्वा निःश्वस्य स्थूल स्थूलैरन्तर्गतहृदयशद्धिमिवादाय निर्गच्छद्भिः , इन्द्रियप्रसादमिव वर्षद्भिः , तपारमनिस्यन्दमिव स्रवद्भिः , लोचनविषयं धवलिमानमिव द्रवीकृत्य पातयद्भिः , अच्छाच्छैः , अमलकपोलस्थलस्खलितैः अवशीर्णहारमुक्ताफलतरलपातैः , अनुबद्धविन्दुभिः , वल्कलावृतकुचशिखरजर्जरितसीकरैः , अभिरामीलित लोचना निःशब्दं रोदितुमारेभे । तां च प्ररुदितां दृष्ट्वा चन्द्रापीडस्तत्क्षणमचिन्तयत् , “ अहोदुर्निवा रता , व्यसनोपनिपातानां यदीढशीमप्याकृतिमनभिभवनीयामात्मीयां कुर्वन्ति।
सर्वथा नन कंचन स्पृशन्ति शरीरधर्माणमुपतापाः । बलवती हि द्वन्द्वानां प्रवृत्तिः । इदम परमधिकतरमुपजनितमतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्तयः । न हि क्षद्रनिर्घात पाताभिहता चलति बसुधा " | इति संवर्धितकुतूहलश्च शोकस्मरणहेतुतामुप गतमपराधिनमिवात्मानमवगच्छन्नुत्थाय प्रस्रवणादञ्जलिना मुखप्रक्षालनो दकमुपनि - ये । सा तु तदनुरोधादविच्छिन्नवाष्पजलधारासन्तानापि किञ्चित्कषार्यितोदरे प्रक्षाल्य लोचने वल्कलोपान्तेन वदनमपमृज्य दीर्घमुष्णं च निःश्वस्य शनैः प्रत्यवादीत् , " राजपुत्र , किंमनेनातिनिघृणहृदयाया मम मन्द भाग्यायाः पापाया जन्मनः प्रभृति वैराग्यवृत्तान्तेन्नाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलम् तत्कथयामि । श्रयताम् । एतत्प्रायेण कल्याणाभिनिवेशिनः श्रतिविषयमापतितमेव यथा विबुध समन्यप्सरसो नाम कन्यकाः सन्ति । तासां चतुर्दश कुलानि । एकं भगवतःकमलयोनेर्मनसः समुत्पन्नम् । अन्यद्वेदेभ्यः सम्भूतम् । अन्यदग्नेरुद्भुतम् । अन्यत्पवनात्प्रसूतम् । अन्यदमृतान्मथ्यमानाद त्थितम् , अन्यज्जलाज्जातम् । अन्यदर्ककिरणेभ्यो नितम् । अन्यत्सोमरश्मिभ्यो निष्पतितम् । अन्यद्भमे रुद्भूतम् । अन्यत्सौदामनीभ्यः प्रवृत्तम् । अन्यनमृत्युना निर्मितम् । अपरं मकर केतुनासमुत्पादितम् । अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वे सुते मुनिररिष्टा च बभूवतुस्ताभ्यां गन्धर्वैः कुलद्वयं जातम् । एवमेतान्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसम्भवं तदेवं कुलद्वयं जातम् ।अत्र मुनेस्तनयश्चित्रसेनादीनां पञ्चदशानां भ्रातृणामधिको गुणैः षोडशश्चित्र रथो नाम समुत्पन्नः । स किल सकलत्रिभुवनप्रख्यातपराक्रमो भगवता समस्त सुरमौलिमालालालितचरणनलिनेनाखण्डलेन सुहृच्छब्देनोपबृंहितप्रभावः सर्वेषां गन्धर्वाणामाधिपत्यमसिलतामरीचिनिचयमेचकितेन बाहुना समुपाजितं शैशव एवाप्तवान् । इतश्च नातिंदूरे तस्यास्मानारतवर्षादुत्तरेणानन्तरे किंपुरुष नाम्नि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र तद्भजयुगपरिपालितान्यने कानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नामातिमनोहरंकाननं निर्मितम् । इदं चाच्छोदाभिधानमतिमहत्सरः खानितम् । अय च भवानीपतिस्परचितो भगवान् । अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णां ज्येष्टो हंसो नाम जगद्विदितो गन्धर्वस्तस्मिन्द्वितीये गन्धर्वकुले गन्धर्व राजेन चित्ररथेनैवाभिषिक्तो वाल एव राज्यपदमामादितवान् । अपरिमित गन्धर्ववलपरिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु तत्सोममयूख सम्भूतानामप्सरसा कुलं तस्मात्किरणजलानुसारगलितेन सकलेनेवरजनिकरकलाकलापलावण्येन निर्मितात्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी गौरीतिनाम्ना हिंमकरकिरणावदातवर्णा कन्यका प्रसूता । तां च द्वितीयगन्धर्वकुलाधिपतिहसो मन्दाकिनोमिव क्षीरसागरः प्रणयिनीमकरोत् । सा तु भगवता मकरकेतनेनेव रतिः , शरत्समयेनेव कमलिनी , हंसेनसंयोजिता सहशसमागमोपजनितामतिमहतीं मुटु मुपगतवती । निखिलान्तः पुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयोर्महात्मनोरहमीदशी विंगतलक्षणा शोकाय केवलमनेक दुःखसहस्रभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया सुतजन्मातिरि क्तेन महोत्सवेन मज्जन्माभिनन्दितवान् । अवाप्ते च दशमेऽऽहनि कृत यथो चितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादहू सञ्चरन्त्यविदितस्नेह शोका यासमनोहरं शैशवमतिनीतवती । क्रमेण च कृतं मे वपुर्षि , वसन्त इव मधुमासेन , मधुमास इव नवपल्लवेन , नवपल्लव इव कुसुमेन , कुसुम इव मधुकरेण , मधुकर इव मदेन , नवयौवनेन पदम् । ' अथ विज़म्भमाणनवनलिनवनेषु , अकठोरचूतकलिफाकलापकृतकामुकोत्कलिंकेपु , कोमलमल लयमारुताव मारतरङ्गितानङ्गध्वजांश केषु , मदकलितकामिनी गण्डू पसोधुसेकपुलकितबकुलेषु , मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुड्म अशोक तरुताडनारणितरमणीमणिनूपुरझङ्कारसहस्रमुखरेषु , विकस न्मुकुटपरिमलपुञ्जितालिजालमजुसिञ्जितसुभगसहकारेषु , अविरलकुसुमधूलिबालुकापुलिनधवलितधरातलेषु , मधुमदविडम्बितमधुकरकदम्बकसंवाय मानलतादोलेषु उत्फुल्लपल्लवलवलीलीयमानमत्तकोकिलोल्लासितमधुसीकरोदाम दुर्दिनेषु , प्रोषितजनजायाजीवोपहारदृष्टमन्मथास्फालितचापरवभय स्फुटितपथि कहृदयरुधिरार्द्रमार्गेषु , अविरतपतत्कुसुमशरपतत्रिपत्रसूत्कारबधिरीकृतदिङमु खेषु , दिवापि प्रवृत्तान्तर्मदनरागान्धाभिसारिकासार्थसंकुलेषु , उद्वेलरतिरससागरपूरप्लावितेषु , सकलजोवलोकहृदयानन्ददायकेषु , मधुमासदिवसेष्वेकदाह मम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयकल्हार मिद मच्छोदं सरः स्नातुमभ्यागमम् । अत्र च स्नानार्थमागतया भगवत्या पार्वत्या तटशिलातलेषु विलिखितानि सभृङ्गिरिटोनि पांशुनिमग्नकृशपदमण्डपांशुनिमग्नकृशपदमण्डलातुमितमुनिजनप्रणामप्रदक्षिणानि त्र्यम्बकप्रतिबिम्बकानि वन्दमाना , भ्रमर भरभुग्नगर्भकेसरजर्जरे कुसमोपहाररम्योऽयं लतामण्डपः , परभृतनखकोटिपाटित कुडमलनालविवरगलितमधुनिकरधारः सुपुष्पितोऽयं सहकारतरुः , उन्मदमयूर कुलकलकलभीतभुजङ्गमुक्ततला शिशिरेयं चन्दनवीथिका , विकचकुसुमपुञ्जपातसूचितवनदेवताप्रेङ्खोलनशोभनेयं लतादोला , वहलकुसमरजः - पटलमग्नकल हंसपदलेखमतिरमणीयमिदं तीरतमतलमिति स्निग्धमनोहरतरोदेशदर्शनलोभा क्षिप्रहृदया सह सखीजनेन व्यचरम । एकस्मिश्च प्रदेशे झटिति वनानिलेनोपनीतम , निर्भरविकसितेऽपि कानने उभिभूतान्यकुसुमपरिमलम् , विसर्पन्तम् , अति सुरभितयानुलिम्पन्तमिव तर्प यन्तमिव पूरयन्तमिव घ्राणेन्द्रियम , अहमहमिकया मधुकरकुलैरनुबध्यमानम् , अनाघ्रातपूर्वम् , अमानुषलोकोचित्तं कुसुमगन्धमभ्यजिघ्रम् । कुतोऽय मित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मधुकरीवाकृप्य माणा कौतुकतरलाभ्यधिकतरोपजातमणिनू पुरझङ्काराकृष्टसरःकलहंसानि कति त्पदानि गत्वा हरहुताशनेन्धनीकृतमदनशोकविधुरं वसन्तमिव तपस्यन्तम् , अखिलमण्डलप्राप्त्यर्थमीशानशिरःशशाङ्कमिव धृतव्रतम , अयुग्मलोचनं वशीकर्तुकामं काममिव सनियमम् , अतितेजस्वितया प्रचलतडिल्लतापञ्जरमध्यगत मिव ग्रीष्मदिवसदिवसकरमण्डलोदरप्रविष्टमिव ज्वलनज्वालाकलापमध्यस्थित मिव विभाव्यमानम् , उन्मिषन्त्या बहुलबहुलया दीपिकालोकपिङ्गलया देह प्रभया कपिलीकृतकाननं कनकमयमिव तं प्रदेशं कुर्वाणम् , रोचनारसलुलित प्रतिसरसमानसुकुमारपिङ्गलजटम् , पुण्यपताकायमानया सरस्वतीसमागमोत्कण्ठाकृतचन्दनलेखयेव भस्मललाटिकया बालपुलिनलेखयेव गङ्गाप्रवाह मुद्रा समानम , अनेकशापभ्रकुटिभवनतोरणेन भ्रलताद्वयेन विराजितम , अत्याचत तया लोचनमयीं मालामिव प्रथितामुद्रहन्तम् , सर्वहरिणैरिव दत्तलोचन शोभासंविभागम् , आयतोत्तङ्गघ्राणवंशम् , अप्राप्तहृदयप्रवेशेन नवयौव नरागेणेव सर्वात्मना पाटलीकृताधररुचकम् , अनुद्भिन्नश्मश्रुत्वादनासादितमधुकरावलीवलयपरिक्षेपविलासमिव वालकमलमाननं दधानम् , अनङ्गकार्मुक गुणेनेव कुण्डलीकृतेन तपस्तडागकमलिनीमृणालेनेव यज्ञोपवीतेनालंकृतम् एकेन सनालवकुलफलाकारं कमण्डलुमपरेण मकरकेतुविनाशशोकरुदिताया रतेरिव वाष्पजलबिन्दुभिरारचितां स्फटिकाक्षमालिकां करेण कलयन्तम् , अने कविद्यापगासङ्गमावर्त निभया नाभिमुद्रयोपशोभमानम् , अन्तर्ज्ञाननिराकृतस्यमोहान्धकारस्यापयानपदवीमिवाञ्जनरजोलेखाश्यामलारोमराजिमुदरेणतनीयसी विभ्राणम , आत्मतेजसा विजित्य सवितारमागृहीतेन परिवेषमण्डलेनेव मौज मेखलागुणेन परिक्षिप्तजघनभागम् , अभ्रगङ्गास्रोतोजलप्रक्षालितेन जरञ्चकोर लोचनपुटपाटलकान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम् , अलङ्कार मिव ब्रह्मचर्यस्य , यौवनमिव धर्मस्य , विलासमिव सरस्वत्याः , स्वयंवरपतिमिवसर्वविद्यानाम् , सङ्केतस्थानमिव सर्वश्रुतीनाम् , निदाघकालमिव साघाटम् , हिमसमयकाननमिव स्फुटितप्रियङगुमञ्जरीगौरम् , मधुमासमिव कुसुमधवल तिलकभूतिभूषितमुखम् , आत्मानुरूपेण सवयसापरेण देवतार्चनकुसुमान्युचिन्वता तापसकुमारेणानुगतम् , अतिमनोहरम् , स्नाना मागतं मुनि कुमारकमपश्यम् । तेन च कर्णावतंसीक तां वसन्तदर्शनानन्दितायाः स्मितप्रभामिव वनश्रिय ' , मलयमास्तागम नाईलाजाञ्जलिमिव मधुमासस्य , यौवनलीलामिव कुसुम लक्ष्म्याः , सुरतपरिश्रमस्वेदजलकणजालकावलीमिव रतेः , ध्वजचिह्नचामरपिच्छि कामिव मनोभवगजस्य , मधुकरकामुकाभिसारिकाम् , कृत्तिकातारास्तबकानु, कारिणीम् , अमृतबिन्दुनिस्यन्दिनीम् , अदृष्टप्वाँकुसुममजरीमद्राक्षम् । " अस्याः परिभूतान्यकुस्मामोदो नन्वयं परिमलः " इति मनसा निश्चित्य तं तपोधनयुबानमोक्षमाणाहमचिन्तयम् - ' अहोरूपातिशयनिष्पादनोपकरणकोष स्याक्षीणता विधातुः , यस्त्रिभुवना दूतरूपसम्भारं भगवन्तं कुछमायुधमुत्पाद्य तदाकारातिरिक्तरूपराशिरयम परो मुनिमायामयोमकरकेतुरुत्पादितः । मन्ये च सकलजगन्नयनानन्दकरं शशिबिम्बं विरचयता लक्ष्मीलीलावासभवनानिकसलानि सृजता प्रजापतिनाप्रथममेतदाननाकारकरणकौशलाभ्यास एव कृतः । अन्यथा क्रिभिव हिं सदृशवस्तुविरचनायां कारणम् । अलीकं चेदं यथा किल सकलाः कलाः कलावतो बडुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरा पिवतीति । ताः खल्वस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम् । ' इति विचिन्तयन्ती मेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवनसुलभः कुसुमा युधः कुसुमसमयमद इव मधुकरी परवशामकरोत् । उच्छ्वसितैः सह विस्मतनिमेषेण किम्चिदामुकुलितपक्षमणा जिमिततरल तरतारसारोदरेण दक्षिणेन चक्षुपा सस्पृहमापिबन्तीव , विमपि याचमानेव , त्वदायत्तास्मि ' इति वदन्तीव , अभिमुखं हृदयमर्पयन्तीव , सर्वात्मनानुप्रविशन्तीव , तन्मयताभिव गन्तुमीह माना , ' मनोभवाभिभूतां त्रायस्व ' इति शरणमिवोपयान्ती , ' देहि हृदयेऽवकाशमः इत्यथितामिव दर्शयन्ती , हा हा किमिदमसांप्र तमतिहेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतम् ' इति जानानाध्यप्रभवन्ती करणानाम् , म्नम्भितेव लिखितेव उत्कीर्णेव संयतेव मूछितेव केनापि विधृतेव निष्पन्दसकलावयवा तत्कालाविर्भूतेनावष्टम्भेन , अकथितशिक्षितेनानाख्येयेन स्वसंवेद्येन केवलं न विभाव्यते किं तद्रपसंपदा किं मनसा मनसिजेन किमभि नवयौवनेन किमनुरागेणेवोपदिश्यमाना किमन्येनैव केनापि प्रकारेणामपिन जानामि कथंकथमिति तमतिचिरं व्यलोकयम् । उक्षिप्य नीयमानेव तत्समी पमिन्द्रियैः पुरस्तादाकृष्यमाणेव हृदयेन पृष्ठतः प्रेर्यमाणेव पुष्पधन्वना कथमपि मुक्त प्रयत्नमप्यात्मानमधारयम् । अनन्तरं च मेऽन्तर्मदनावकाशमिव दातुमाहित सन्ताना निरीयुः श्वासमरुतः । साभिलाषं हृदयमाख्यातुकाममिव स्फुरितमुखमभूत्कुचयुगलम् । स्वेदसलिलवलेखाक्षालितेवागलहजा । मकरध्वजनिशित शरनिकरनिपातत्रस्तेवाकम्पत गात्रयष्टिः । तद्रूपाति शयं द्रष्टुमिव कुतूहलादा लिङ्गनलालसेभ्योऽङ्गभ्यो निरगाद्रोमाञ्चजालकम् । अशेषतः स्वेदाम्भसा धौत श्वरणयुगलादिव हृदयमविशद्रागः । आसीच्च मम मनसि – ' शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽरिमअने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढंहृदयमङ्गनाजनस्य , यदनुरागविषययोग्यतामपि विचारयितुं नालम् । क्वेद मतिभास्वरं धाम तेजसां तपसां च ; क च प्राकृतजनाभिनन्दितानि मन्मथ परिस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्व्यमानामुपहसति मनसा । चित्रं चेदं यदह मे वमवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुप संहर्तुम् । अन्या अपि कायकास्त्रपामपहाय स्वयमुपयाताः पतीन् । अन्या अप्यनेन दुर्विनीतेन मन्मथेनोन्मत्तता नीता नार्यः । न पुनरहमका यथा ।कथमनेन क्षणेनाकारमात्रालोकनाकुलीभूतमेवमस्वतन्त्रतामुपैत्यन्तःकरणम् । कालो हि गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । यावदेव सचेत नास्मि , यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघव मेतत् , तावदेवास्मात्प्रदेशादपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्श नकुपितोऽयं शापाभिज्ञां करोति माम् । अदूरकोपा हि मुनिजनप्रकतिः ' इत्य वधार्यापसर्पणाभिलाविण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वातद्वदनाकृष्टदृष्टिंप्रसरम् , अचलितपक्ष्ममालम , अदृष्टभूतलम् , ईषदुल्लसितक पल्लवोन्मुक्तकपोलमण्डलम् , आलोलालकलतालसत्कुसुमावतंसम् , अंसदेशदो लायितमणिकुण्डलमस्मै प्रणाममकरवम् । अथ कृतप्रणामायां मयि दुर्लङ्घ्यशासनतया भगवतो मनोभुवः , मदन ननतया च मधुमासस्य , अरि रमणीयतया च तस्य प्रदेशस्य , अविनयबहुलतया चाभिनवयौवनस्य , चञ्चलपक तितया चेन्द्रियाणाम् , दुर्निवारतया च विषयाभिलाषाणाम् , चपलतया च मनोवृत्तेः , तथाभवितव्यतया च तस्य तस्य वस्तुनः ; किं बहुना , मम मन्दभाग्यदौरात्म्यादस्य चेदृशस्य क्लेशस्य विहि तत्वात्तमपि मर्द्विकारदर्शनापहृतधैर्य प्रदीपमिव पवनस्तरलतामनयदनङ्गः । तदा तस्याप्यभिनवागतं मदनं प्रत्युद्गच्छन्निव रोमोद्गमः , प्रादुरभवत् । मत्सकाशमभिप्रस्थितस्य मनसो मार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । वेपथुगृहीता व्रतभङ्गभीतेवाकम्पत करतलगताक्षमाला । द्धितीयेव कर्णावसक्त कुसुममञ्जरी कपोलतलासङ्गिनी समदृश्यत स्वेदसलिलसीकरजालिंका । महर्शनप्रीति विस्तारितस्य चोत्तानतारकस्य पुण्डरीकमयमिव तमुद्देशमुपदर्शयतो लोचनयुगलस्य विपिभिरंशसन्तानैर्यदृच्छयाच्छोदसलिलमपहाविकचकुव लयवनेरिव गगनतलसमुत्पतितैररुध्यन्तदशदिशः । तया तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशा तत्क्षण महमवर्णनयोग्यां कामप्यवस्थामन्वभवम् । इदं च मनस्यकरवम् - ' अनेकसुरतसमागमलास्यलीलोपदेशोपाध्याया मकर केतुरेब विलासानुपदिशति ; अन्यथा विविधरसासङ्गललितेष्वीदृशेषु व्यतिकरेष्वप्रविष्टबुद्धरस्य जनस्य कुत इयमनभ्यस्ताकृती रतिरसनिस्यन्दमिव क्षर न्त्यमृतमिव वर्षन्ती मदमुकुलितेव खेदालसेव निद्राजडेवानन्दभरमन्थर तरत्तारसञ्चारिण्यनिभृतभ्रलतोल्लासिनी दृष्टिः । कुतश्चेदमतिनैपुण्यं यच्चक्षु षैवानक्षरमेवमन्तर्गतो हृदयाभिलाषः कथ्यते ' ।
प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकम पृच्छम् - ' भगवन्किमभिधानः कस्य चायं तपोधनयुवा ? किनाम्नस्तरोरिय मनेनावतंसीकृता कुसुममञ्जरी ? जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वोगन्धः ” इति । स तु मामीषद्विहस्या ब्रवीत्- “ बाले किमनेन पृष्ठेन प्रयोजनम् ? अथ कौतुकमावेदयामि । श्रृयताम् : अस्ति खलु सकलत्रिभुवनप्रख्यातकीर्तिरत्युदारतया सुरासुरसिद्धवृन्दवन्दिसुरासुरसिद्धवृन्दवन्दितचरणयुगलो महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य भगवतः सुरा सुरलोकसुन्दरीहृदयानन्दकरम् , अशेषत्रिभुवनमुन्दरम् , अतिशयितनलकूबरं रूपमासीत् । स कदाचिद्देवतार्चनकमलान्युद्धर्तुमैरावतमदजलबिन्दुबद्धचन्द्रक शतखचितजलां हरहसितसितस्रोतसं मन्दाकिनीमवततार । अवतरन्तं च तदा कमलवनेषु संततसंनिहिता विकचसहस्रपत्रपुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श
तस्यास्तु तमवलोकयन्त्याः प्रेममदमुकुलितेनानन्दबाष्पभरतरङ्गतरलतारेण लोचनयुगलेन रूपमास्वादयन्त्या जम्भिकारम्भमन्थरमुखविन्यस्तहस्तपल्लवाया मन्मथविकृतं मन आसीत् । आलोकनमात्रेण च समासादितसुरतसमागमसु खायास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत् । तस्माच्च कुमारः समुद पादि । ततस्तमुत्संगेनादाय सा ' भगवन्गृहाण तवायमात्मजः ' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया तदेव ' पुण्डरीक ' इति नाम चक्रे । प्रतिपादितव्रतं च तमागृहीत सकलविद्याकलापमकार्षीत् । सोऽयम् । इयं च सुरासुरैर्मथ्यमानाक्षीरसागरादुद्गतः पारिजातनामा पादप स्तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादिवती तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापति कैलासगतमुपासितु ममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्निर्गत्य साक्षान्मधुमासलक्ष्मीदत्तललितहस्तावलम्बया बकुलमालिकामेखलया कुसुमपल्लवग्रथिताभिरा जानुल म्बनीभिः कण्ठमालिकाभिनिरन्तराच्छादितविग्रहया नवचूताङ्कुर कर्णपूरया पुष्पासवपानमत्तया नन्दनवन देवतया पारिजातकुसुम् मञ्जरी मिमामादाय प्रणम्याभिहितः — ' भगवन्सकलत्रिभुवनदर्शनाभिरामायास्तवा कृतेरस्याः सदृशोऽयमलङ्कारः प्रसादी क्रियताम् । इयमवतंसविलासटुललिता समारोप्यतां श्रवणशिखरम् । बजतु सफलतां जन्म पारिजातस्य ' । इत्येव मभिधानां चायमात्मरूपस्तुतिवादत्रपावनमितविलोचनस्तामना इत्यैव गन्तुंप्रवृत्तः । मया तु तामनुयान्तीमालोक्य ' को दोषः सखे क्रियतामस्याः प्रणयपरिग्रहः ' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत्का स्न्येन योऽयं या चेयं , यथा चास्य श्रवणशिखरं समारूढा तत्सर्वमावेदितम् । इत्युक्तवति तस्मिन् स तपोधनयुवा किञ्चिदुपदर्शितस्मितो मामवाईत्अयि कुतूहलिनि , किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला गृह्यतामियम् ' इत्युक्त्वा समुपसृत्यात्मीयाच्छवणादपनीय कलैरलिकुलक्कणितैः प्रारब्धरतिसमागमप्रार्थनामिव मदीये श्रवणपुटे तामकरोत् । मम तु तत्कर तलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुममवतंसस्थाने पुलकमासीत् । स च मत्कपोलस्पर्शसुखेन तरलीकृताङ्गलिजालकात्करतलादक्षमाला लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्तामेव भूतलमक्षमालां गृहीत्वासलीलं तद्भुजपाशसंदानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्वहारलतालीलां कण्ठाभरणतामनयम । इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामवोचत् - भर्तृदारिके स्नाता देवी । प्रत्यासीदति गृहगमनकालः । तत्क्रियतां मजनविधिः ' इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ् कुशपातेनानिच्छया कथंकथमपि समाकृष्यमाणा तन्मुखाल्लावण्यामृतपकमग्नामिव कपोलपुलककण्टकजालकलग्नामिव मदनशरशलाकाकीलितामिव सौभाग्यगुणस्यूतामिवातिकृच्छे ण दृष्टिमाकृष्य स्नातुमुदचलम् । उच्चलितायां च मयि द्वितीयो मुनिदारकस्त थाविधं तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् ' सखे पुण्डरीक ! नतदनुरूपं भवतः । क्षुद्रजननण एष मार्गः । धैर्यधना पवित्र हि साधवः । किं यः कश्चित्प्राकृत इव विक्लवीभवन्तमात्मानं न रुणसि ।
कुतस्तवापूर्वोऽयमद्येन्द्रियोपप्लवो येनास्येवं कृतः । व ते तद्धैर्यम् । कासा विन्द्रियजयः । न तद्वशित्वं चेतसः । क्व सा प्रशान्तिः । क तत्कुलक्रमागतं ब्रह्मचर्यम् । क सा सर्वविषयनिरुत्सुकता । क ते गुरूपदेशाः । क तानि श्रतानि । कता वैराग्यबुद्धयः । क्व तदुपभोगविद्वेषित्वम् । क सा सुखपराङ् मुखता । कासौ तपस्यभिनिवेशः । क सा भोगानामुपर्यरुचिः । क तद्यौवना नुशासनम् । सर्वथा निष्फला प्रज्ञा , निर्गुणो धर्मशास्त्राम्यासः , निरर्थकःनिरर्थकःसंस्कारः , निरुपकारको गुरूपदेशविवेकः , निष्प्रयोजना प्रबुद्धता , निष्कारणं ज्ञानम् , यत्र भवाहशा अपि रागाभिषडैः कलुषीक्रियन्ते प्रमादैश्चाभि भूयन्ते । कथं करतलागलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगत चेतनत्वम । अपहृता नामेयम् । इदमपि ताबदपह्रियमाणमनयानार्यया निवार्यतां हृदयम् । ' इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्य वादीत् – ' सखे कपिजल ! किं मामन्यथा संभावयसि नाहमेवमस्या दुर्विनीतकन्यकायामर्पयाम्यक्षमालाग्रहणापराधमिमम् । ' इत्यभिधायालीककोपकान्तेन प्रयत्न विरचितभीषणभ्रुकुटिभूषणेन चुम्बनाभिलाषस्फुरिताधरेण मुखेन्दुना माम वदत् - ' चञ्चले , प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात्पदमपि न गन्तव्यम् ' इति । तच्च श्रुत्वाहमात्मकण्ठादुन्मुच्य मकरध्वजलास्यारम्भलीलापुष्पाञ्जलि मेकावलीं ' भगवनगृह्यतामक्षमाला ' इति मन्मुखासक्तदृष्टेः शून्यहृदस्यास्य प्रसा रिते पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बयआच सह तमेव चिन्तयन्ती स्वभवनमयासिषम् । गत्वा प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहविधुरा किमागतास्मि , किं तत्रैव स्थितास्मि , किमेकाकिन्यस्मि ' किं परिवृत्तास्मि , किं तूष्णीमस्मि , किं प्रस्तुतालापास्मि , किं जागर्मि , कि सुप्तास्मि , किं , रोदिमि , किं न रोदिमि , किं दुःखमिदम् , किं सुखमिदम् , किमुत्कण्ठेयम् , किं व्याधिरयम् किं व्यसनमिदम् , किमुत्सवोऽयम् , किं दिवस एषः , किं निशेयम् , कानि रम्याणि , कान्यरम्याणीति सर्वं नावागच्छम् । अविज्ञातमदनवृत्तान्ता च क गच्छामि किं करोमि किं शृणोमि किं पश्यामि किमालपामि कस्य कथयामिकोऽस्य प्रतीकार इति सर्व च नाज्ञासिषम् । केवलमारुह्य कुमारीपुरप्रासादं विसर्म्य च सखीजनं द्वारि निवारिताशेषपरिजनप्रवेशा , सर्वव्यापारानुत्सृज्यै काकिनी मणिजालगवाक्षनिक्षिप्तमुखी , तामेव दिशं तत्सनाथतया प्रसाधिता मिव कुसुमितामिव महारत्ननिधानाधिष्ठितामिवामृतरससागरपूरप्लावितामिव पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा , तस्मादिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्ता प्रष्टुमीहमाना , तद्वल्लभतया तपःक्लेशयापि स्पृहयन्ती , त प्रीत्येव गृहीतमौनव्रता , स्मर जनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसम्पर्कात्पारिजातकुसुमस्य मनोहरतां तन्निवासात्सुरलोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती , दूरस्थस्यापि कमलिनीव सवितुः सागरवेलेव चन्द्रमसो मयूरीव जलधरस्य तस्यैवाभिमुखी , तथैव तां तद्विरहातुरजीवितोद्गमरक्षाबलीमिवाक्षावली कण्ठेनोद्वहन्ती , तथैव च तया प्रस्तुततद्रहस्यालापयेव कर्णलग्नया पारिजातमञ्जर्या तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्ट कितैककपोलफलका निस्पन्दमतिष्ठम् ।
No comments:
Post a Comment