Wednesday, 27 August 2025

तर्कभाषा

तर्कभाषा

उपोद्घातः

बालोऽपि यो न्यायनये प्रवेशम्, अल्पेन वाञ्छत्यलसः श्रुतेन । संक्षिप्तयुक्त्यन्विततर्कभाषा, प्रकाश्यते तस्य कृते मयैषा ।।

'प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः' । न्याय सूत्र 1-1-1 इति न्यायायस्यादिमं सूत्रम् ।
अस्यार्थः । प्रमाणादिषोडशपदार्थानां तत्त्वज्ञानान्मोक्षप्राप्तिर्भवतीति । न च प्रमाणादीनां तत्त्वज्ञानं सम्यग्ज्ञानं तावद्भवति यावदेषामुद्देशलक्षणपरीक्षा न क्रियन्ते । यदाह भाष्यकारः-

'त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षा चेति" ।

उ‌द्देशस्तु नाममात्रेण वस्तुसङ्कीर्तनम् । तच्चास्मिन्नेव सूत्रे कृतम् । लक्षण-न्त्वसाधारणधर्मवचनम् । यथा गोः सास्नादिमत्त्वम् । लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा । तेनैते लक्षणपरीक्षे प्रमाणादीनां तत्त्वज्ञानार्थ कर्तव्ये ।
प्रमाणपादार्थनिरूपणम्
तत्रापि प्रथममुद्दितस्य प्रमाणस्य तवल्लक्षणमुच्यते। प्रमाणं प्रमाणम्। अत्र च प्रमाणं लक्ष्यं, प्रमाणं लक्षणम्।

ननु प्रमायाः करणं चेत् प्रमाणं र्ताह तस्य फलं वक्तव्यम्, करणस्य फल-वत्त्वत्नियमात् । सत्यम् । प्रमैव फलं, साध्यमित्यर्थः । यथा छिदाकरणस्य परशोश्छिदैव फलम् ।

प्रमा

का पुनः प्रमा, यस्याः करणं प्रमाणम् ।

उच्यते । यथार्थानुभवः प्रमा। यथार्थ इत्ययथार्थानां संशय-विपर्ययतर्क-ज्ञानानां निरासः । अनुभव इति स्मृनिरासः ।

ज्ञातविषयं ज्ञानं स्मृतिः । अनुभवो नाम स्मृतिव्यतिरिक्तं ज्ञानम् ।

करणम्

किं पुनः करणम् ? साधकतमं करणम् । अतिशयितं साधकं साधकतमं प्रकृष्टं कारणमित्यर्थः ।

कारणम्

कारण

कार्य

पह

ननु साधकं कारणमिति पर्यायस्तदेव न ज्ञायते किन्तत्कारणमिति । उच्यते । यस्य कार्यात् पूर्वभावो नियतोऽनन्यथासिद्धश्च तत्कारणम् । यथा तन्तुवेमादिकं पटस्य कारणम् ।

यद्यपि पटोत्पत्तौ दैवादागतस्य रासभादेः पूर्वभावो विद्यते, तथापि नासौ नियतः ।

तन्तुरूपस्य तु नियतः पूर्वभावोऽस्त्येव किन्त्वन्यथासिद्धः पटरूपजननोपक्षीण-त्वात्, पटं प्रत्यपि कारणत्वे कल्पनागौरवप्रसङ्गात् ।

तेनानन्यथासिद्धनियतपूर्वभावित्वं कारणत्वम् । अनन्यथासिद्ध नियतपश्चाद्भा-वित्वं कार्यत्वम् ।

यत्तु कश्चिदाह कार्यानुकृतान्वयव्यतिरेकि कारणमिति, तदयुक्तम् । नित्य-विभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासम्भवेनाकारणत्वप्रसङ्गात् ।

तच्च कारणं त्रिविधम् । समवायि-असमवायि-निमित्त-भेदात् । तत्र यत्स-मवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य समवायि-कारणम् । यतस्तन्तुष्वेव पटः समवेतो जायते, न तुर्यादिषु ।

ननु तन्तुसम्बन्ध इव तुर्यादिसम्बन्धोऽपि पटस्य विद्यते, तत्कथं तन्तुष्वेव पटः समवेतो जायते न, तुर्यादिषु ?

सत्यम् । द्विविधः सम्बन्धः संयोगः समवायश्चेति। तत्रायुतसिद्धयोः सम्बन्धः समवायः । अन्ययोस्तु संयोग एव ।

कौनपुनर्युत्सिद्धौ ? ययोर्मध्ये एकमविनश्यादपराश्रितमेवातिष्ठते तव-युतसिद्धौ।

तदुक्तम्-

तवेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः। अनश्यदेकमपराश्रितमेवातिष्ठते 11

यथा अवायवयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ति, विशेष-नित्यद्रव्ये चेति। अवायव्याद्यो हि यथाक्रममवायवाद्याश्रिता एवावतिष्ठन्ते-ऽविनश्यन्तः। विनश्यादवस्थास्वनाश्रिता एवावतिष्ठन्तेऽवायव्याद्यः। यथा तंतु-नाशे सति पतः। यथा वा आश्रयनाशे सति गुणः। विन्सयत्ता तु विनाश-कारणसामग्रीसन्निध्यम्।

तन्तुपटावप्यवयवावविनौ, तेन तयोः सम्बन्धः समवायोऽयुतसिद्ध-त्वात् । तुरीपटयोस्तु न समवायोऽयुतसिद्धत्वाभावात् । न हि तुरी पटाश्रिते-बावतिष्ठते नापि पटस्तुर्याश्रितः । अतस्तयोः सम्बन्धः संयोग एव । तदेवं

तन्तुसमवेतः पटः ।

यत्समवेतं कार्यसुत्पद्यते तत्समवायिकारणम् । अतस्तन्तुरेव समवायि -कारणं पटस्य न तु तुर्यादि ।

M

पटश्च स्वगतरूपादेः समवायिकारणम् । एवं मृत्पिण्डोपि घटस्य समवायिकारणं, घटश्च स्वगतरूपादेः समवायिकारणम् ।

ननु यदैव घटादयो जायन्ते तदैव तद्गतरूपादयोऽपि, अतः समान-कालीनत्वाद् गुणगुणिनोः सव्येतरविषाणवत्कार्यकारणभाव एव नास्ति पौर्वा-पर्याभावात् । अतो न समवायिकारणं घटादयः स्वगतरूपादीनाम् । कारण-विशेषत्वात् समवायिकारणस्य ।

अत्रोच्यते । न गुणगुणिनोः समानकालीनं जन्म, किन्तु द्रव्यं निर्गुणमेव प्रथममुत्पद्यते पश्चात् तत्समवेता गुणा उत्पद्यन्ते । समानकालोत्पत्तौ तु गुण-गुणिनोः समानसामग्रीकत्वाद् भेदो न स्यात्, कारणभेदनियतत्वात्कार्यभेद-स्य । तस्मात्प्रथमे क्षणे निर्गुण एव घट उत्पद्यते गुणेभ्यः पूर्वभावीति भवति गुणानां समवायिकारणम् ।

तदा कारणभेदोऽप्यस्ति । घटो हि घटं प्रति न कारणमेकस्यैव पौर्वापर्याभावात् । न हि स एव तमेव प्रति पूर्वभावी पश्चाद्भावी चेति । स्वगुणान् प्रति तु पूर्वभावित्वाद् भवति गुणानां समवायिकरणम् ।

No comments:

Post a Comment