TATHAGAT
Thursday, 21 January 2021
नास्म्यहं साधुः
नास्म्यहं साधुः
यदा शोषणमीक्षे
क्रोधं धरामि।
नास्म्यहं साधुः
मोहो मे तेषां कृते
ये नापि श्रान्ताः।
नास्म्यहं साधुः
येsपि समदर्शिनः
रतिं मे तेषु।
नास्म्यहं साधुः
जीवने न समर्थाः
तेभ्यः रायिच्छा।
नास्म्यहं साधुः
सिद्धिं विना स्थिराः न
गर्वो मे तेषु।
गौतमरामहेतः
Newer Post
Older Post
Home