Thursday, 21 January 2021

नास्म्यहं साधुः

क्रोधं धरामि
यदा शोषणमीक्षे 
नास्म्यहं साधुः।

ये नापि श्रान्ताः
मोहो मे तेषां कृते
नास्म्यहं साधुः।

रतिं मे तेषु
येsपि समदर्शिनः
नास्म्यहं साधुः।

तेभ्यः रायिच्छा
जीवने न समर्थाः 
नास्म्यहं साधुः।

गर्वो मे तेषु
सिद्धिं विना स्थिराः न
नास्म्यहं साधुः।

यशस्वीनां साहित्यकाराणां हीरालालराजस्थानीवर्याणां हिन्दीरचनायाः संस्कृतानुवादः। साभारं तान्नमाम्यहम्।
गौतमरामहेतः

No comments:

Post a Comment