Tuesday, 17 September 2019

पेरियारामृतम्

ईश्वरो नास्ति

भो नास्ति ईश्वरो नास्ति
ईश्वरो इति निश्चयः।
येन सः ईश्वरः सृष्टः
सः मूर्खः इति निश्चयः।।1

प्रचारयति ईशं यः
सः दुष्टः इति निश्चयः।
यो पूजयति ईशं सः
वर्वरः इति निश्चयः।।2

नायकरः पिरीयारः
पृच्छति ईश्वरमिदम्।
तर्कबुद्धिः न यस्यास्ति
यो स्वीकरोति ईश्वरम्।।3
त्वं कायरोSसि किं यत् हि
अदृशो असि सर्वदा।
अत्र कदापि कस्यापि
न आगच्छसि अग्रेSपि।।4

दासप्रियोSसि किं त्वं नु पूजामिच्छसि अर्चनाम्।
किं त्वमसि बुभुक्षोSपि
दुग्धं मिष्ठान्नमिच्छसि।।5

किं मांसभक्षकोSसि त्वं
यदिच्छसि पशोःबलिम्।
किं स्वर्णवणिकोSसि त्वं
स्वर्णनिधिं करोति यत्।।6


त्वमसि व्यभिचारी किं
दासीदेवस्य इच्छसि।
रोधयसि बलात्कारान्न
निर्बलोSसि त्वं अपि।।7
यत् क्षेपयसि नालीषु
तैलं दुग्धं बहुधनम्।
कुपोषित-दरिद्र-देशे
मौनेन सहते इहा।।8
त्वमसि बधिरो किन्न
शृणोति रक्षयाचनाम्।
न पश्यत्यपराधं त्व
-
मन्धोsसि किं त्वमत्र हि।।9
आतंकीनां सखा किं त्वं
धर्मव्याजेन याचते।
निरदोषाणां जनाना
-
मधुना प्राणबलिं सदा।।10
रोचसे जनत्रासं त्वं
त्वमेवातंकनायकः।
शस्त्रान्धारयसि त्वं कि
तु त्रासार्थाय सर्वदा।।11
भ्रष्टो त्वमसि यत् किन्न ददौ
हरसि तेषां सर्वं नः।
श्रमिकार्जन्ति यत्नेन
तवकृते त्यजन्ति ते।।12
नास्तिकान् सृजसे अस्मा-
नविवेकी त्वमसि किम्।
येsस्वीकुर्वन्ति सत्तां वः
ते न सन्ति तव हस्ते।।13
पेरियारस्य वाचां तां
चिन्तयति शृणोति यः।
सः दारिद्र्येsपमाने च
न बद्ध्यते नु सर्वदा।।14

No comments:

Post a Comment