*NCERT Ruchira Class 8 chapter 3*
अद्य सम्पूर्णविश्वे "डिजिटल इण्डिया" इत्यस्य चर्चा श्रूयते । अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते । प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म । अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् । परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टंकणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकलाय सुरक्षिता अतिष्ठत्। वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता । अद्य सर्वाणि कार्याणि सङ्गणकनामकेन यन्त्रेण साधितानि भवन्ति । समाचार-पत्राणि पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च । कर्मदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म परम् सङ्गणकस्य अधिकाधिक- प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षाया दिशि महान् उपकारो भविष्यति।
*उत्तरप्रदेशे वर्धिता संस्कृतम् अधिगन्तुं रुचिः, अष्टसहस्राधिकजनाः कुर्वन्ति ऑनलाइनकक्षाम्*
उत्तरप्रदेशसंस्कृतसंस्थानपक्षतः संस्कृतं वक्तुम् पठितुम् अधिगन्तुं च इच्छुकेभ्यः जनेभ्य: संस्कृतभाषाशिक्षणस्य सुविधा आरब्धा । सर्वतो विशिष्टा वार्ता एषा अस्ति यत् संस्कृतम् अधिगन्तुम् इच्छुकाः दूरवाणीसङ्ख्यां प्रति 9522340003 मिसकॉलएलर्टमाध्यमेन आभासिकक्षायां स्वकीयं पञ्जीकरणं कारयितुं शक्नुवन्ति । अनया सुविधया संस्थानेन अधिकः लाभः अपि प्राप्तः । बृहत्सङ्ख्यासु युवभिः छात्रैः मिसकालमाध्यमेन स्वकीयं पञ्जीकरणम् आभासिकक्षाभ्यः कारितम् अपि च ते नियततया कक्षां कुर्वन्ति । संस्थानानुसारम् आभासिमाध्यमेन संस्कृतम् अधिगन्तुम् इच्छुकेभ्यः जनेभ्यः सप्तचत्वारिंशत्कक्षाणां सञ्चालनं क्रियते। एतेषु शिक्षकैः ऑनलाइनसंस्कृतस्य पाठशाला संस्थाप्यते । संस्थानानुसारं संस्कृतम् अधिगन्तृषु युववर्गस्य सङ्ख्या अधिका अस्ति । शिक्षकाः प्रतिदिनम् एकहोरात्मिकाम् आभासिकक्षां पाठयन्ति याः पूर्णरूपेण निःशुल्कं सन्ति । उत्तरप्रदेशसर्वकारः निरन्तरं देवभाषां संस्कृतं प्रति रुचिम् आनेतुं संस्कृतम् अधिगन्तुं च इच्छुकेभ्यः जनेभ्यः अवसरं प्रदातुं संलग्नः अस्ति । अस्मिन् उत्तरप्रदेशसंस्कृतसंस्थानं महतीं भूमिकां निर्वहति । संस्थानस्य अध्यक्षेण डॉ० वाचस्पतिमिश्रेण उक्तं यत् बहवः जनाः संस्कृतम् अधिगन्तुम् इच्छन्ति । विशेषतया वृत्तिवर्गाणाम् चिकित्सकानाम्, अभियन्तॄणाम्, व्यापारिणां च समयाल्पताम् उद्दिश्य एषः प्रकल्पः चिन्तितः । तन्निमित्तम् एतत् सेवायाः वरदानभूतम् । अनेन संयुज्य तत्रैव संस्कृतभाषाशिक्षणस्य पठनस्य च निःशुल्कं प्रशिक्षणं प्राप्तुं शक्यते। क्रियान्वयनगते तत्र प्रशिक्षणप्रमुखः सुधीष्ठकुमारः मिश्रः, सहायकप्रशिक्षणप्रमुखः सुशीलकुमारः, प्रशिक्षणसमन्वयकः धीरजः मैठाणी, कार्यालयसमन्वयकः रनेश्वरमणि त्रिपाठी च वर्तन्ते । तत्र तेनोक्तं यत् पञ्जीकरणाय अभ्यर्थिभिः केवलं गूगल आवेदनं पूरयिष्यते । आवेदने तेभ्यः स्वकीयव्यवसायस्य पठनस्य च विवरणं प्रदास्यते । एतदनन्तरं व्यवसायानुरूपं समूहमाध्यमेन अस्मिन् संस्कृतस्य पाठनं कारयिष्यते । तेनोक्तं यत् संस्कृतं पठितुम् इच्छुकछात्रेभ्यः संस्कृतज्ञानेन च सहैव नैतिकसंस्कारणां विषये सूचना प्रदास्यते । हिन्द्या, आङ्गलेन च सह छात्रेभ्यः संस्कृतेन वक्तुम् अपि शिक्षयिष्यते ।
*शशिरेखा*
दिनमणिः प्रवयस्कोऽपि सेवकः । ज्येष्ठोऽपि स भृत्यः । अतो बलात् किमपि वक्तुं न प्रभवति । अपृष्टः स किमपि उपदेष्टुं न शक्नोति । मनसि तस्य कोलाहलः । सम्मुखे प्रभोः मृदुविषादः । एकदा सः अपृच्छत् ।
— किमर्थं विषीदति भवान् ? स्पष्टं कथयतु ।
को वा अभावः...?
चिन्ताकुलः अभ्रपदः अपृच्छत् ।
— किम् 'अन्वेषणं समाप्तम् ?
— समाप्तम् ।
— तर्हि, का सा गृहेऽस्मिन् वधूः भवेत् ?
— मन्ये, मेदिनीं भवान् जानाति ।
— केयम्...?
— सा दीना... वृद्धा...।
— जानामि...। तस्या अत्र कः सम्पर्कः ?
— तस्याः कन्या श्रावणी ।
अभ्रपद: उच्चैरहसत् ।
— पितृव्य! भवान् दासमनोवृत्या मम विवाहं चिन्तयति नु ? दिनमणिः भीत्या अवदत् ।
— न.... नहि....., श्रीमन् !
— किं भवन्नयने दासीं दीनां वा विहाय नान्या कचित् प्रतिभाति?
— या आसीत् सा तु भवन्तं प्रत्याख्यातवती।
सहसा अभ्रपदः सावधानः संजातः । अहंकारः तस्य उदग्रोऽभूत् । स प्रतिशोधपरायणतया अगर्जत् — नूनं तस्याः कृते किञ्चित् दर्शयितव्यम् ।
दिनमणिः शान्तभावेन अबोधयत् । प्रकृतिस्थतया चिन्तयतु ।
— नहि...। दासी भवतु वा दीना भवतु । विवाहः करणीय एव।
— स्थिरमनसा चिन्तयतु । भवतः पदमर्यादा अस्ति । वंशस्य परम्परा याश्च आभिजात्यं वर्त्तते । सम्यक् विचार्य किमपि निश्चयं करोतु ।
— विचारे पुनः को लाभः ? भवान् गच्छतु । तत्रैव सम्बन्धं विधाय प्रत्यागच्छतु ।
*प्रेमरसोद्रेकः*
उपरि, निर्दिष्टसंलापः कयोश्चिद्वृद्धदम्पत्योः कश्मीरेषु कस्मिंश्चिद् ग्रामे पान्पुरनामनि कृतावासयोर्मध्ये समवर्तिष्ट । तदाश्रयार्थमागता हामिदाभिधा काचिदङ्गना परित्यक्ता पत्येति षण्मासान् स्वगेहे ताभ्यां निवासितासीत् । वर्षार्धोत्तरं सा प्रासूत कन्यामेकाम् । द्वादशदिनानन्तरे च तां स्वपालकाभ्यां समर्प्य प्रणाञ्जहौ । सा च बालिका मातृप्रेमामृतरसानभिज्ञा दम्पतिभ्यां प्राणनिर्विशेषं लालिता, सप्रेम संवर्धिता च पौत्रीनिर्विशेषम्। सेयं सरोजलोचना कुन्दकुड्मलदन्तपङ्क्तिः प्रवालाधरा चञ्चलालका शिरीषकुसुमकोमला शारदकौमुदीव रुचिरा धैर्यशीलापि मृदुवचना, धीरापि स्थिरमति: स्नेहनिर्झरसम्प्लुता दमयन्तीव परदमनशीला क्षमातलागता सुरसुन्दरीव कमनीया कृषीवलस्य क्षेत्रादिकार्येषु मुदा प्रयस्यन्ती सुखमास्त। कश्मीरीयाणामितरासां बालिकानामिव पान्पुरपल्लिका सुपरिचितासीत्तस्या अपि। विलक्षणोऽभूत्तस्या अनतिक्रान्तशैशवाया अपि स्वान्तर्बोधः किल। भाविविषयं पूर्वमेव सहजकल्पबुद्ध्या सा व्यजानात्, न च कदापि लुप्तधैर्यासीत् दारिकामिमां सकृदेवावलोक्य तदीयहृदयङ्गमगुणरत्नसम्पत्तिं जनः क्षणादेवोपलक्षितवान्। जायापती स्थविरौ बालिकेयमतिशयितप्रेम्णानवरतं सेवते स्म । प्रतिदिनं परिणतवयस्केन कृषीवलेन सार्धमस्मा मेषव्रजं रक्षितुं क्षेत्रं याति स्म। परमद्य सन्धिवातकारणाद् गेहान्निर्गन्तुं नाशकद्वृद्धः । यदा यदा हि स स्तोकमात्रमप्यस्वस्थोऽभूत्तदा तदा वत्सेयं मृदुवचसा तस्य बहिर्गमनमरुणत् । क्षेत्रबटुं विश्रमयितुं तावदहमेव क्षेत्रं यास्यामीत्यभ्यधात् पुनः सा सनिश्चयम्, जोषं स्थितस्य पितामहस्यानुमतिर्लब्धा मयेति च सीवनकर्म मञ्जूषामादाय निर्जगाम मन्दिरात्। शैशवे मातामह्या मुखादाकर्णितां निद्रागीतिकां मन्दं मन्दमध्वनि गायन्ती क्षेत्रं प्रति सा प्राचलत् ।
अपराह्नसमये तस्मिन् मृदुलहैमन्तार्करश्मिभिर्विस्तोर्णशालिक्षेत्रं तप्तसुवर्णसवर्णं परितो विरेजे। निरभ्रं निःशेषतो गगनतलं बृहत्कासार इव समलक्ष्यत । गन्धवाहोऽपि मान्द्यशैत्यसौरभ्ययुतो विशेषतो बभूवाह्लादकः । न चिरादस्मा मार्गवर्ति पुरातनमार्तण्डसुरमन्दिरमतिचक्राम। विध्वस्तं देवायतनमिदं क्रूरजाल्मानामवस्कन्दाद्रक्षितुमिव भगवान्मरीचिमाली स्वरश्मिजालं परितः प्रसारयामास प्राक्तनस्यास्य देवालयस्यान्तर्गताङ्गने चित्रविचित्रच्छायाचित्राणि विच्छिन्नस्तम्भानां दर्श दर्श दारिका किञ्चित्कम्पमाना प्रवारकेण कमनीयावंसौ समाच्छादयामास । "अलं भिया प्रतिच्छाया एवैताः ।" इत्यात्मानं सस्मितमाश्वास्य सा क्षेत्रं प्रति तत्वरे तस्याश्च स्निग्धकोमलमाननकमलं शीतमरुता प्रफुल्लतां ययौ । न चिरात्सा क्षेत्रमाससाद। पितामहस्य मेषयूथं शाद्वले तृणं भक्षयत् सुखमास्त। जृम्भमाणं क्षेत्रबटुमभ्युपेत्य साऽब्रवीत्सस्मितम्। "याहि गेहम्। श्रान्तोऽसि क्षुत्क्षामकण्ठश्च मेषरक्षणं स्वयं करिष्यामि। सूर्यास्तमने च तान् गोष्ठकं नेष्यामी'ति ।
इसे पढ़कर देखें। स्वयं की जांच करें।
No comments:
Post a Comment