Monday, 17 October 2022

ठठं

रामाभिषेके जलमाहरन्त्या 
हस्ताच्च्युतो हेमघटो युवत्याः।
सोपानमार्गेण करोति शब्दं 
ठठं ठठण्ठं ठठठं ठठण्ठः॥.Report · 11:16am
दिदीन् दीन् दीन् दीन् दीन् दधित् तन्दन्नन्दिमुरजम्, द्रणद् द्राणद् द्रण-द्रण-द्रणद् घर्घर-रवम्| 
स्फुरत् फू- फू- फू- फू फणिपतिफणात्फूत्कृतिशतम्, शिवं भूयो भूयः प्रथम-नट-नाट्यं दिशतु वः॥
श्रीमान्‌ शशिपाल शर्मा महाभागस्य सौजन्येन...्पुनः उद्धृतम्‌

No comments:

Post a Comment