Sunday, 5 May 2019

तन्मे भारतम् ।

सो एव श्रमी
यस्यास्ति श्रमं
सर्वेषां सर्जनाय।

सो एव धनी
यस्यास्ति धनं
सर्वेषां जीवनाय।

सो एव ज्ञानी
यस्यास्ति ज्ञानं
सर्वेषां मानाय।

सो एव बली
यस्यास्ति बलं
सर्वेषां रक्षणाय।

यत्र एते सर्वे
रमेयुस्सर्वदा
तन्मे भारतम् ।

डॉ रामहेतगौतमः, सहायक-प्राध्यापकः, संस्कृतविभागे, डाॅ हरिसिंह-गौर-विश्वविद्यालय: सागरं मप्र ।

No comments:

Post a Comment