Friday, 4 October 2019

22 प्रतिज्ञा:

ब्रह्मा-विष्णु-महेशेषु, विश्वासो न करोम्यहम्।
न पूजयामि तान् देवान्, प्रतिज्ञैतत् ममादिमा।।1
विश्वासो नास्ति मेsत्र यत्, रामकृष्णावतारिणौ।
न पूजयामि तौ द्वौ नु, प्रतिज्ञैतत् ममैव हा।।2
गौरी-गणपती-इत्यादीषु अन्येषु देवेषु।
ममास्था नास्ति किञ्चित् नु, न पूजयामि तान् कदा।।3
अवतरति-ईश्वरः, मृषा वदन्ति वामनाः।
वचेषु-तेषु-अन्धेषु, विश्वासो नास्ति मे सदा।।4
भ्रमो हि विद्यते यत्, बुद्धोsस्ति विष्णुरेव तु।
भ्रमेनानेन बाध्यन्ति, एतद् जानाम्यहं सदा।।5
पिण्डदाने च मे श्राद्धे, नास्था कदापि विद्यते।
प्रणं करोम्यहं यद्धा, श्राद्धं करोमि नार्पणम्।।6
तथागतस्य मार्गस्य न विरुद्धं चरामि हि।
चरामि नृविरुद्धं न, ममैतन्निश्चयं सदा।।7
कदापि कोsपि कार्यं न, कारयिष्यामि ब्रह्मणा।
मानवद्रोहिणा विश्वे, ममैतन्निश्चयं सदा।।8
समानाः मानवाः सर्वे, इत्यहं स्वीकरोम्यत्र।
ये स्वीकुर्वन्ति सत्यं नु, ते एव ज्ञानिनः भुवि।।9
समतास्थापनायेह, यत्नं करोमि सर्वदा।
सम्यक् संकल्पमस्तीह, जगद्धिताय सम्प्रति।।10
विधास्याम्यहमष्टांगं, दुःखनिवृत्त्युपायममुं।
अर्हतेन इदं दत्तं, लोकहिताय सत्पथम्।।11
पालयामि दशपालीं, दानं शीलं बलं त्यागः।
ध्यानं प्रज्ञां प्रणिधानं, शान्तिं वीर्यमुपाय च।।12
दया करोमि सर्वेषु, प्राणीषु पालयामि तान्।
प्रणं करोम्यहं दृढ़ं, न चलामि ममाख्येयम्।।13
चोरयिष्यामि किञ्चिन्न, वदिष्यामि मृषा न कम्,
व्यभिचारं न चरामि, सुरां कदा न पास्यामि।।14
करुणा-शील-प्रज्ञाः तु, त्रीणि तत्वानि संधार्य।
बुद्धोपायेन मध्येन, अहं जीवामि सर्वदा।।15
नीचोच्चतामस्राक्षीत्यः,जनोत्कर्षविरुद्धयः।
तं कुधर्मं त्यजाम्यहम्,बुद्धमार्गं मया धृते।।16
धम्मो बुद्धस्यसद्धम्मं विश्वासो मम एवं तु।
मे जन्मोsयं नवं नूनं, बुद्धानुशासनं यामि।।17

No comments:

Post a Comment