जीवति अर्जनाय
अर्जति भोजनाय
भुङ्क्ते जीवनाय
तदपि म्रियते जनः।
मृत्युभयाद्यद्येव
जलमन्नं खादसि
तर्हि मर सम्प्रति
समस्या गमिष्यति
श्रमेणालं यद्धि
मरणं तु निश्चितं।
जीवनमिच्छसि
जीवेः समाजाय
उद्देश्यं धारय
बन्धनात् मोचय
कुरु समाजकार्यं।
स्वोदरं सुतोदरं
पूरयन्ति पशवोsपि
तर्हि कोsपि विशेषः
कथय तव जीवने।
मम दृष्ट्या तु
स एव नरः
समाजहितं यः
विचिन्तयति
करोति सदा।
चिन्तय समाजाय
चिन्तय समाजाय
चिन्तय समाजाय
विचिन्त्य, भव नरः।
भीम-वाणे: संस्कृतानुवादः
रामहेतगौतमः
No comments:
Post a Comment